भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7996-8015

7996

एते स्निग्धतमा इति मा मा क्षुद्रेषु कुरुत विश्वासम् ।
सिद्धार्थानामेषां स्नेहोऽप्यश्रूणि पातयति ॥

7997

एते हि कामकलिताः परिमललीनालिवलयहुंकारैः ।
सूचितदानाः करिणो बध्यन्ते क्षिप्रमबलाभिः ॥

7998

एते हि गुणाः पङ्कज सन्तोऽपि न ते प्रकाशमायान्ति ।
यल् लक्ष्मीवसतेस् तव मधुपैरुपभुज्यते कोशः ॥

7999

एते हि जीवाश् चिद्भावा भवे भावनया हिताः ।
ब्रह्मणः कलिताकाराः सहस्रायुतकोटिशः ॥

8000

एते हि देहदाहाद् विरहा इव दुःसहा भिषजः ।
ग्रीष्मदिवसा इवोग्रा बहुतृष्णाः शोषयन्त्येव ॥

8001

एते हि विद्युद्गुणबद्धकक्षा गजा इवान्योन्यमभिद्रवन्तः ।
शक्राज्ञया वारिधराः सधारा गां रूप्यरज्ज्वेव समुद्धरन्ति ॥

8002

एते हि समुपासीना विहगा जलचारिणः ।
नावगाहन्ति सलिलम् अप्रगल्भा इवाहवभ् ॥

8003

एतैः पिष्टतमालवर्णकनिभैरालिप्तमम्भोधरैः संसक्तैरुपवीजितं सुरभिभिः शीतैः प्रदोषानिलैः ।
एषाम्भोदसमागमप्रणयिनी स्वच्छन्दमभ्यागता रक्ता कान्तमिवाम्बरं प्रियतमा विद्युत् समालिङ्गति ॥

8004

एतैरार्द्रतमालपत्रमलिनैरापीतसूर्यं नभो वल्मीकाः शरताडिता इव गजाः सीदन्ति धाराहताः ।
विद्युत् काञ्चनदीपिकेव रचिता प्रासादसंचारिणी ज्योत्स्ना दुर्बलभर्तृकेव वनिता प्रोत्सार्य मेघैर्हृता ॥

8005

एतैरेव यदा गजेन्द्रमलिनैराध्मातलम्बोदरैर् गर्जद्भिः सतडिद्बलाकशबलैर्मेघैः सशल्यं मनः ।
तत् किं प्रोषितभर्तृवध्यपटहो हा हा हृताशो बकः प्रावृट् प्रावृडिति ब्रवीति शठधीः क्षारं क्षते प्रक्षिपन् ॥

8006

एतैर्जह्नुसुताजलैरयमुनाभिन्नैरलग्नाञ्जनैर् नारीणां नयनैरकर्दमलवालिप्तैर्मृणालाङ्कुरैः ।
हारैरस्फुरदिन्द्रनीलतरलैः कुन्दैरलीनालिभिर् वेल्लद्भिर्भुवनं विभूषितमिदं शीतद्युतेरंशुभिः ॥

8007

एतैर्जातैः किमिह बहुभिर्भोगिभिः किं तु मन्ये मान्यः कोऽपि प्रभवति जगत्येकशेषः स शेषः ।
यस्मिन् गौरीपृथुकुचतटीकुङ्कुमस्थासकाङ्के येन स्थाणोरुरसि रहितो हारवल्लीविलासः ॥

8008

एतैर्दक्षिणगन्धवाहवलनैः श्रीखण्ड किं सौरभं ब्रूमस् ते परितो मधुव्रतयुवा येनायमानीयते ।
माकन्दादपहृत्य पङ्कजवनादुद्धूय कुन्दोदराद् उद्भ्राम्यद्द्विपगण्डमण्डलतलादाकृष्य हृष्यन्मनाः ॥

8009

एतैर्यदि सुस्निग्धैर् वल्मीकैः परिवृतास् ततस् तोयम् ।
हस्तैस् त्रिभिरुत्तरतश् चतुर्भिरर्धेन च नरस्य ॥

8010

एतैर्यद्यद् समादिष्टं शुभं वा यदि वाशुभम् ।
कर्तव्यं नियतं भीतैर् अप्रमत्तैर्बुभूषुभिः ॥

8011

एतौ द्वौ दशकण्ठकण्ठकदलीकान्तारकान्तिच्छिद उ वैदेहीकुचकुम्भकुङ्कुमरजःसान्द्रारुणाङ्काङ्कितौ ।
लोकत्राणविधानसाधुसवनप्रारम्भयूपौ भुजौ देयास्तामुरुविक्रमौ रघुपतेः श्रेयांसि भूयांसि वः ॥

8012

एनं विहाय तुलसीविपिनोपकण्ठं गोप्यः परत्र नयनाम्बुजमीलनानि ।
कुर्वन्तु किंतु तुलसीदलनीलभासं का वा मुकुन्दमनुविन्दतु लीनमस्मिन् ॥

8013

एनसानेन तिर्यक् स्याद् इत्यादिः का विभीषिका ।
राजिलोऽपि हि राजेव स्वैः सुखी सुखहेतुभिः ॥

8014

एनाममन्दमकरन्दविनिद्रबिन्दु- संदोहदोहदपदं नलिनीं विमुच्य ।
हे मुग्ध षट्पद निरर्थकरागभाजि जातं मनस् तव जपाकुसुमे किमत्र ॥

8015

एभिर्जितैर्जितं सर्वं सरुतेन महात्मना ।
स्मृत्वा विवर्जयेदेतान् षड्दोषांश्च महीपतिः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc