महासुभाषितसंग्रह · श्लोक 7935-7955
एतावानेव पुरुषो यदमर्षी यदक्षमी ।
क्षमवान् निरमर्षश्च नैव स्त्री न पुनः पुनः ॥
एताश् चतुष्टयकला द्वात्रिंशत् क्रमधृताः समस्ता वा ।
संसारवञ्चकानां विद्या विद्यावतामेव ॥
एताश् चन्द्रोदयेऽस्मिन्नविरलमुशलोत्क्षेपदोलायमान- स्निग्धश्यामाग्रपीनस्तनकलसनमत्कण्ठनालाग्ररम्याः ।
उद्वेल्लद्बाहुवल्लीप्रचलितवलयश्रेणयः पामराणां गेहिन्यो दीर्घगीतिध्वनिजनितसुखास् तण्डुलान् कण्डयन्ति ॥
एताश् चलद्वलयसंहतिमेखलोत्थ- झंकारनूपुररवाहृतराजहंस्यः ।
कुर्वन्ति कस्य न मनो विवशं तरुण्यो वित्रस्तमुग्धहरिणीसदृशाक्षिपातैः ॥
एतासु केतकिलतासु विकासिनीषु सौभाग्यमद्भुततरं भवती बिभर्ति ।
यत्कण्टकैर्व्यथितमात्मवपुर्न जानंस् त्वामेव सेवितुमुपक्रमते द्विरेफः ॥
एतास् ता दिवसान्तभास्करदृशो धावन्ति पौराङ्गनाः स्कन्धप्रस्खलदंशुकाञ्चलधृतिव्यासङ्गबद्धादराः ।
प्रातर्यातकृषीवलागमभिया प्रोत्प्लुत्य वर्त्मच्छिदो हट्टक्रीतपदार्थमूल्यकलनव्यग्राङ्गुलिग्रन्थयः ॥
एतास् ता मलयोपकण्ठसरितामेणाक्षि रोधोभुवश् चापाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः ।
यासु श्यामनिशासु पीततमसो मुक्तामयीश् चन्द्रिकाः पीयन्ते विवृतोर्ध्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः ॥
एतास्तु निर्घृणत्वेन निर्दयत्वेन नित्यशः ।
विशेषाज् जाड्यकृत्येन दूषयन्ति कुलत्रयम् ॥
एता हसन्ति च रुदन्ति च कार्यहेतोर् विश्वासयन्ति च परं न च विश्वसन्ति ।
तस्मान् नरेण कुलशीलसमन्वितेन नार्यः श्मशानघटिका इव वर्जनीयाः ॥
एते कर्बुरितातपास् तत इतः संजायमानाम्बुद- च्छेदैः संप्रति केतकीदलमिलद्दर्भातिथेयोदयाः ।
ग्रामान्तोद्गतशालिबीजयवसाश्लेषप्रहृष्यन्मनो- गोवाहायतगीतिगर्भितदिशो रम्याः सखे वासराः ॥
एते किं ननु सत्यमेव तरवश् चञ्चत्प्रसूनोत्कराः किं वा काननवाटिकेयमनघायस्याममी कोकिलाः ।
चित्रं कुत्र तिरोहिता मरुधरा सा यत्र मे पत्तनं नानानिर्झरवैभवं कुत इदं सद्यः समुन्मीलितम् ॥
एते कूर्चकचाः सकङ्कणरणत्कर्णाटसीमन्तिनी- हस्ताकर्षणलालिताः प्रतिदिनं प्राप्ताः परामुन्नतिम् ।
तेऽमी संप्रति पापिनापितकरभ्राम्यत्क्षुरप्रानन- क्षुण्णाः क्षोणितले पतन्ति परितः कॢप्तापराधा इव ॥
एते केतकधूलिधूसररुचः शीतद्युतेरंशवः प्राप्ताः संप्रति पश्चिमस्य जलधेस्तीरं जराजर्जराः ।
अप्येते विकसत्सरोरुहवनीदृक्पातसंभाविताः प्राचीरागमुदीरयन्ति तरणेस् तारुण्यभाजः कराः ॥
एते केतकसूचिसौरभजुषः पौरप्रगल्भाङ्गना- व्यालोलालकवल्लरीविलुलनव्याजोपभुक्ताननाः ।
किंचोन्निद्रकदम्बकुड्मलकुटीधूलीलुठत्षट्पद- व्यूहव्याहृतिहारिणो विरहिणः कर्षन्ति वर्षानिलाः ॥
एतेऽक्ष्णोर्जनयन्ति कामविरुजं सीतावियोगे घना वाताः शीकरिणोऽपि लक्ष्मण दृढं संतापयन्त्येव माम् ।
इत्थं वृद्धपरंपरापरिणतैर्यस्मिन् वचोभिर्मुनीन् अद्याप्युन्मनयन्ति काननशुकाः सोऽयं गिरिर्माल्यवान् ॥
एते चन्द्रशिलासमुच्चयमयाश् चन्द्रातपप्रस्फुरत्- सर्वाङ्गीणपयःप्रवृत्तसरितो झात्कुर्वते पर्वताः ।
येषामुन्मदजागरूकशिखिनि प्रस्थे नमेरुस्थिताः श्यामा मेघगभीरगद्गदगिरः क्रन्दन्ति कोयष्टयः ॥
एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् ।
इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥
एते चान्ये च बहवः प्रयोगाः पारदारिकाः ।
देशे देशे प्रवर्तन्ते राजभिः संप्रवर्तिताः ॥
न त्वेवैतान् प्रयुञ्जीत राजा लोकहिते रतः ।
निगृहीतारिषड्वर्गस् तथा विजयते महीम् ॥
एते चान्ये च बहवो दोषाः प्रादुर्भवन्त्युत ।
नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर ॥
एते चापीन्द्रतुल्याः क्षितिपतितनया भीमसेनार्जुनाद्याः शूराः सत्यप्रतिज्ञा दिनकररुचयः केशवेनोपगूढाः ।
ते दृष्टा पात्रहस्ता जगति कृपणवद् भैक्षचर्यानुयाताः कः शक्तो भालपट्टे विधिकरलिखितां कर्मरेखां प्रमार्ष्टुम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0