महासुभाषितसंग्रह · श्लोक 8096-8115
एवमन्योन्यसंचारं षड्गुण्यं योऽनुपश्यति ।
स बुद्धिनिगलैर् बद्धैर् इष्टं क्रीडति पार्थिवैः ॥
एवमपास्तमतिः क्रमतोऽत्र पुष्पधनुर्धरवेगविधूतः ।
किं न जनो लभते जननिन्द्यो दुःखमसह्यमनन्तमवाच्यम् ॥
एवमभ्याहते लोके कालेनाभिनिपीडिते ।
सुमहद् धैर्यमालम्ब्य मनो मोक्षे निवेशयेत् ॥
एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत ।
धर्मार्थकामसंयुक्तं नालं मन्त्रं परीक्षितुम् ॥
एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् ।
सर्वस्य तपसो मूलम् आचारं जगृहुः परम् ॥
एवमाप्तवचनात् स पौरुषं काकपक्षकधरेऽपि राघवे ।
श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि ॥
एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति ।
सा सखीभिरुपदिष्टमाकुला नास्मरत् प्रमुखवर्तिनि प्रिये ॥
एवमाश्रमविरुद्धवृत्तिना संयमः किमिति जन्मतस् त्वया ।
सत्त्वसंश्रयसुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः ॥
एवमुत्तमजन्मानस् तिर्यञ्चोऽप्यापदि प्रिये ।
प्रभुं नोज्झन्ति मित्रं वा तारयन्ति ततः पुनः ॥
हीनजात्युद्भवा ये तु तेषां स्पृशति नाशयम् ।
कदाचिदपि सत्त्वं वा स्नेहो वा चञ्चलात्मनाम् ॥
एवमुपचीयमानं स्तोकं स्तोकं विचिन्वतः पुण्यम् ।
संपद्यते विशालं श्रुतिमप्येवं तपोऽप्येवम् ॥
एवमेव क्रियायुक्ता सर्वसौभाग्यदायिनी ।
यस्यैषा च भवेद् भार्या देवेन्द्रोऽसौ न मानुषः ॥
एवमेव नहि जीव्यते खलात् तत्र का नृपतिवल्लभे कथा ।
पूर्वमेव हि सुदुःसहोऽनलः किं पुनः प्रबलवायुनेरितः ॥
एवमेव मनुष्येषु तेषु पूर्वापकारिषु ।
विश्वासो नोपगन्तव्यो नदी गतजला यथा ॥
एवमेव हि योऽश्वत्थं रोपयेद् विधिना नरः ।
यत्र कुत्रापि वा स्थाने गच्छेत् स भवनं हरेः ॥
एष एव मनस्तापः पङ्के मग्नस्य दन्तिनः ।
पतते यत् समुद्धर्तुं ज्ञातयो निभृतस्मिताः ॥
एष क्रीडान्तताम्यत्कुसुमपुरवधूवक्त्रसौरभ्यबन्धुर् मुग्धं निद्राजडानां रसितमनुसरोद्राघयन् सारसानाम् ।
आवात्यङ्गानुकूलश् चलितविचकिलश्रेणिगन्धानुधावद्- रोलम्बोद्घुष्यमाणस्मरजयबिरुदाडम्बरो मातरिश्वा ॥
एष क्षुभ्नाति पङ्कं दलति कमलिनीमत्ति गुन्द्राप्ररोहान् आरान् मुस्तास्थलानि स्थपुटयति जलान्युत्कसेतूनि याति ।
प्राप्तः प्राप्तः प्रविष्टो वनगहनमयं याति यातीति सैन्यैः पश्चादन्विष्यमाणः प्रविशति विषमान् काननान्तान् वराहः ॥
एष गजोऽद्रिमस्तकतले कलभपरिवृतः क्रीडति वृक्षगुल्मगहने कुसुमभरनते ।
मेघरवं निशम्य मुदितः पवनजवसमः सुन्दरि वंशपत्रपतितं पुनरपि कुरुते ॥
एष चारुमुखि योगतारया युज्यते तरलबिम्बया शशी ।
साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0