भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7492-7512

7492

एकत्रापि हते जन्तौ पापं भवति दारुणम् ।
न सूक्ष्मानेकजन्तूनां घातिनो मधुपस्य किम् ॥

7493

एकत्रासनसङ्गतिः परिहृता प्रत्युद्गमाद् दूरतस् ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविघ्नितः ।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥

7494

एकत्रासनसङ्गते प्रियतमे पश्चादुपेत्यादराद् एकस्या नयने पिधाय महतः क्रीडानुबन्धच्छलात् ।
तिर्यग्वक्रितकन्धरः सपुलकस्वेदोद्गमानन्दिनीम् अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥

7496

एकत्वं न रसैः कयोः समजनि स्त्रीपुंसयोः प्रावृषि प्राप्तौ यद्रसनिर्भराविह धराकाशौ चिरादेकताम् ।
योषित्सङ्गमगूढसर्वतरुणः कालोऽयमालोक्यते छन्नः क्वापि दिवा युवापि निशया क्रोडीकृतः क्रीडति ॥

7497

एकदन्तं त्रिनयनं ज्वालानलसमप्रभम् ।
गणाध्यक्षं गजमुखं प्रणमामि विनायकम् ॥

7498

एकदन्तद्युतिसितः शंभोः सूनुः श्रियेऽस्तु वः ।
विद्याकन्द इवोद्भिन्ननवाङ्कुरमनोहरः ॥

7499

एकदा न विगृह्णीयाद् बहून् राजाभिघातिनः ।
सदर्पोऽप्युरगः कीटैर् बहुभिर्नाश्यते ध्रुवम् ॥

7500

एकदेशमुपाध्याय ऋत्विग् यज्ञकृदुच्यते ।
एते मान्या यथापूर्वम् एभ्यो माता गरीयसी ॥

7501

एकद्विकरणे हेतू महापातकपञ्चके ।
न तृणे मन्यते कोपकामौ यः पञ्च कारयन् ॥

7502

एकद्वित्रिकलाक्रमेण शशिनं गृह्णन्विमुञ्चन्नयं यच् चण्डद्युतिरातनोति भगवानद्यापि चान्द्रायणम् ।
देवैतद् भवदीयभास्वरभुजस्तम्भप्रतापानल- स्पर्धायै क्रमभुक्तलाञ्छनपशोर्नैतत् पुनः सेत्स्यति ॥

7503

एकद्विप्रभृतिक्रमेण गणनामेषामिवास्तं यतां कुर्वाणा समकोचयद् दशशतान्यम्भोजसंवर्तिकाः ।
भूयोऽपि क्रमशः प्रसारयति ताः संप्रत्यमूनुद्यतः संख्यातुं सकुतूहलेव नलिनी भानोः सहस्रं करान् ॥

7504

एकद्वेषु रसालशाखिषु मनागुन्मीलितं कुड्मलैः कर्णाकर्णिकया मिथः कथममी घूर्णन्ति विश्वेऽध्वगाः ।
द्वित्रैः क्वापि किल श्रुताश्रुतमपि स्पष्टान्यपुष्टारुतं विष्वङ्मूर्छति दुःसहो विरहिणीगेहेषु हाहारवः ॥

7505

एकद्वैः किमभावि सूरिभिरथ द्वित्राणि मित्राणि किं व्यापन्नानि गताश्च किं त्रिचतुरा घोरा महाव्याधयः ।
सप्ताष्टैरलमिष्टमेतदपि नश्चेतः क्षणान् पञ्चषान् स्वात्मन्येव रमस्व तेजसि गते कालेऽथवा सर्वतः ॥

7506

एकद्वैर्दिवसैर्भविष्यति मनाग् दोरन्तरं दन्तुरं द्वित्रैरेव दिनैश्च लोचनपथं रोमावली यास्यति ।
किं चाभूदिव वासरैस्त्रिचतुरैश्चाञ्चल्यमस्या दृशोस् तज्जेतुं जगतीमनङ्ग किमतीवायासमालंबसे ॥

7507

एकद्वैर्मधुबिन्दुभिर्मधुलिहः स्यादेव कुक्षिम्भरिः कस्मिन् वा कुसुमे भवन्ति सुलभा तेऽमी पुनः पञ्चषाः ।
कालः कोऽपि स तादृशः परिणतो येनैकतृष्णाकुलो यद्यत् पुष्पमुपागमत् कृपणवत् तेनास्य मा कुञ्चितम् ॥

7508

एकधातुर्द्विखण्डः स्याद् यत्रोद्ग्राहस्ततः परम् ।
तृतीयं किंचिदुच्चं स्यात् खण्डं गमकशोभनम् ॥

7509

एकनिभा यत्र मही तृणतरुवल्मीकगुल्मपरिहीना ।
तस्यां यत्र विकारो भवति धरित्र्यां जलं तत्र ॥

7510

एकन्तु लोकवेदेभ्यः सारमाकृष्य कथ्यते ।
प्राणात्ययेऽपि न त्याज्यो न्याय्यो धर्मश्लथः पथः ॥

7511

एकपङ्क्त्युपविष्टानां विप्राणां सहभोजने ।
यद्येकोऽपि त्यजेदन्नं सर्वैरुच्छिष्टभोजनम् ॥

7512

एकपत्नीसमासक्तैर् भवद्भिः संहतैर्मिथः ।
स्थातव्यमप्रसादेन भेदमूलं हि योषितः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc