भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7634-7653

7634

एकाम्भोधीकृतायां भुवि जगदखिलं निर्जनीकृत्य खेलन् देवः कालीसहायः प्रसभविहरणोन्मुक्तलीलाट्टहासः ।
सद्यो दंष्ट्रांशुभिन्ने तमसि निजवपुर्बिम्बमालोक्य कस्त्वं कस्त्वं ब्रूहीति कोपादभिदधदभयं भैरवश्चेष्टतां वः ॥

7635

एकारिमित्रयोश्चेत् परस्परं भूपयोर्भेदः ।
तदुपरि परिणतनीतिः सुखमभियोगं करोतु गतभीतिः ॥

7636

एकारौकारयुक्ता हरिहरिजहराः पञ्च बाणाः स्मरस्य ख्याता लक्ष्याण्यमीषां हृदयकुचदृशो मूर्ध्नि गुह्ये क्रमेण ।
मर्मस्वेतेषु भूयो निजनयनधनुःप्रेरितैस्तैः पतद्भिः स्यन्दन्ते सुन्दरीणां ज्वलदनलनिभैर्बिन्दवः कामवाराम् ॥

7637

एकार्थां सम्यगुद्दिश्य यात्रां यत्र हि गच्छतः ।
य संहतप्रयाणस्तु सन्धिः संयोग उच्यते ॥

7638

एकार्थाभिनिवेशित्वम् अरिलक्षणमुच्यते ।
दारुणस् तु स्मृतः शत्रुर् विजिगीषुगुणान्वितः ॥

7639

एकावलीकलितमौक्तिककैतवेन कस्याश्चिदुन्नतपयोधरयुग्मसेवाम् ।
चक्रुर्मनांसि यमिनामतिनिर्मलानि कंदर्पमुक्तशरपातकृतान्तराणि ॥

7640

एकावस्थितिरस्तु वः पुरमुरप्रद्वेषिणोर्देवयोः प्रालेयाञ्जनशैलशृङ्गसुभगच्छायाङ्गयोः श्रेयसे ।
तार्क्ष्यत्रासविहस्तपन्नगफटा यस्यां जटापालयो बालेन्दुद्युतिकोशसुप्तजलजो यस्यां च नाभीह्रदः ॥

7641

एका वा दुग्धिका तुम्बी शङ्खपुष्पी जटा धृता ।
कण्ठदन्तोद्भवा भूतवेदनाहरणक्षमा ॥

7642

एकासनस्था जलवायुभक्षा मुमुक्षवस् त्यक्तपरिग्रहाश्च ।
पृच्छन्ति तेऽप्यम्बरचारिचारं दैवज्ञमन्ये किमुतार्थचित्ताः ॥

7643

एकाहं जपहीनस्तु सन्ध्याहीनो दिनत्रयम् ।
द्वादशाहमनग्निस्तु शूद्र एव न संशयः ॥

7644

एकाहनिष्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः ।
श्रीपालनामा कविचक्रवर्त्ती प्रशस्तिमेतामकरोत् प्रशस्ताम् ॥

7645

एकाहमपि कौन्तेय भूयिष्ठमुदकं कुरु ।
कुलं तारयते तात सप्त सप्त च सप्त च ॥

7646

एकाहारेण संतुष्टः षट्कर्मनिरतः सदा ।
ऋतुकालाभिगामी च स विप्रो द्विज उच्यते ॥

7647

एकिकेव निजवृन्दमध्यगाप्य् उच्चुकूज सभयं सितच्छदी ।
दन्तमूलमसकृच्च संशयाद् आममर्श करिणः करेणुका ॥

7648

एकीकृतस्त्वचि निषिक्त इवावपीड्य निर्भुग्नपीनकुचकुड्मलयानया मे ।
कर्पूरहारहरिचन्दनचन्द्रकान्त- निष्यन्दशैवलमृणालहिमादिवर्गः ॥

7649

एकीकृत्य किमोषधीपतिरसैराकाशभाण्डोदरे फुल्लत्पङ्कजिनीजनाम्बुजमुखध्मातैः समन्तान् मुहुः ।
काष्ठोत्थारुणदीप्तिवह्निपटलैराताप्य सम्यग् भृशं तारापारदमारणं वितनुते वैद्योऽनवद्यो रविः ॥

7650

एकीभावं गतयोर् जलपयसोर्मित्रचेतसोश्चैव ।
व्यतिरेककृतौ शक्तिर् हंसानां दुर्जनानां च ॥

7651

एकीभूय स्फुटमिव किमप्याचरद्भिः प्रलीनैर् एभिर्भूतैः स्मर कति कृताः स्वान्त ते विप्रलम्भाः ।
तस्मादेषां त्यज परिचयं चिन्तय स्वव्यवस्थाम् आभाषस्ते किमु न विदितः खण्डितः पण्डितः स्यात् ॥

7652

एके कुटीरकोणेऽपि न लक्ष्यन्ते स्थिताः क्वचित् ।
अन्येषां विभवस्यैतद् ब्रह्माण्डमपि संकटम् ॥

7653

एके केचित् यतिकरगताः पात्रसंज्ञां लभन्ते गायन्त्यन्ये सरसमधुरं वीणया संप्रयुक्ताः ।
एके तेषां सहगतिवशाद् दुस्तरं तारयन्ति केचित् तेषां ज्वलितहृदया रक्तमेवापिबन्ति ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc