महासुभाषितसंग्रह · श्लोक 7553-7573
एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् ।
यस्य कालः प्रयात्यग्रे तत्र का परिदेवना ॥
एकसुकृतेन दुष्कृत- शतानि ये नाशयन्ति ते सेव्याः ।
न त्वेकदोषजनितो येषां कोपः कृतशतघ्नः ॥
एकस्तपो द्विरध्यायी त्रिभिर्गीतं चतुः पथम् ।
सप्त पञ्च कृषीणां च सङ्ग्रामो बहुभिर्जनैः ॥
एकस्त्रिधा हृदि सदा वससि स्म चित्रं यो विद्विषां च विदुषां च मृगीदृशां च ।
तापं च संमदरसं च रतिं च तन्वन् शौर्योष्मणा च विनयेन च लीलया च ॥
एकस्त्रेधा नयसुनिपुणैर्योगिभिः सेवकैर्वा निर्बाधं यः सपदि विदितो भाति सर्वस्वरूपः ।
सोऽयं नन्दव्रजमुपगतः साकमाभीरवृन्दैर् वृन्दारण्ये विहरति परानन्दभूतिर्मुकुन्दः ॥
एकस्त्वं गहनेऽस्मिन् कोकिल न कलं कदाचिदपि कुर्याः ।
साजात्यशङ्कयामी न त्वां निघ्नन्ति निर्दयाः काकाः ॥
एकस्त्वं मरुभूरुहेन्द्र विततैः शाखाशतैरञ्चितः पुष्प्यत्पुष्पफलान्वितैरमृदितैर् जीव्याः सहस्रं समाः ।
अश्रान्तं श्रमरुग्णपान्थजनतासर्वार्थनिर्वाहणं कस्त्वां सात्त्विकमन्तरेण भुवनं निर्मातु धर्माशयः ॥
एकस्त्वमावहसि जन्मनि संक्षये च भोक्तुं स्वयं स्वकृतकर्मफलानुबन्धम् ।
अन्यो न जातु सुखदुःखविधौ सहायः स्वाजीवनाय मिलितं विटपेटकं ते ॥
एकस्थं जीवितेशे त्वयि सकलजगत्सारमालोकयामः श्यामे चक्षुस्तवास्मिन् वपुषि निविशते नाल्पपुण्यस्य पुंसः ।
कस्यान्यत्रामृतेऽस्मिन् रतिरतिविपुला दृष्टिरेवामृतं ते दैत्यैरित्युच्यमानो मुनिभिरपि हरिः स्त्रैणरूपोऽवताद् वः ॥
एकस्माद् वृक्षाद् यज्ञपात्राणि राजन् स्रुक् च द्रोणी वोढनी पीडनी च ।
एतद् राजन् ब्रुवतो मे निबोध एकस्मात् पुरुषाज् जायतेऽसच्च सच्च ॥
एकस्मिञ् जनिरावयोः समजनि स्वच्छे सरोवारिणि भ्रातः काचिदिहैव कानिचिदहान्यत्र व्यतीतानि नौ ।
लब्धं तामरस त्वया मृगदृशां लीलावतंसास्पदं शैवालं विलुठामि पामरवधूपादाहते पाथसि ॥
एकस्मिञ् शयने पराङ्गुखतया वीतोत्तरं ताम्यतोर् अन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् ।
दम्पत्योः शनकैरपाङ्गवलनान् मिश्रीभवच्चक्षुषोर् भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः ॥
एकस्मिञ् शयने विपक्षरमणीनामग्रहे मुग्धया सद्यःकोपपराङ्मुखग्लपितया चाटूनि कुर्वन्नपि ।
आवेगादवधीरितः प्रियतमस् तूष्णीं स्थितस् तत्क्षणं मा भूत् सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥
एकस्मिञ् शयने सरोरुहदृशोर्विज्ञाय निद्रां तयोर् एकां पल्लवितावगुण्ठनपटामुत्कन्धरो दृष्टवान् ।
अन्यस्याः सविधं समेत्य निभृतव्यालोलहस्ताङ्गुलि- व्यापारैर्वसनाञ्चलं चपलयन् स्वापच्युतिं क्लिप्तवान् ॥
एकस्मिन् दिवसे मया विचरता प्राप्तः कथंचिन् मणिर् मूल्यं यस्य न विद्यते भवति चेत् पृथ्वी समस्ता ततः ।
सोऽयं दैववशादभूदतितरां काचोपमः साम्प्रतं किं कुर्मः कमुपास्महे क्व स सुहृद् यस्यैतदावेद्यते ॥
एकस्मिन्नप्यतिक्रान्ते दिने धर्मविवर्जिते ।
दस्युभिर्मुषितस्येव हृदयं दह्यते चिरम् ॥
एकस्मिन् नयने भृशं तपति यः काले स दाहक्रमो येनातन्यत यत्प्रकाशसमये नैशं पदं दुर्लभम् ।
सव्योमावयवस्य यस्य विदिता लोके प्रकाशस्थितिः श्रीसूर्यः क्षणसेवितोऽपि हि महादेवः स नस्त्रायताम् ॥
एकस्मिन्नेव जायेते कुले क्लीबमहारथौ ।
फलाफलवती शाखे यथैकस्मिन् वनस्पतौ ॥
एकस्मिन् मलयाचले बहुविधैः किं तैरकिंचित्करैः काकोलूककपोतकोकिलकुलैरेकोऽपि पार्श्वस्थितः ।
केकी कूजति चेत् तदा विघटितव्यालावलीबन्धनः सेव्यः स्यादिह सर्वलोकमनसामानन्दनश् चन्दनः ॥
एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि ।
बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ॥
एकस्मिन् विजिते चित्ते विजितं सकलं जगत् ।
अजिते तु पुनस्तस्मिन् न पुत्रोऽपि विनिर्जितः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0