भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7875-7894

7875

एतस्मिन् सहसा वसन्तसमये प्राणेश देशान्तरं गन्तुं त्वं यतसे तथापि न भयं तापात् प्रपद्येऽधुना ।
यस्मात् कैरवसारसौरभमुषा साकं सरोवायुना चान्द्री दिक्षु विजृम्भते रजनिषु स्वच्छा मयूखच्छटा ॥

7876

एतस्मिन् सुतनु लतागृहेऽतिरम्यं मालत्याः कुसुममनाचितं परेण ।
इत्युक्त्वा मृदुकरपल्लवं गृहीत्वा मुग्धाक्षीं रहसि निनाय कोऽपि धूर्तः ॥

7877

एतस्य कलामेकाम् अमृतमयूखस्य पार्वतीरमणः ।
वर्णावलिमिव वहति प्रतिमासं घट्यमानस्य ॥

7878

एतस्य जाङ्गुलिक नार्पय मन्त्रदर्पाद् आस्ये निजाङ्गुलिमयं खलु कोऽपि सर्पः ।
अत्रैव यस्य विषमेण विषेण दग्धास् ते त्वादृशा निरसवः पतिताः सहस्रम् ॥

7879

एतस्य रहसि वक्षसि सरसिजपत्त्रेण ताडितस्यापि ।
दयितस्य वीक्ष्य हसितं प्रियसखि हसितं ममाप्यासीत् ॥

7880

एतस्य वेश्मनि कलावति हालिकस्य दुर्द्दैववैभववशात् पतितासि तन्वि ।
तद्वारिकुम्भवहनाय करीषकृत्यै चातुर्यमर्जय वशीकरणाय भर्तुः ॥

7881

एतस्य सावनिभुजः कुलराजधानी काशी भवोत्तरणधर्मतरिः स्मरारेः ।
यामागता दुरितपूरितचेतसोऽपि पापं निरस्य चिरजं विरजीभवन्ति ॥

7882

एतस्यां रतिवल्लभक्षितिपतेः क्रीडासरस्यां शनैः संशोषं नयतीह शैशववधूस् तारुण्यतिग्मद्युतिः ।
अन्तःस्थापि यथा यथा कुचतटी धत्तेऽन्तरायद्वयं लौल्यं हन्ति तथा तथाविधजले दृक्पीनमीनावलिः ॥

7883

एतस्याः करिकुम्भसंनिभकुचप्राग्भारपृष्ठे लुठद्- गुञ्जागर्भगजेन्द्रमौक्तिकसरश्रेणीमनोहारिणि ।
दूरादेत्य तरङ्ग एष पतितो वेगाद् विलीनः कथं को वान्योऽपि विलीयते न सरसः सीमन्तिनीसंगमे ॥

7884

एतस्याः स्तनपद्मकोरकयुगं यस्याननेन्दोः सित- ज्योत्स्नाभिर्न भजत्यदो मृगदृशः शङ्के विकासं पुनः ।
तस्मिंल् लोचनपङ्कजं विकसितं भ्रूभृङ्गसंसेवितं स्वान्ते संशयमातनोति सुतरामेतन् ममैवासकृत् ॥

7885

एतस्याः स्तनभारभङ्गुरमुरः कीर्णा नितम्बस्थली मध्यं मज्जति नाभिगर्तपतितं नाभ्यञ्चलं चुम्बति ।
धैर्यं धेहि मनःकुरङ्ग पुरतो रोमावली वागुरा एतद् भ्रान्तिगतागतव्यसनिनः किं वा विधेयं विधे ॥

7886

एतस्या विरहज्वरः करतलस्पर्शैः परीक्ष्यो न यः स्निग्धेनापि जनेन दाहभयतः प्रस्थंपचः पाथसाम् ।
निःशक्तीकृतचन्दनौषधिविधावस्मिंश् चमत्कारिणो लाजस्फोटममी स्फुटन्ति मणयो विश्वेऽपि हारस्रजाम् ॥

7887

एतस्योन्नतसर्वकर्मकृतिनस् त्रैलोक्यचूडामणेः शंभुब्रह्मपुरंदरप्रभृतयः स्तुत्यै न शक्ता यदि ।
देवः पन्नगनायको भगवती वाणी स्वयं चेज् जडा सैन्दर्यस्य निरूपणे वद कथं शक्तो भवेन् मानवः ॥

7888

एतां नवाम्बुधरकान्तिमुदीक्ष्य वेणीम् एणीदृशो यदि वदन्ति वदन्तु नाम ।
ब्रूमो वयं मुखसुधांशुसुधाभिलाषाद् अभ्यागतां भुजगिनीं मणिमुद्वहन्तीम् ॥

7889

एतां पश्य पुरःस्थलीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः ।
इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापतेर् मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डनम् ॥

7890

एतां विलोकय तनूदरि ताम्रपर्णीम् अम्भोनिधौ विवृतशुक्तिपुटोद्धृतानि ।
यस्याः पयांसि परिणाहिषु हारमूर्त्या वामभ्रुवां परिणमन्ति पयोधरेषु ॥

7891

एतांश् छिनद्मि यदि तन्मम जीवितेन शण्ढस्य किं नु यदि सन्त्वथ गोपतेः किम् ।
आसे प्रसार्य यदि तज्जनता हसन्ति भारैर्गुणैश्च वृषणैश्च हला श्रमो मे ॥

7892

एतांस् ते भ्रमरौघनीलकुटिलान् बध्नामि किं कुन्तलान् किं न्यस्यामि मधूकपाण्डुमधुरे गण्डेऽत्र पत्रावलीम् ।
किं चास्मिन् व्यपनीय बन्धनमिदं पङ्केरुहाणां दलत्- कोषश्रीमुषि सर्वचित्तहरिणस्यारोपयामि स्तने ॥

7893

एताः करोत्पीडितवारिधारा दर्पात् सखीभिर्वदनेषु सिक्ताः ।
वक्रेतराग्रैरलकैस् तरुण्यश् चूर्णारुणान् वारिलवान् वमन्ति ॥

7894

उद्बन्धकेशश्च्युतपत्त्रलेखो विश्लेषिमुक्ताफलपत्त्रवेष्टः ।
मनोज्ञ एव प्रमदामुखानाम् अम्भोविहाराकुलितोऽपि वेषः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc