महासुभाषितसंग्रह · श्लोक 8016-8035
एभिर्दिनैस् तु शिष्याय गुरुः शस्त्राणि दापयेत् ।
संतर्प्य दानहोमाभ्यां सुरान् वेदविधानतः ॥
एभिर्नाशितयोगास्तु सकला देवयोनयः ।
उपसर्गैर्महाघोरैर् आवर्तन्ते पुनः पुनः ॥
एरण्डपत्त्रशयना जनयन्ती स्वेदमलघुजघनतटा ।
धूलिपुटीव मिलन्ती स्मरज्वरं हरति हलिकवधूः ॥
एरण्डबीजप्रतिमम् अङ्गं यस्मिन् प्रतीयते ।
महिषाख्यः स वै खड्गो नीलमेघसमच्छविः ॥
एरण्डभिण्डार्कनलैः प्रभूतैरपि संभृतैः ।
दारुकृत्यं यथा नास्ति तथा नाज्ञैः प्रयोजनम् ॥
एलाकरणढेकीभिर् वर्तन्या डूमडेन च ।
लम्भरासैकतालीभिः शुद्धसूडोऽष्टभिः स्मृतः ॥
एवं कदाचिन् नरकं स्वर्गं योन्यन्तराण्यपि ।
प्रयान्ति जीवा मोहेन मोहिता भवसंकटे ॥
एवं करणसामर्थ्यात् संयम्यात्मानमात्मना ।
नयापनयविद् राजा कुर्वीत हितमात्मनः ॥
एवं कर्तुं व वक्तुं च यो जानाति छलप्रियः ।
स करोतु स यात्वेवं कर्तुं भोक्तुं निजं हितम् ॥
एवं कुकर्म सर्वस्य फलत्यात्मनि सर्वदा ।
यो यद् वपति बीजं हि लभते सोऽपि तत्फलम् ॥
तस्मात् परविरुद्धेषु नोत्सहन्ते महाशयाः ।
एतदुत्तमसत्त्वानां विधिसिद्धं हि सद्व्रतम् ॥
एवं कुर्यात् समुदयं वृद्धिं चायस्य दर्शयेत् ।
ह्रासं व्ययस्य च प्राज्ञः साधयेच् च विपर्ययम् ॥
एवंगतस्य मम सांप्रतमेतदर्हम् अत्रेदमौपयिकमित्थमिदं च साध्यम् ।
अस्मिन् प्रमाणमिदमित्यपि बोद्धुमम्ब शक्तिर्न मे भुवनसाक्षिणि किं करोमि ॥
एवं च भाषते लोकश् चन्दनं किल शीतलम् ।
पुत्रगात्रस्य संस्पर्शश् चन्दनादतिरिच्यते ॥
एवं चेत् सरसि स्वभावमहिमा जाड्यं किमेतादृशं यस्मादेव निसर्गतः सरलता किं ग्रन्थिमत्तेदृशी ।
मूलं चेच् शुचि पङ्कजश्रुतिरियं कस्माद् गुणा यद्यमी किं छिद्राणि सखे मृणाल भवतस् तत्त्वं न मन्यामहे ॥
एवं चेद् विधिना कृतोऽस्युपकृतौ कस्यांचिदप्यक्षमः कामं मोपकृथास् ततस् तव मरो वाच्यं न धीरो भव ।
किं त्वारान् मृगतृष्णयोपजनयन्नम्भोमुचां वञ्चनां प्रेम्णा कर्षसि तर्षमूर्छितधियोऽप्यन्यानतः शोच्यसे ॥
एवं चोरानचोराख्यान् वणिक्कारुकुशीलवान् ।
भिक्षुकान् कुहकांश्चान्यान् वारयेद् देशपीडनात् ॥
एवं जडेषु लोकेषु स्त्रीषु मुग्धासु का कथा ।
बुद्धिहीनप्रसादेन जीवामः केवलं वयम् ॥
एवं जरा हन्ति च निर्विशेषं स्मृतिं च रूपं च पराक्रमं च ।
न चैव संवेगमुपैति लोकः प्रत्यक्षतोऽपीदृशमीक्षमाणः ॥
एवंज्ञात्वा नरेन्द्रेण भृत्याः कार्या विचक्षणाः ।
कुलीनाः शौर्यसंपन्नाः शक्ता भक्ताः क्रमागताः ॥
एवंज्ञात्वा महाभागाः पुरुषेण विजानता ।
दिवा तत् कर्म कर्तव्यं येन रात्रौ सुखं स्वपेत् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0