महासुभाषितसंग्रह · श्लोक 7533-7552
एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु ।
पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव ॥
एकयापि कलया विशुद्धया योऽपि कोऽपि भजते गिरीशताम् ।
भूयसीरपि कलाः कलङ्किताः प्राप्य कश्चिदपचीयते शनैः ॥
एकयैव गुरोर्दृष्ट्या द्वाभ्यां वापि लभेत यत् ।
न तत् तिसृभिरष्टाभिः सहस्रेणापि कस्यचित् ॥
एकरद द्वैमातुर निस्त्रिगुण चतुर्भुजोऽपि पञ्चकर ।
जय षण्मुखनुत सप्त- च्छदगन्धिमदाष्टतनुतनय ॥
एकवर्णं यथा दुग्धं बहुवर्णासु धेनुषु ।
तथा धर्मस्य वैचित्र्ये तत्त्वमेकं परं पुनः ॥
एकवर्णमिदं पूर्वं विश्वमासीद् युधिष्ठिर ।
कर्मक्रियाविभेदेन चातुर्वर्ण्यं प्रतिष्ठितम् ॥
एकवर्णो भवेद् यस्तु लक्षणैकेन संयुतः ।
स खड्गराजो नृपतेर् विज्ञेयः शुभकारकः ॥
एकवापीजलं पश्य इक्षौ मधुरतां व्रजेत् ।
निम्बे कटुकतां याति पात्रापात्राय भोजनम् ॥
एकवापीभवं तोयं पात्रापात्रविशेषतः ।
आम्रे मधुरतामेति निम्बे कटुकतामपि ॥
एकविंशतिरादिष्टाः नरकाः शास्त्रपारगैः ।
गर्भवाससमीपे ते कलां नार्हन्ति षोडशीम् ॥
एकविंशतिवर्णाङ्घ्रिर् भवेच् शृङ्गारके रसे ।
कामदोऽभीष्टदः पुसां ताले तुरगलीलके ॥
... ... ... ... ... ... ॥
एकविंशतिवारेण कुक्कुटस्यासृजोक्षितम् ।
तत्क्षणाद् दाडिमीबीजं वर्धते फलति ध्रुवम् ॥
एकविंशतिसंजप्तं जलं मन्त्रेण पाययेत् ।
यदा वान्तिस् तदा मृत्युर् न वान्तिर्जीवति ध्रुवम् ॥
एकविद्याप्रधानोऽपि बहुज्ञानी भवेन् नरः ।
सुभाषितानि शिक्षेत यानि शास्त्रोद्धृतानि वै ॥
एकवृक्षसमारूढा नानावर्णा विहंगमाः ।
प्रातर्दश दिशो यान्ति का तत्र परिदेवना ॥
एकवृक्षे यथा रात्रौ नानापक्षिसमागमः ।
प्रातर्दश दिशो यान्ति तद्वद् भूतसमागमः ॥
एकवेशाश्रयाज् जातेर् वर्णस्यापि प्रगोपनम् ।
यथा हस्तिपदेऽन्येषां लीयन्ते चरणा अपि ॥
एकशक्तिप्रहारेण म्रियतेऽश्वो नरोऽपि हि ।
सहेन् महाप्रहाराणां शतं युद्धेषु वारणः ॥
एकशीलवयोविद्याजातिव्यसनवृत्तयः ।
साहचर्ये भवेन् मित्रम् एभिर्यदि तु सार्जवैः ॥
एकश्चेत् पूर्वपुरुषः कुले यश्च बहुश्रुतः ।
अपरः पापकृन्मूर्खः कुलं कस्यानुवर्तते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0