महासुभाषितसंग्रह · श्लोक 7513-7532
एकपुंसा न गन्तव्यं काकसर्पस्य कारणात् ।
कर्कटस्य प्रसादेन ब्राह्मणो जीवितो यथा ॥
एकपुच्छश् चतुष्पादः ककुद्मान् लम्बकम्बलः ।
गोरपत्यं बलीवर्दो घासमत्ति सुखेन सः ॥
एकप्रियाचरणपद्मपरीष्टिजात- क्लेशस्य मे हृदयमुत्तरलीचकार ।
उद्भिन्ननिर्भरमनोभवभावमुग्ध- नानाङ्गनावदनचन्द्रमसां दिदृक्षा ॥
एकभवे रिपुपन्नगदुःखं जन्मशतेषु मनोभवदुःखम् ।
चारुधियेति विचिन्त्य महान्तः कामरिपुं क्षणतः क्षपयन्ति ॥
एकभुक्तं सदारोग्यं द्विभुक्तं बलवर्द्धनम् ।
त्रिभुक्तेर्व्याधिपीडा स्याच् चतुर्भुक्तेर्मृतिर्ध्रुवम् ॥
एकमपि क्षणं लब्ध्वा सम्यक्त्वं यो विमुञ्चति ।
संसारार्णवमुत्तीर्य लभते सोऽपि निर्वृतिम् ॥
एकमपि सतां सुकृतं विकसति तैलं यथा जले न्यस्तम् ।
असतामुपकारशतं संकुचति सुशीतले घृतवत् ॥
एकमप्यक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् ।
पृथिव्यां नास्ति तद् द्रव्यं यद् दत्वा सोऽनृणी भवेत् ॥
एकमप्यत्र यो बिन्दुं भक्षयेन् मधुनो नरः ।
सोऽपि दुःखवृषाकीर्णे पतते भवसागरे ॥
एकमस्य परमेकमुद्यमं निस्त्रपत्वमपरस्य वस्तुनः ।
नित्यमुष्णमहसा निरस्यते नित्यमन्धतमसं प्रधावति ॥
एकमात्रो लघुः प्रोक्तो द्विमात्रश्च गुरुः स्मृतः ।
प्लुतस् त्रिमात्रको ज्ञेयो द्रुतः स्यादर्धमात्रकः ॥
एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते ।
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥
एकमुत्कण्ठया व्याप्तम् अन्यद् दयितया हृतम् ।
चैतन्यमपरं धत्ते कियन्ति हृदयानि मे ॥
एकमेव गुणं प्राप्य नम्रतामगमद् धनुः ।
तवाशेषगुणा राज्ञः स्तब्धतेति सुविस्मयः ॥
एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
एतेषामेव वर्णानां शुश्रूषामनसूयया ॥
एकमेव दहत्यग्निर् नरं दुरुपसर्पिणम् ।
कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् ॥
एकमेव पुरस्कृत्य दश जीवन्ति मानवाः ।
विना तेन न शोभन्ते यथा संख्याङ्कबिन्दवः ॥
एकमेव बलिं बद्ध्वा जगाम हरिरुन्नतिम् ।
अस्यास्त्रिबलिबन्धेन सैव मध्यस्य नम्रता ॥
एकमेव हि दारिद्र्यं क्लिश्नाति सकलं जगत् ।
तमहं शाब्दिकं वन्दे यश्चकार नपुंसकम् ॥
एकमेवाक्षि वामाक्षि रञ्जयाञ्जनलेखया ।
जायतामैन्दवे बिम्बे खञ्जनाम्बुजसंगमः ॥
एकमेवाद्वितीयं तद् यद् राजन् नावबुध्यसे ।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0