भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7674-7693

7674

एकेनापि गुणेनर्द्धो लभते स्पृहणीयताम् ।
काकल्यैव पिको लोकैर् मोद्यते मलिनोऽप्यसौ ॥

7675

एकेनापि गुणेनाहो स्पृहणीयो नरो भवेत् ।
कलाभृत्त्येन रुचिरश् चन्द्रो दोषाकरोऽपि सन् ॥

7676

एकेनापि पयोधिना जलमुचस्ते पूरिताः कोटिशो जातो नास्य कुशाग्रलीनतुहिनश्लक्ष्णोऽपि तोयव्ययः ।
आहो शुष्यति दैवदृष्टिवलनादम्भोभिरम्भोमुचः संभूयापि विधातुमस्य रजसि स्तैमित्यमप्यक्षमाः ॥

7677

एकेनापि विनीतेन सुतेनोद्ध्रियते कुलम् ।
गङ्गावतारणापारप्रथं पश्य भगीरथम् ॥

7678

एकेनापि सुधीरेण सोत्साहेन रणं प्रति ।
सोत्साहं जायते सैन्यं भग्ने भङ्गमवाप्नुयात् ॥

7679

अत एव हि वाञ्छन्ति भूपा योधान् महाबलान् ।
शूरान् धीरान् कृतोत्साहान् वर्जयन्ति च कातरान् ॥

7680

एकेनापि सुपुत्रेण जायमानेन सत्कुलम् ।
शशिना चैव गगनं सर्वदैवोज्ज्वलीकृतम् ॥

7681

एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना ।
आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी ॥

7682

एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना ।
कुलमुज्ज्वलतां याति चन्द्रेण गगनं यथा ॥

7683

एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् ।
सहैव दशभिः पुत्रैर् भारं वहति गर्दभी ॥

7684

एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।
वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा ॥

7685

एकेनापि हि शूरेण पादाक्रान्तं महीतलम् ।
क्रियते भास्करेणेव स्फारस्फुरिततेजसा ॥

7686

एकेनैव चिराय कृष्ण भवता गोवर्धनोऽयं धृतः श्रान्तोऽसि क्षणमास्स्व सांप्रतममी सर्वे वयं दध्महे ।
इत्युल्लासितदोष्णि गोपनिवहे किंचिद् भुजाकुण्चन- न्यञ्चच्छैलभरार्दिते विरमति स्मेरो हरिः पातु वः ॥

7687

एकेनैव हि कश्चिद् गुणेन जगति प्रसिद्धिमुपयाति ।
एकेन करेण गजः करी न सूर्यः सहस्रेण ॥

7688

एकेनोद्धृत्य खङ्गं हृदि पतितमिषुं पाणिनैकेन भञ्जन् भ्रूभेदालंकृतास्यः सरभसनयनः स्पष्टदष्टाधरोष्ठः ।
भीतैः क्रव्यादवृन्दैरनुपहततनुः कुञ्जरेन्द्रोपधानः शेते योधप्रधानो यदि मरणमिदं लभ्यते किं जयेन ॥

7689

एकेयं रसना न शब्दमभजद् भेजेऽनुवारं परा नेत्रं किंचिदनूरुसङ्गमभवज्जातोरुसङ्गं परम् ।
रागः कश्चन निर्जगाम हृदयात् तस्थौ तथैवापरो बाह्ये सत्पुलकोऽन्तरे विपुलको जातोऽङ्कभूसंभ्रमः ॥

7690

एके वारिनिधौ प्रवेशमपरे लोकान्तरालोकनं केचित् पावकयोगितां निजगदुः क्षीणेऽह्नि चण्डार्चिषः ।
मिथ्या चैतदसाक्षिकं प्रियसखि प्रत्यक्षतीव्रातपं मन्येऽहं पुनरध्वनीनरमणीचेतोऽधिशेते रविः ॥

7691

एकेषां वाचि शुकवद् अन्येषां हृदि मूकवत् ।
हृदि वाचि तथान्येषां वल्गु वल्गन्ति सूक्तयः ॥

7692

एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न जामीमहे ॥

7693

एकैकमक्षविषयं भजताममीषां संपद्यते यदि कृतान्तगृहातिथित्वम् ।
पञ्चाक्षगोचररतस्य किमस्ति वाच्यम् अक्षार्थमित्यमलधीरधियस् त्यजन्ति ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc