भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7915-7934

7915

एतानि सर्वदा तस्य न जायन्ते ततः परम् ।
स्त्रीसङ्गं वर्जयेद् यत्नाद् बिन्दुं रक्षेत् प्रयत्नतः ।
आयुःक्षयो बिन्दुनाशाद् असामर्थ्यं च जायते ॥

7916

एतान् गुणांस् तात महानुभावान् एको गुणः संश्रयते प्रसह्य ।
राजा यदा सत्कुरुते मनुष्यं सर्वान् गुणानेष गुणोऽतिभाति ॥

7917

एतान्यनिगृहीतानि व्यापादयितुमप्यलम् ।
अविधेया इवादान्ता हयाः पथि कुसारथिम् ॥

7918

एतान्यवन्तीश्वरपारिजात- जातानि तारापतिपाण्डुराणि ।
संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ॥

7919

एतान्यहानि किल चातकशावकेन नीतानि कण्ठकुहरस्थितजीवितेन ।
तस्यार्थिनो जलद पूरय वाञ्छितानि मा भूत् त्वदेकशरणस्य बत प्रमादः ॥

7920

एतान्येव तु बन्धाय सप्त सूक्ष्माणि सर्वदा ।
भूरादीनां विरागोऽत्र संभवेद् यस्तु मुक्तये ॥

7921

एता याः प्रेक्षसे लक्ष्मीश् छत्त्रचामरचञ्चलाः ।
स्वप्न एष महाबुद्धे दिनानि त्रीणि पञ्च च ॥

7922

एता रावणजीमूताद् बाणधारा विनिःसृताः ।
विभान्ति राममासाद्य वारिधारा वषं यथा ॥

7923

एतावच्छक्यमस्माभिर् वक्तुं त्वं गुणवानिति ।
रत्नाकरस्य रत्नौघपरिच्छेदे तु के वयम् ॥

7924

एतावज् जन्मसाफल्यं देहिनामिह देहिषु ।
प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत् सदा ॥

7925

एतावज् जन्मसाफल्यं यदनायत्तवृत्तिता ।
ये पराधीनतां यातास् ते वै जीवन्ति के मृताः ॥

7926

एतावता नन्वनुमेयशोभि काञ्चीगुणस्थानमनिन्दितायाः ।
आरोपितं यद् गिरिशेन पश्चाद् अनन्यनारीकमनीयमङ्कम् ॥

7927

एतावतैव कार्येण मन्यध्वं नो कृतार्थताम् ।
कर्तव्यानां परा काष्ठा नेदानीं विद्यते खलु ॥

7928

एतावत् सरसि सरोरुहस्य कृत्यं भित्त्वाम्भः सपदि बहिर्विनिर्गतं यत् ।
सौरभ्यं विकसनमिन्दिरानिवासस् तत् सर्वं दिनकरकृत्यमामनन्ति ॥

7929

एतावदेव पर्याप्तं भिक्षोरेकान्तशायिनः ।
न तस्य म्रियते कश्चिन् म्रियते सोऽस्य कस्यचित् ॥

7930

एतावदेव हि फलं पर्याप्तं ज्ञानसत्त्वयुक्तस्य ।
यद्यापत्सु न मुह्यति नाभ्युदये विस्मितो भवति ॥

7931

एतावन्तं समयमनयः केसरोत्सङ्गरङ्गी हृद्भृङ्गीनां सततमहरस् त्वं सरःसंचरेषु ।
दैवादस्मिन् मधुप निपतन् कानने केतकीनाम् एतां दीनामनुभव दशां कीलितः कण्टकेषु ॥

7932

एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः ।
यो भूतशोकहर्षाभ्याम् आत्मा शोचति हृष्यति ॥

7933

एतावानेव पुरुषः कृतं यस्मिन् न नश्यति ।
यावच्च कुर्यादन्योऽस्य कुर्याद् बहुगुणं ततः ॥

7934

एतावानेव पुरुषो यज्जायात्मा प्रजेति ह ।
विप्राः प्राहुस् तथा चैतद् यो भर्ता सा स्मृताङ्गना ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc