महासुभाषितसंग्रह · श्लोक 7614-7633
एकान्तमन्दिरगतं मदनोपमेयं तल्पोपविष्टमतुलं रतिरूपरम्या ।
बाला चकोरनयना नयनातिथिं तं कृत्वा नमद्वदनपङ्कजमाननाम ॥
एकान्तशान्तमेकं मन्यन्ते मानवा निवासाख्यम् ।
उग्रस्य च शीतस्य च नाशकरं कार्ययुग्मस्य ॥
एकान्तशीलस्य दृढव्रतस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य ।
अध्यात्मयोगे गतमानसस्य मोक्षो ध्रुवं नित्यमहिंसकस्य ॥
एकान्तसुन्दरविधानजडः क्व वेधाः सर्वाङ्गकान्तिचतुरं क्व च रूपमस्याः ।
मन्ये महेश्वरभयान्मकरध्वजेन प्राणार्थिना युवतिरूपमिदं गृहीतम् ॥
एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम् ।
मित्रामित्रमथो मध्यं सर्वभूतेषु भारत ॥
एकान्ते वनतो गृहं शशिमुखोऽप्यन्यादृशो दृश्यते क्षिप्रं साधय यातु पुत्रि सुदिने भुक्त्वान्यमावासकम् ।
श्वश्र्वा संभ्रमिता किलेति बहुशः संप्रेरयन्त्या वधूः पान्थं वीक्ष्य बभञ्ज सस्मितमुखी सैवार्धसिद्धौदनम् ॥
एकान्ते विजने देशे पवित्रे निरुपद्रवे ।
कम्बलाजिनवस्त्राणाम् उपर्यासनमभ्यसेत् ॥
एकान्ते विजने रम्ये पवित्रे निरुपद्रवे ।
सुखासने समाधिः स्याद् वस्त्राजिनकुशोत्तरे ॥
एकान्ते सुखमास्यता परतरे चेतः समाधीयतां प्राणात्मा सुसमीक्ष्यतां जगदिदं तद्व्यापितं दृश्यताम् ।
प्राक्कर्म प्रविलोप्यतां चितिबलान् नाप्युत्तरे श्लिष्यतां प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मनास्थीयताम् ॥
एकापवर्गसमये जगतोऽपवर्गः सर्वापवर्गसमये पुनरस्तशङ्कः ।
ईदृग्विधं कमपि पक्षमिहावलम्ब्य स्थातुं सुखं क्षममनेन पथा प्रवृत्तैः ॥
एकापि पञ्चशान्ता तारा वाञ्छाप्तये शुभासीना ।
लाभ उभाभ्यामधिकस् तिस्रो राज्याय यात्रायाम् ॥
एका प्रसूयते माता द्वितीया वाक् प्रसूयते ।
वाग्जातमधिकं प्रोचुः सोदर्यादपि बान्धवात् ॥
एका भार्या त्रयः पुत्रा द्वौ हलौ दश धेनवः ।
कल्पकालावसानेऽपि न ते यास्यन्ति विक्रियाम् ॥
एका भार्या त्रयः पुत्रा द्वौ हलौ दश धेनवः ।
ग्रामेवासः पुरासत्रैः स्वर्गादपि मनोहरः ॥
एका भार्या प्रकृतिमुखरा चञ्चला च द्वितीया पुत्रस्त्वेको भुवनविजयी मन्मथो दुर्निवारः ।
शेषः शय्या शयनमुदधौ वाहनं पन्नगारिः स्मारं स्मारं स्वगृहचरितं दारुभूतो मुरारिः ॥
एकाभूत् कुसुमायुधेषुधिरिव प्रव्यक्तपुङ्खावली जेतुर्मङ्गलपालिकेव पुलकैरन्या कपोलस्थली ।
लोलाक्षीं क्षणमात्रभाविविरहक्लेशासहां पश्यतो द्रागाकर्णयतश्च वीर भवतः प्रौढाहवाडम्बरम् ॥
एका भूरुभयोरैक्यम् उभयोर्दलकाण्डयोः ।
शालिश्यामाकयोर्भेदः फलेन परिचीयते ॥
एकामधीत्य विद्यां बिभेति बहुविद्यपरिषदं प्राप्तः ।
क्वासन्नशस्त्रनिकरः कुत्रैकशरः पुनः पुरुषः ॥
एकामिषप्रभवमेव सहोदराणाम् उज्जृम्भते जगति वैरमिति प्रसिद्धम् ।
पृथ्वीनिमित्तमभवत् कुरुपाण्डवानां तीव्रस् तथा हि भुवनक्षयकृद् विरोधः ॥
एकामिषाभिलाषो हि बीजं वैरमहातरोः ।
तिलोत्तमाभिलाषो हि यथा सुन्दोपसुन्दयोः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0