महासुभाषितसंग्रह · श्लोक 7574-7593
एकस्मिन् विनिपातितेऽपि शिरसि क्रोधोपशान्तिः कुतः किंतु स्वानुनयाय मूर्धनिधनं दृष्टं न यत्रारिणा ।
त्वत्तो मूर्धबहुत्वतः फलमिदं सम्यङ् मया लभ्यते छिन्नं छिन्नमवेक्ष्य राक्षसपते स्वं दुर्नयं ज्ञास्यसि ॥
एकस्मै पूर्णमन्यस्मै कृशं तुल्यगुणोदये ।
भेदाद् यदर्पितं रागद्वेषदानेन तेन किम् ॥
एकस्य कर्म संवीक्ष्य करोत्यन्योऽपि गर्हितम् ।
गतानुगतिको लोको न लोकः पारमार्थिकः ॥
एकस्य जन्मनोऽर्थे मूढाः कुर्वन्ति यानि पापानि ।
जनयन्ति तानि दुःखं तेषां जन्मान्तरसहस्रम् ॥
एकस्य तस्य मन्ये धन्यामभ्युन्नतिं जलधरस्य ।
विश्वं सशैलकाननम् आननमालोकते यस्य ॥
एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य ।
तावद् द्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुलीभवन्ति ॥
एकस्य विश्वपापेन तापेऽनन्ते निमज्जतः ।
कः श्रौतस्यात्मनो भीरो भारः स्याद् दुरितेन ते ॥
एकस्य सृष्टिः परमेश्वरस्य भिन्ना चतुर्धा विनियोगकाले ।
भोगे भवानी समरेषु दुर्गा कोपेषु काली पुरुषेषु विष्णुः ॥
एकस्य हि प्रसादेन कृत्स्नो लोकः प्रसीदति ।
व्याकुलेनाकुलः सर्वो भवतीति विनिश्चयः ॥
एकस्यापि न यः शक्तो मनसः सन्निबर्हणे ।
महीं सागरपर्यन्तां कथं नु स विजेष्यते ॥
एकस्यापि मनोभुवस्तदबलापाङ्गैर्जगन्निर्जये कामं निह्नुतसर्वविस्मयरसव्यक्तिप्रकारा वयम् ।
यस्त्वेनं सबलं च जेतुमभितस्तत्कम्पमात्रं भ्रुवोर् नारेभे सुगतस्तु तद्गुणकथा स्तम्भाय नः केवलम् ॥
एकस्याप्यतिथेरन्नं यः प्रदातुं न शक्तिमान् ।
तस्यानेकपरिक्लेशे गृहे किं वसतः फलम् ॥
एकस्यायमुदेति मूर्धनि गिरेरन्यस्य चैव क्रमाद् अस्तं याति कलानिधिस्तदुभयोरस्तः प्रशस्तोऽचलः ।
को नामोदयिनं करोति न शिरोमाणिक्यमस्तं पुनर् यातं यः कुरुते भवानिव स दुष्प्रापोऽयमुच्चैःशिराः ॥
एकस्यार्थाय यो हन्याद् आत्मनो वा परस्य वा ।
बहून् वै प्राणिनोऽथैकं भवेत् तस्येह पातकम् ॥
सुखमेधन्ति बहवो यस्मिंस्तु निहते सति ।
तस्मिन् हते नास्ति भद्रे पातकं नोपपातकम् ॥
एकस्यास्तपनकरैः करालिताया बिभ्राणः सपदि सितोष्णवारणत्वम् ।
सेवायै वदनसरोजनिर्जितश्रीर् आगत्य प्रियमिव चन्द्रमाश् चकार ॥
एकस्यैव न पर्याप्तम् अस्ति यद् ब्रह्मकोशजम् ।
आशया वर्द्धितस्यास्ति तस्याल्पमपि पूर्तिकृत् ॥
एकां कृत्वा तनुमनुपमां चन्द्रचूडेन सार्धं यस् त्यक्तोऽर्धः सततविरहक्लेशभागी भवान्या ।
तेनाङ्गानां रचितमुचितं संविभक्तेन कर्तुं नूनं दूनां तनुतनुलतां निर्ममे तां विरिञ्चिः ॥
एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः ।
चतुर्भिर्गमनं क्षेत्रं पञ्चभिर्बहुभी रणः ॥
एकाकिना न गन्तव्यं यदि कार्यशतं भवेत् ।
एककुक्कुटमात्रेण ब्राह्मणः परिरक्षितः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0