भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7976-7995

7976

एते पाटीरवाटीनवविटपनटीलास्यशिक् षातिदक्षा दोलाखेलत्पुरंध्रीश्रमजलकणिकाजालपातिप्रत् आनाः ।
सौरभ्यादापतद्भिर्मधुकरपटलैः पृष्ठतोऽनुप्रयाताः कामाग्नेः स्फारधाय्याः पथिककुलवधूबद्धवैराः समीराः ॥

7977

एते पुरः सुरभिकोमलहोमधूम- लेखानिपीतनवपल्लवशोणिमानः ।
पुण्याश्रमाः श्रुतिसमोहितसामगीति- साकूतनिश्चलकुरङ्गकुलाः स्फुरन्ति ॥

7978

एते प्रशस्ततरवो दन्तधावनकर्मणि ।
कण्टकिक्षीरवृक्षोत्थद्वादशाङ्गुलम् अव्रणम् ॥

7979

एते बहुविधाः शोका विलापरुदिते तथा ।
वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥

7980

एते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः संत्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः ।
लीलोन्मूलितनर्तितप्रतिहतव्यावर्तितप्रेरित- त्यक्तस्वीकृतनिह्नुतप्रचलितप्रोद्धूततीरद्रुमाः ॥

7981

एते लक्ष्मण जानकीविरहिणं मां खेदयन्त्यम्बुदा मर्माणीव च घट्टयन्त्यलममी क्रूराः कदम्बानिलाः ।
इत्थं व्याहृतपूर्वजन्मविरहो यो राधया वीक्षितः सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ॥

7982

एते वयं तनुधनाः कृपणेयमुर्वी दीनाः शतं मृदु च विस्तरयन्ति वाचः ।
तद् भ्रातरः शकुनिफेरवसारमेया ढौकध्वमेतदहह स्फुटतु क्षणेन ॥

7983

एते वयममी दाराः कन्येयं कुलजीवितम् ।
ब्रूत येनात्र वः कार्यम् अनास्था बाह्यवस्तुषु ॥

7984

एते वश्यकरोपाया दुर्जने निष्फलाः स्मृताः ।
तत्संनिधिं त्यजेत् प्राज्ञः शक्तस् तं दण्डतो जयेत् ।
छलभूतैस् तु तद्रूपैर् उपायैरेभिरेव वा ॥

7985

एते वामविलोचनाकुचसखैः सोढव्यशीतार्तयः प्राप्ताः पश्चिमसैन्धवस्य मरुतः प्रेमच्छिदो वासराः ।
यत्रापास्य पुराणपङ्कजमयं देवः सशृङ्गारभूर् आदत्ते नवकुन्दकुड्मलशिखानिर्माणमन्यद् धनुः ॥

7986

एते वारिकणान् किरन्ति पुरुषान् वर्षन्ति नाम्भोधराः शैलाः शाद्वलमुद्वमन्ति न वमन्त्येते पुनर्नायकान् ।
त्रैलोक्ये तरवः फलानि सुवते नैवारभन्ते जनान् धातः कातरमालपामि कुलटाहेतोस् त्वया किं कृतम् ॥

7987

एते वैयाकरणपशवः स्वीयमायुर्वृथैव प्राज्ञंमन्याः श्रवणकटुभिः शब्दजालैः क्षिपन्ति ।
शश्वत्कान्ताधरमधुरतावर्णनं कुर्वतां नस् त्वाशीर्वादैरिह सहृदयाः प्रत्यहं वर्धयन्ते ॥

7988

एते व्योमनि शोषयन्ति हरिणत्रासाच् चिरं चीवरे संध्याकर्मविधौ कमण्डलुमिमे पश्यन्ति रिक्तं भृतम् ।
भिक्षन्ते च फलान्यमी करपुटीपात्रेण चानोकहान् एषामर्घविधौ च संनिधिगताः पुष्प्यन्त्यकाण्डे लताः ॥

7989

एते शारदकौमुदीकुलभुवः क्षीरोदधेः सोदराः शेषाहेः सुहृदो विनिद्रकुमुदश्रेणीमहःस्राविणः ।
शीतांशोः सहपांशुखेलनसखाः स्वःसिन्धुसंबन्धिनः प्रालेयाचलबन्धवस् तव गुणाः कैर्नेह कर्णार्पिताः ॥

7990

एतेषां नवचक्राणाम् एकैकं ध्यायतो मुनेः ।
सिद्धयो मुक्तिसहिताः करस्थाः स्युर्दिने दिने ॥

7991

एतेषामनुकूलो दक्षिणधृष्टौ शठश्चेति ।
भेदचतुष्टयमेषां वदाम्युदाहरणमेकैकम् ॥

7992

एतेषु हा तरुणमारुतधूयमान- दावानलैः कवलितेषु महीरुहेषु ।
अम्भो न चेज् जलद मुञ्चसि मा विमुञ्च वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः ॥

7993

एते संततभृज्यमानचणकामोदप्रधाना मनः कर्ष्यन्त्यूषरसंनिवेशजरठच्छायाः स्थलीग्रामकाः ।
तारुण्यातिशयाग्रपामरवधूसोल्लासहस्तग्रह- भ्राम्यत्पीवरयन्त्रकघ्वनिरसद्गम्भीरगेहोदराः ॥

7994

एते संप्रति वैमनस्यमनिशं निःशङ्कमातन्वते कान्तारस्थलपद्मिनीपरिमलैरानन्दितेन्दिन्दिराः ।
उन्मीलत्सहकारकाननतटीवाचालपुंस्कोकिल- ध्वानाकर्णनकांदिशीकपथिकावस्कन्दिनो वासराः ॥

7995

एते समुल्लसद्भासो राजन्ते कुन्दकोरकाः ।
शीतभीता लताकुन्दम् आश्रिता इव तारकाः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc