भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7472-7491

7472

एकतः सर्वपापानि मद्यपानं तथैकतः ।
एकतः सर्वदानानि ब्रह्मचर्यं तथैकतः ॥

7473

एकतश्चतुरो वेदाः साङ्गोपाङ्गाः सविस्तराः ।
स्वाधीनास्ते नरश्रेष्ठ सत्यमेकं किलैकतः ॥

7474

एकतश्चतुरो वेदा ब्रह्मचर्यं तथैकतः ।
एकतः सर्वपापानि मद्यपानं तथैकतः ॥

7475

एकतश्च सुरसुन्दरीजनः श्रीः प्रतीच्छति युयुत्सुमन्यतः ।
पाप्मना सह पलायतोऽयशश् चैकतः कुलकलङ्ककारणम् ॥

7476

एकतामिव गतस्य विवेकः कस्यचिन् न महतोऽप्युपलेभे ।
भास्वता निदधिरे भुवनानाम् आत्मनीव पतितेन विशेषाः ॥

7477

एकतो दिवसान् बाला गणयत्येकतोऽन्तकः ।
न विद्मः प्रथमं कस्य यास्यामो वयमन्तिकम् ॥

7478

एकतोऽपरितोषश्चेद् अन्यमन्यं महीभुजम् ।
निदाघपान्थवच्छायाम् अन्यामन्यामुपाश्रयेत् ॥
एकतोऽपि भुवि भूरिशोऽभवन् दीपकादहह पश्य दीपकाः ।
अन्धकारनिधनाय भानुमन्- मुक्तदिव्यविशिखादिवेषवः ॥

7479

एकतोऽभ्युदितमिन्दुमण्डलं स्मेरमास्यमसितभ्रुवोऽन्यतः ।
चञ्चुकोरकपुटीं चकोरिका चालयत्युभयतोऽपि धावति ॥

7480

एकतो मातृवात्सल्यं परतो गुणकोटयः ।
अनयोः समतां वक्तुं नालं ब्रह्मादयः सुराः ॥

7481

एकतो वा कुलं कृत्स्नम् आत्मा वा कुलवर्धन ।
न समं सर्वमेवेति बुधानामेष निश्चयः ॥

7482

एकतोव्याधिदुर्भिक्षप्रमुखा विपदोऽखिलाः ।
प्रजानामेकतस्त्वेका लुब्धता वसुधापतेः ॥

7483

एकत्र कौलव्रतभङ्गशङ्का विदग्धताभङ्गभयं परत्र ।
इत्याकुलानां कुलकामिनीनां गतागतैरेव गता त्रियामा ॥

7484

एकत्र नास्य रतिरित्यवधूयमानः कोपादिव श्वसनकम्पविघूर्णितायाः ।
रक्तच्छदं मधुसुगन्धि सरोरुहिण्या भृङ्गश् चुचुम्ब कमलाननमादरेण ॥

7485

एकत्र प्रपठन्ति साम च यजुश्चान्यत्र वेदान्तरं हिंस्राश्चापि मृगायिताश्च परतो यागोत्थधूमः शिवः ।
आतिथ्यादिविधिः परत्र विधिवत् पाद्यादिनापाद्यते नानाशास्त्रविवेचनं च वटुभिः संतन्यते सङ्गतैः ॥

7486

एकत्र प्राकृतैः साम्यम् अन्यत्र परतन्त्रता ।
शुकस्य परितोषाय न वनं न च पत्तनम् ॥

7487

एकत्र मधुनो बिन्दौ भक्षतेऽसंख्यदेहिनः ।
यो हि न स्यात् कृपा तस्य तस्मान् मधु न भक्षयेत् ॥

7488

एकत्र वासादवसानभाजस् ताम्बूललक्ष्म्या इव संस्मरन्ती ।
वक्त्रेषु यद्वैरिविलासिनीनां हासप्रभा तानवमाससाद ॥

7489

एकत्र सार्थे व्रजतां बहूनां तुल्येऽपि जाते शकुने फलानि ।
नानाप्रकाराणि भवन्ति येन तं हंसचारं प्रविचारयामः ॥

7490

एकत्र स्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसोऽपरत्र ।
कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः ॥

7491

एकत्राददते जलं जलधरव्यूहाः परत्राप्यमी दीप्यद्दिक्करिणः परत्र वडवावक्त्रोद्गता वह्नयः ।
एतावत् सततव्ययेऽपि सुतरामाश्चर्यमम्भोनिधेस् ता एव स्थितयः स एव महिमा सैवास्य गम्भीरता ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc