महासुभाषितसंग्रह · श्लोक 7594-7613
एकाकिना न गन्तव्यं यदि कार्यशतान्यपि ।
कर्कटीजन्तुमात्रेण कालसर्पो निपातितः ॥
एकाकिनि वनवासिन्य् अराजलक्ष्मण्यनीतिशास्त्रज्ञे ।
सत्त्वोच्छ्रिते मृगपतौ राजेति गिरः परिणमन्ति ॥
एकाकिनीं रहः क्षीबां लब्ध्वा दुर्लभयोषितम् ।
अप्रौढोऽनुपभुज्यान्यदिने दूत्यार्थयेत यः ॥
विभूतिं रभसावाप्तां यश्च संत्यज्य तत्क्षणम् ।
नीत्या कामयतेऽन्येद्युः शोच्यस्ताभ्यां परोऽस्ति कः ॥
एकाकिनी यदबला तरुणी तथाहम् अस्मिन् गृहे गृहपतिश्च गतो विदेशम् ।
किं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ ॥
एकाकिन्या मम गृहमिदं यामिको मामकोऽन्धः का मे नोदेत्यहह मनसस्तस्करेणात्र भीतिः ।
दैवेनैवं यदि न सुखितः स्याः श्रमेण प्रसुप्तः पान्थ ब्रूमः किमिह सदृशो नैष नैशो निवासः ॥
एकाकी गृहसंत्यक्तः पाणिपात्रो दिगम्बरः ।
सोऽपि संबाध्यते लोके तृष्णया पश्य कौतुकम् ॥
एकाकी चिन्तयेन् नित्यं विविक्ते हितमात्मनः ।
एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति ॥
एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।
कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ॥
एकाक्षरप्रदातारं यो गुरुं नैव मन्यते ।
श्वानयोनिशतं गत्वा चाण्डालेष्वभिजायते ॥
एका गङ्गा प्रयागे मलयपरिसरे चन्दनं मौक्तिकाली कान्ताकण्ठे हिमांशुर्वियति सरसि श्वेतमब्जं तथास्याः ।
कालिन्दी कालसर्पा मरकततरलो लाञ्छनं भृङ्गमालेत्य् एवं ते यत्र कीर्तिः परिणमति युता यत्र शत्रोरकीर्त्या ॥
एकाग्निकर्म हवनं त्रेतायां यच्च हूयते ।
अन्तर्वेद्यां च यद् दानम् इष्टं तदभिधीयते ॥
एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः ।
राजन् राज्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ॥
एकाग्रताथ संकल्पः स्नायुवद् वर्द्धनक्षमौ ।
नित्याभ्यासप्रयोगाभ्याम् अधिकाधिकमृध्यतः ॥
एकाङ्घ्रिं विनिधाय कान्तचरणे तज्जानुदेशे परं लीलोदञ्चितमध्यमा करयुगेणावर्ज्य तत्कन्धराम् ।
वक्षस् तस्य घनोन्नतस्तनभरेणापीड्य गाढं रसाद् आस्यं धन्यतमस्य पूर्णपुलका चन्द्रानना चुम्बति ॥
एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च ।
अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमूढः प्रतिभासि मे त्वम् ॥
एकादशरुद्राणाम् एका गौरीत्यनौचितीं मत्वा ।
राघव नृप तव यशसा दशापि गौरीकृता हरितः ॥
एकादशस्थे गोविन्दे सर्वेऽप्येकादशे स्थिताः ।
किं कुर्वन्ति ग्रहाः सर्वे शनिरङ्गारको रविः ॥
एकादशाक्षरात् पादाद् एकैकाक्षरवर्धितैः ।
खण्डैर्ध्रुवाः षोडश स्युः षड्विंशत्यक्षरावधि ॥
एकानपाङ्गैरपरांस् तरङ्गैर् भ्रुवोर्विलासैरितरं च हासैः ।
विमोहयन्त्यन्यमहो रहोभिः को वा कलां वेद कलावतीनाम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0