भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7895-7914

7895

एताः कानपि मण्डयन्ति पुरुषान् नानाविधैर्भूषणैर् एताः कानपि वञ्चयन्ति च जनान् मिथ्यावचोभिः पुनः ।
एता वै रमयन्ति कानपि वरान् भावैर्मनोजोत्कटैः स्वान्त भ्रान्त करोषि किं बत मुधा नारीषु हार्दं हि तत् ॥

7896

एताः पङ्किलकूलरूढनलदस्तम्बक्वणत्कम्बवः क्रीडत्कर्कटचक्रवालविदलज्जम्बालतोयाविलाः ।
हृल्लेखं जनयन्त्यनूपसरितामुत्तुण्डगण्डूपदो- त्कीर्णक्लिन्नमृदो नदस्थपुटितप्रान्तास् तटीभूमयः ॥

7897

एताः प्रफुल्लकमलोत्पलवक्त्रनेत्रा गोपाङ्गनाः कनकचम्पकपुष्पगौराः ।
नानाविरागवसना मधुरप्रलापाः क्रीडन्ति वन्यकुसुमाकुलकेशहस्ताः ॥

7898

एताः शार्दूलहेलादलितमृगकुलव्यक्तरक्ताभिषिक्त- क्ष्मापीठास्वादलुब्धस्फुटतरकलहस्फारफ् एरण्डचण्डाः ।
वेल्लन्निर्मोकवल्लीवलयनिगडितानोकहक्रोडनीड- क्रीडन्निःशूकघूकव्यतिकरमुखरा भूमयो भीषयन्ति ॥

7899

एताः संप्रति गर्भगौरवभराद् राज्ञोऽवरोधाङ्गनाः कान्तारेषु पलायितुं बत कथं पद्भ्यां भवेयुः क्षमाः ।
इत्थं चेतसि संविभाव्य सदयं वैकुण्ठकण्ठीरव त्वन्नादावलिभिः सखीभिरिव किं तद्गर्भपातः कृतः ॥

7900

एताः सत्यविहीना धनलवलीनाः सुखक्षणाधीनाः ।
वेश्या विशन्ति हृदयं मुखमधुरा निर्विचाराणाम् ॥

7901

एताः सुतनु मुखं ते सख्यः पश्यन्ति हेमकूटगताः ।
प्रत्यागतप्रसादं चन्द्रमिवोपप्लवान् मुक्तम् ॥

7902

एताःस्थानपरिग्रहेण शिवयोरत्यन्तकान्तश्रियः प्रालेयाचलमेखलावनभुवः पुष्णन्ति नेत्रोत्सवम् ।
व्यावल्गद्बलवैरिवारणवरप्रत्यग्रदन्ताहति- श्वभ्रप्रस्रवदभ्रसिन्धुसवनप्रस्निग्धदेवद्रुमाः ॥

7903

एताः स्वार्थपरा नार्यः केवलं स्वसुखे रताः ।
न तासां वल्लभो यस्मात् स्वसुतोऽपि सुखं विना ॥

7904

एता गुरुश्रोणिपयोधरत्वाद् आत्मानमुद्वोढुमशक्नुवत्यः ।
गाढाङ्गदैर्बाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात् प्लवन्ते ॥

7905

एतादृशे कलियुगेऽपि शतेषु कश्चिज् जातादरो जगति यः श्रुतिमार्ग एव ।
यत् किंचिदाचरतु पात्रमसौ स्तुतीनां श्लाघ्यं मितापमपि किं न मरौ सरश्चेत् ॥

7906

एतानि क्रतुपृष्ठवेदिविलुठद्विप्राणि वातप्रमी- च्छन्नोपान्ततरूणि पश्य दधते पुण्याश्रमाणि श्रियम् ।
यान्युत्क्षिप्य मनः पराञ्चति परं नारायणाराधन- श्रद्धामोदितमेकदैव धनिकद्वारे च दारेषु च ॥

7907

एतानि तानि नवयौवनगर्हितानि मिष्टान्नपानशयनासनलालितानि ।
हारार्धहारमणिमण्डितभूषणानि भूमौ पतन्ति विलुठन्ति कलेवराणि ॥

7908

एतानि तानि हरनेत्रशिखिप्रबन्ध- दग्धस्मरव्रणविनाशरसायनानि ।
केषां न विस्मयकराणि नितम्बिनीनां विश्वप्रियाणि नयनार्धविलोकितानि ॥

7909

एतानि तान्यापतितानि काले भाग्यक्षयान् निष्फलमुद्यमानि ।
तुरङ्गमस्येव रणे निवृत्ते नीराजनाकौतुकमङ्गलानि ॥

7910

एतानि निःसहतनोरसमञ्जसानि शून्यं मनः पिशुनयन्ति गतागतानि ।
एते च तीरतरवः प्रथयन्ति तापम् आलम्बितोज्झितपरिग्लपितैः प्रवालैः ॥

7911

एतानि बालधवल प्रविहाय कामं गोष्ठाङ्गणे तरलतर्णकचेष्टितानि ।
स्कन्धं निधेहि धुरि पूर्वधुरीणमुक्तो नेतव्यतामुपगतोऽस्ति तवैष भारः ॥

7912

एतानि मम पद्यानि पठित्वा यः सभां गतः ।
स सदा पूज्यते राज्ञा सद्धर्मो नृगणैरिव ॥

7913

एतानि विंशतिपदान्य् आचरिष्यति यो नरः ।
स जेष्यति रिपून् सर्वान् कल्याणश्च भविष्यति ॥

7914

एता निषिक्तरजतद्रवसंनिकाशा धारा जवेन पतिता जलदोदरेभ्यः ।
विद्युत् प्रदीपशिखया क्षणनष्टदृष्टाश् छिन्ना इवाम्बरपटस्य दशाः पतन्ति ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc