महासुभाषितसंग्रह · श्लोक 7654-7673
एके तुम्बा व्रतिकरगताः पात्रतामानयन्ति गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलग्नाः ।
एके तावद् ग्रथितसगुणा दुस्तरं तारयन्ति तेषां मध्ये ज्वलितहृदया रक्तमेके पिबन्ति ॥
एकेऽद्य प्रातरपरे पश्चादन्ये पुनः परे ।
सर्वे निःसीम्नि संसारे यान्ति कः केन शोच्यते ॥
एकेन केनचिदनर्घमणिप्रभेण काव्यं चमत्कृतिपदेन विना सुवर्णम् ।
निर्दोषलेशमपि रोहति कस्य चित्ते लावण्यहीनमिव यौवनमङ्गनानाम् ॥
एकेन केनापि गुणेन नीचोऽप्य् उच्चैः प्रतिष्ठां लभते जगत्सु ।
दृष्टान्तमग्रे मृदुताप्रसिद्धो दोषाकरोऽप्युच्चपदं प्रपन्नः ॥
एकेन चुलुकेनाब्धिर् निपीतः कुम्भयोनिना ।
तस्योदयेऽतः कालुष्यं त्यजन्त्यापो भयादिव ॥
एकेन चूर्णकुन्तलम् अपरेण करेण चिबुकमुन्नमयन् ।
पश्यामि बाष्पधौत- श्रुति नगरद्वारि तद्वदनम् ॥
एकेन चेत् परिहृतोऽसि महेश्वरेण किं खेदमावहसि केतक निर्गुणोऽसौ ।
अन्ये न किं जगति सन्ति परं गुणज्ञा ये त्वां वहन्ति शिरसा नरदेवदेवाः ॥
एकेन तिष्ठताधस्ताद् अन्येनोपरि तिष्ठता ।
दातृयाचकयोर्भेदः कराभ्यामेव सूचितः ॥
एकेन प्रियसाक्षिणा जितवती वीणां वचोभिर्निजैर् गत्या मन्दिर एव विश्वगमनं हंसं जिगायाचिरात् ।
वक्त्रेणाद्वयमोदिनेन्दुमजयत् सर्वप्रमोदप्रदं दृष्ट्या लक्ष्यपदाग्रयेव दलयत्यम्भोरुहाणां मदम् ॥
एकेन राजहंसेन या शोभा सरसोऽभवत् ।
न सा बकसहस्रेण परितस्तीरवासिना ॥
एकेन रोमनालेन जातं पङ्केरुहद्वयम् ।
ज्ञात्वाधो धनमस्यास्ति खनन्ति निशि रागिणः ॥
एकेन शुष्कवृक्षेण दह्यमानेन वह्निना ।
दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥
एकेन संधिः कलहोऽपरेण कार्योऽभितो वा प्रसमीक्ष्य वृद्धिम् ।
एवं प्रयुञ्जीत जिगीषुरेता नीतीर् विजानन्नहितात्मसारम् ॥
एकेन स्मितपाटलाधररुचो जल्पन्त्यनल्पाक्षरं वीक्षन्तेऽन्यमितः स्फुटत्कुमुदिनीफुल्लोल्लसल्लोचनाः ।
दूरोदारचरित्रचित्रविभवं ध्यायन्ति चान्यं धिया केनेत्थं परमार्थतोऽर्थवदिव प्रेमास्ति वामभ्रुवाम् ॥
एकेनांशेन धर्मार्थः कर्तव्यो भूतिमिच्छता ।
एकेनांशेन कामार्थ एकमंशं विवर्धयेत् ॥
एकेनाक्ष्णा परिततरुषा वीक्षते व्योमसंस्थं भानोर्बिम्बं सजललुलितेनापरेणात्मकान्तम् ।
अह्नश्छेदे दयितविरहा शङ्किनी चक्रवाकी द्वौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥
एकेनापाति लत्ता पतिवपुषि परेणापि पीतः पिता ते भ्रातान्येनापि शप्तस्त्रिभुवनतलतोऽन्येन निर्वासितासि ।
सद्यः श्रीवीरभूपस्तृणमिव मनुते त्वां सरोजालये यन् मातस्तज्जातिमात्रप्रणयिनि मयि तन्मा स्म कोपं विदध्याः ॥
एकेनापाति लत्ता पतिवपुषि परेणापि पीतोऽस्ति तातो भ्राता शप्तः परेण त्रिभुवनतलतोऽन्येन निष्कासितासि ।
छन्नं गेहं परेणाऽकलि च तदपरेणास्ति सापत्न्यशीला तस्मान्नित्यं द्विजेभ्यो मधुरिपुमहिले त्वं वियुक्तासि मन्ये ॥
एकेनापि गुणवता जातिविशुद्धेन चारुकृत्येन ।
स्वकुलमलंकृतमखिलं मुकुटं मुक्ताफलेनेव ॥
एकेनापि गुणवता विद्यायुक्तेन साधुना ।
कुलं पुरुषसिंहेन चन्द्रेणेव प्रकाश्यते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0