महासुभाषितसंग्रह · श्लोक 7694-7713
एकैकशोऽपि निघ्नन्ति विषया विषसंनिभाः ।
क्षेमी तु स कथं नु स्याद् यः समं पञ्च सेवते ॥
एकैकशो युवजनं विलङ्घमानाक्षनिकरमिव तरला ।
विश्राम्यति सुभग त्वाम् अङ्गुलिरासाद्य मेरुमिव ॥
एकैकशो विनिघ्नन्ति विषया विषसंनिभाः ।
किं पुनः पञ्च मिलिताः न कथं नाशयन्ति हि ॥
एकैकस्य यदादाय पुष्पस्य मधु संचितम् ।
किंचिन् मधुकरीवर्गैस् तदप्यश्नन्ति निर्घृणाः ॥
एकैकस्य शरस्यैव चतुष्पक्षाणि योजयेत् ।
षडङ्गुलप्रमाणेन पक्षच्छेदं च कारयेत् ॥
एकैकस्योपकारस्य प्राणान् दास्यामि ते कपे ।
प्रत्यहं क्रियमाणस्य शेषस्य ऋणिनो वयम् ॥
एकैकातिशयालवः परगुणज्ञानैकवैज्ञानिकाः सन्त्येते धनिकाः कलासु सकलास्वाचार्यचर्याचणाः ।
अप्येते सुमनोगिरां निशमनाद् बिभ्यत्यहो श्लाघया धूते मूर्धनि कुण्डले कषणतः क्षीणे भवेतामिति ॥
एकैकोऽसंख्यजीवानां घाततो मधुनः कणः ।
निष्पद्यते यतस्तेन मध्वश्नाति कथं बुधः ॥
एकैव कविता पुंसां ग्रामायाश्वाय हस्तिने ।
अन्ततोऽन्नाय वस्त्राय ताम्बूलाय च कल्पते ॥
एकैव काचिन् महतामवस्था सूक्ष्माणि वस्त्राण्यथवा च कन्था ।
कराग्रलग्नाभिनवा च बाला गङ्गातरङ्गेष्वथवाक्षमाला ॥
एकैव दण्डनीतिस् तु विद्येत्यौशनसाः स्थिताः ।
तस्यां हि सर्वविद्यानाम् आरम्भाः संप्रतिष्ठिताः ॥
एकैव संगमे बाला वियोगे तन्मयं जगत् ।
कृतोपकार एवायं वियोगः केन निन्द्यते ॥
एकैव सामृतमयी सुतरामनर्घ्या काप्यस्त्यसौ हिमकरस्य कला ययैव ।
आरोपितो गुणविदा परमेश्वरेण चूडामणौ न गणितोऽस्य कलङ्कदोषः ॥
एकैव सार्थका चिन्ता धर्मस्यार्थे विचिन्त्यते ।
द्वितीया सार्थका चिन्ता योगिनां धर्मनन्दिनी ॥
एकैश्वर्ये स्थितोऽपि प्रणतबहुफले यः स्वयं कृत्तिवासाः कान्तासंमिश्रदेहोऽप्यविषयमनसां यः परस्ताद् यतीनाम् ।
अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः सन्मार्गालोकनाय व्यपनयतु स वस् तामसीं वृत्तिमीशः ॥
एको गिरिशः स्वामी गणता तुल्यैव वल्लभत्वं च ।
किं कुर्मः कर्मगतौ शुष्यति भृङ्गी विनायकः पीनः ॥
एको गोत्रे पुमान् प्रोक्तः प्राक्तनैः स्वकुटुम्बभृत् ।
एकोऽप्यनेकः पुरुषः परेषां भरणक्षमः ॥
एको जयति सद्वृत्तः किं पुनर्द्वौ सुसंहतौ ।
किं चित्रं यदि तन्वङ्ग्याः स्तनाभ्यां निर्जितं जगत् ॥
एको जीवो बहवो देहा एकं तत्त्वं बहवो मोहाः ।
एका विद्या बहुपाषण्डा विबुधैः क्रियते किमिति वितण्डा ॥
एकोदरसमुद्भूता एकनक्षत्रजातकाः ।
न भवन्ति समाः शीले यथा बदरकण्टकाः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0