महासुभाषितसंग्रह · श्लोक 7956-7975
एते चूतमहीरुहोऽप्यविरलैर्धूमायिताः षट्पदैर् एते प्रज्वलिताः स्फुटत्किसलयोद्भेदैरशोकद्रुमाः ।
एते किंशुकशाखिनोऽपि मलिनैरङ्गारिताः कुड्मलैः कष्टं विश्रमयामि कुत्र नयने सर्वत्र वामो विधिः ॥
एते जीर्णकुलायजालजटिलाः पांसूत्कराकर्षिणः शाखाकम्पविहस्तदुःस्थविहगानाकम्पयन्तस् तरून् ।
हेलान्दोलितनर्तितोज्झितहतव्याघट्टितोन्मूलित- प्रोत्क्षिप्तभ्रमितैः प्रपापटलकैः क्रीडन्ति झञ्झानिलाः ॥
एते ते गिरिकूटसंघटशिलासंघट्टशीर्णाम्भसः प्रेङ्खच्चामरचारुसीकरकणस्मेरा दरीनिर्झराः ।
यत्पातेषु निकुञ्जकुञ्जरमुखभ्रश्यन्मृणालाङ्कुर- ग्रासोद्ग्रन्थितटं रटन्ति परितः कण्ठीरवा भैरवम् ॥
एते ते दिवसा वियोगिगुरवः पूरोल्लसत्सिन्धवो विन्ध्यश्यामपयोदनीलनभसो नीपार्जुनामोदिनः ।
आसन्नप्रसवालसां सहचरीमालोक्य नीडार्थिनीं चञ्चुप्रान्तकिलिञ्जसंचयपरः काकोऽपि येष्वाकुलः ॥
एते ते दिवसास् त एव तरवस् ताश्च प्रगल्भस्त्रियस् तच् चैवाम्रवनं सकोकिलरुतं सेयं सचन्द्रा निशा ।
वातः सोऽपि च दक्षिणो धृतिहरः सोऽयं वसन्तानिलो हा तारुण्य विना त्वयाद्य सकलं पालालभारायते ॥
एते ते दुरतिक्रमक्रममिलद्धर्मोर्मिमर्मच्छिदः कादम्बेन रजोभरेण ककुभो रुन्धन्ति जञ्झानिलाः ।
गाढारम्भनिरुद्धनीरदघटासंघट्ट् अनीलीभवद्- व्योमक्रोडकटाहपातुकपयोवेणीकणग्राहिणः ॥
एते ते पुरतो मरुस्थलभुवः प्रोच्चण्डदावानल- ज्वालालीढकठोरसूरकिरणप्लुष्टच्छदाः शाखिनः ।
तानेतानवधीर्य खिन्नवपुषो दुःशीलझञ्झानिल- क्रीडाभिर्न पयोद गन्तुमुचितं वेलाभिषिक्तद्रुमान् ॥
एते ते मलयाद्रिकन्दरजुषस्तच्छाखिशाखावली- लीलाताण्डवसंप्रदानगुरवश्चेतोभुवो बान्धवाः ।
चूतोन्मत्तमधुव्रतप्रणयिनीहुङ्कारझङ्कारिणो हा कष्टं प्रसरन्ति पान्थयुवतीजीवद्रुहो वायवः ॥
एते त्वद्वदनानुकारिरुचयो राकासुधांश्वादयो नीत्वा ते स्मरणं दहन्ति बत मामन्तःस्फुरन्त्यास् तव ।
त्वं स्वामिन्यसि तज्जहीहि जहि वा नेदं पुनः सांप्रतं यत्स्वस्पर्धिभिरेव मर्दयसि मामेतैर्जघन्यैः प्रिये ॥
एते दरिद्रशिशवस् तनुजीर्णकन्थां स्कन्धे निधाय मलिनां पुलकाकुलाङ्गाः ।
सूर्यस्फुरत्करकरम्बितभित्तिदेश- लाभाय शीतसमये कलिमाचरन्ति ॥
एतेन बद्धबलिना संकोचमवाप्य वृद्धदेहेन ।
यातं हरिणेव मया द्वित्राणि पदानि कृच्छ्रेण ॥
एते नर्तितमौलयो गुणगणप्रस्तावनाभिर्मणेर् जायन्तां वणिजो वयं तु कनक त्वत्कीर्तिवैतालिकाः ।
ते चाम्लानमुखेन हन्त भवता दाहच्छिदा वेदनाम् अङ्गीकृत्य नरेन्द्रशेखरसुखासीनाः क्रियन्ते यतः ॥
एते नीवारवप्राः पृथुकुसुमसमित्पार्वतः कन्दरोऽयं देवीयं जह्नुपुत्री सिकतिलशयितः शान्तनिःशङ्करङ्कः ।
कान्तारे दर्भदूर्वाचयशुचिनि वचः स्मार्तमावर्तयन्ति ब्रह्माणो दुर्विपाकग्रहगहनतया यामिनीजागरूकाः ॥
एते नूतनचूतकोरकघनग्रासातिरेकीभवत्- कण्ठध्वानजुषो हरन्ति हृदयं मध्येवनं कोकिलाः ।
येषामक्षिनिभेन भान्ति भगवद्भूतेशनेत्रानल- ज्वालाजालकरालितासमशराङ्गारस्फुलिङ् गा इमे ॥
एतेनोत्कृत्तकण्ठप्रतिसुभटनटारब्धनाट्याद्भुतानां कष्टं द्रष्टैव नाभूद् भुवि समरसमालोकिलोकास्पदेऽपि ।
अश्वैरस्वैरवेगैः कृतखुरखुरलीमङ्क्षुविक्षुद्यमान- क्ष्मापृष्ठोत्तिष्ठदन्धंकरणरण धुरारेणुधारान्धकारात् ॥
एते पञ्चदशानर्था ह्यर्थमूला मता नृणाम् ।
तस्मादनर्थमर्थाख्यं श्रेयोऽर्थी दूरतस् त्यजेत् ॥
भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस् तथा ।
एकास्निग्धाः काकिणिना सद्यः सर्वेऽरयः कृताः ॥
अर्थेनाल्पीयसा ह्येते संरब्धा दीप्तमन्यवः ।
त्यजन्त्याशुस्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम् ॥
एते पल्लिपुरन्ध्रिनिर्भरजलक्रीडाहृताम्भःकण- क्षोदक्षालितलग्नपान्थवनितानिःश्वासतीव्र् आतपाः ।
वान्ति स्वैरविहारकुञ्जरकरच्छिद्रोदराघूर्णन- प्रारब्धोच्चमृदङ्गनादमुखरास् तापीनिकुञ्जानिलाः ॥
एते पल्लीपरिवृढवधूप्रौढकन्दर्पकेलि- क्लिश्यत्पीनस्तनपरिसरस्वेदसंपद्विपक्षाः ।
वान्ति स्वैरं सरसि सरसि क्रोडदंष्ट्राविमर्द- त्रुट्यद्गुन्द्रापरिमलगुणग्राहिणो गन्धवाहाः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0