महासुभाषितसंग्रह · श्लोक 7855-7874
एतस्मात् सरसश्चिराय चलितं चक्रेण चेतस्वता नीरक्षीरपरीक्षकेण सुधिया हंसेन हा निर्गतम् ।
निर्यातं निभृतं कलध्वनिकृता कारण्डवेन क्वचित् सार्धं केन करोतु सारसयुवा संभाषणं सव्यथः ॥
एतस्मादमृतं सुरैः शतमखेनोच्चैःश्रवाः सद्गुणः कृष्णेनाद्भुतविक्रमैकवसतिर्लक्ष्मीः समासादिता ।
इत्यादि प्रचुराः पुरातनकथाः सर्वेभ्य एव श्रुता अस्माभिस्तु न दृष्टमत्र जलधौ मिष्टं पयोऽपि क्वचित् ॥
एतस्माद् विरमेन्द्रियार्थगहनादायासकादाश्रयाच् श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात् ।
शान्तं भावमुपैहि संत्यज निजां कल्लोललोलां गतिं मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥
एतस्मान् मां कुशलिनमभिज्ञानदानाद् विदित्वा मा कौलीनादसितनयने मय्यविश्वासिनी भूः ।
स्नेहानाहुः किमपि विरहे ह्रासिनस् ते ह्यभोगाद् इष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥
एतस्मिन् कुसुमे स्वभावमहति प्रायो महीयः फलं रम्यं स्वादु सुगन्धि शीतलमलं प्राप्तव्यमित्याशया ।
शाल्मल्याः परिपाककालकलनाबोधेन कीरः स्थितो यावत् तत्पुटसंधिनिर्गतपतत्तूलं फलात् पश्यति ॥
एतस्मिन् घनचन्दनार्द्रवपुषो निद्राकषायेक्षणा लीलालोलमृदूल्लसद्भुजलताव्याजृम्भमाण् आ मुहुः ।
निर्गच्छन्ति शनैरहःपरिणतौ मन्दा लतामन्दिरात् स्वेदाम्भःकणदन्तुरस्तनतटाभोगाः कुरङ्गीदृशः ॥
एतस्मिन् घनबद्धसम्पदि वनोत्सङ्गे नवाप्तोष्मभिः स्वच्छन्दं गमितः सुखेन कतिभिः कालो न दन्तावलैः ।
धिग् जातोऽसि तदात्र दग्धसमये दन्तिन्यदा नोदकं नो वृक्षा न तृणानि केवलमयं दावानलः क्रीडति ॥
एतस्मिन् दाक्षिणाशानिलचलितलतालीनमत्तालिमाल् आ- पक्षक्षोभावधूतच्युतबहलरजोह्लादिहृद्ये वसन्ते ।
प्रेमस्वेदार्द्रबाहुश्लथवलयरणत्प्रौढसीमन्तिनीनां मन्दः कण्ठग्रहोऽपि ग्लपयति हृदयं किं पुनर्विप्रयोगः ॥
एतस्मिन् दिवसस्य मध्यसमये वातोऽपि चण्डातप- त्रासेनेव न संचरत्यहिमगोर्बिम्बे ललाटंतपे ।
किं चान्यत्परितप्तधूलिलुठनप्लोषासहत्वादिव च्छाया दूरगतापि भूरुहतले व्यावर्त्य संलीयते ॥
एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः ।
वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः ॥
एतस्मिन्नवदातकान्तिनि कुचद्वन्द्वे कुरङ्गीदृशः संक्रान्तप्रतिबिम्बमैन्दवमिदं द्वेधा विभक्तं वपुः ।
आनन्दोत्तरलस्य पुष्पधनुषस् तत्कालनृत्योत्सव- प्राप्तिप्रोद्यतकांस्यतालयुगलप्रायं समालोक्यते ॥
एतस्मिन् मदकलमल्लिकाक्षपक्ष- व्याधूतस्फुरदुरुदण्डपुण्डरीकाः ।
बाष्पाम्भःपरिपतनोद्गमान्तराले दृश्यन्तामविरहितश्रियो विभागाः ॥
एतस्मिन् मदजर्जरैरुपचिते कम्बूरवाडम्बरैः स्तैमित्यं मनसो दिशत्यनिभृतं धारारवे मूर्च्छति ।
उत्सङ्गे ककुभो निधाय रसितैरम्भोमुचां घोरयन् मन्ये मुद्रितचन्द्रसूर्यनयनं व्योमापि निद्रायते ॥
एतस्मिन् मरुमण्डले परिचलत्कल्लोलकोलाहल- क्रीडत्कङ्कमपङ्कमङ्कविलसन्निःशङ्कमत्स्य् अव्रजम् ।
केनेदं विकसत्कुशेशयकुटीकोणक्वणत्षट्पदं श्रेणिप्रीणितपान्थमुज्ज्वलजलं चक्रे विशालं सरः ॥
एतस्मिन् मृगयां गतेऽपि धनुषा बाणे समारोपितेऽप्य् आकर्णान्तगतेऽपि मुष्टिविगतेऽप्येनाङ्गलग्नेऽपि च ।
न त्रस्तं न पलायितं न चलितं नोत्कण्ठितं नोत्प्लुतं मृग्या यद् वशिनं करोति दयितं कामोऽयमित्याशया ॥
एतस्मिन् वनमार्गभूपरिसरे सौन्दर्यमुद्राङ्कितः प्रोद्यद्भिः फलपत्रपुष्पनिवहैश् चूतः स एकः परम् ।
यं वीक्ष्य स्मितवक्त्रमुद्गतमहासंतोषमुल्लासित- स्फारोत्कण्ठमकुण्ठितक्रमममी धावन्ति पान्थव्रजाः ॥
एतस्मिन् विजने वनेऽतनुतरुच्छन्नावकाशे सुखं तिष्ठामीति तव द्विषामधिपतिर्यावद् विधत्ते मतिम् ।
तावत् तत्र निपातितं भुवि भवन्नामाङ्कसेल्लाहतं दृष्ट्वा केसरिणः करङ्कमसमत्रासो मुहुर्मुर्च्छति ॥
एतस्मिन् विपिने मया बलवता नाज्ञापिताः के मृगाः कस्मै वा न फलं विकीर्णमुचितं रोषस्य तोषस्य च ।
सोऽहं मूषकमद्य बन्धनगुणच्छेदार्थमभ्यर्थये नास्थां सोऽपि करोति दग्धहृदयं द्वेधा न किं भिद्यते ॥
एतस्मिन् विपुले प्लवंगमकुले जातो गुणैरग्रणीर् एकः क्वापि कपिः स कोऽपि मरुतां वन्द्यो मरुन्नन्दनः ।
केलिप्राङ्गणवापिकावदभवद् यस्याम्भसां भर्तरि द्राक्कल्लोलविकारकल्पितजगत्कम्पेऽपि झम्पारसः ॥
एतस्मिन् सरसि प्रसन्नपयसि प्राणत्रुटत्तालुना किंकोलाहलडम्बरेण खलु रे मण्डूक मूकीभव ।
उन्मीलन्नयनावलीदलचलल्लक्ष्मीरणन्नूपुर- व्याहारप्रतिवादिनः प्रतिदिनं प्रेषन्ति हंसस्वनाः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0