भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7452-7471

7452

एक एव परो ह्यात्मा सर्वेषामपि देहिनाम् ।
नानेव गृह्यते मूढैर् यथा ज्योतिर्यथा नभः ॥

7453

एक एव महान् दोषो भवतां विमले कुले ।
लुम्पन्ति पूर्वजां कीर्तिं जाता जाता गुणाधिकाः ॥

7454

एक एव लघुर्यत्र आदितालः स कथ्यते ।
विनोदे रासकस् तेन श्रोत् णां च सुखावहः ॥

7455

एक एव सुहृद् धर्मो निधनेऽप्यनुयाति यः ।
शरीरेण समं नाशं सर्वमन्यद् हि गच्छति ॥

7456

एक एव हितार्थाय तेजस्वी पार्थिवो भुवः ।
युगान्त इव भास्वन्तो बहवोऽत्र विपत्तये ॥

7457

एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥

7458

एक एव हि वन्ध्यायाः शोको भवति मानसः ।
अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते ॥

7459

एक एवोपहारस्तु संधिरेतन्मतं हि नः ।
उपहारस्य भेदास्तु सर्वेऽन्ये मैत्रवर्जिताः ॥

7460

एककार्यनियोगेऽपि नानयोस् तुल्यशीलता ।
विवाहे च चितायां च यथा हुतभुजोर्द्वयोः ॥

7461

एकक्षितिभृदुत्पन्नाः सच्छिद्राः कण्टकोल्बणाः ।
मिथः संघर्षणाद् वंशा दह्यन्ते साधुशाखिभिः ॥

7462

एकगर्भोषिताः स्निग्धा मूर्ध्ना सत्कृत्य धारिताः ।
केशा अपि विरज्यन्ते जरया किमुताङ्गनाः ॥

7463

एकगुणा भवति तिथिश् चतुर्गुणं भवति नक्षत्रम् ।
चतुःषष्टिगुणं लग्नम् एष ज्योतिषतन्त्रसिद्धान्तः ॥

7464

एकचक्रो रथो यन्ता विकलो विषमा हयाः ।
आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥

7465

एकचक्षुर्न काकोऽयं बिलमिच्छन्न पन्नगः ।
क्षीयते वर्धते चैव न समुद्रो न चन्द्रमाः ॥

7466

एकचित्तो लभेत् सिद्धिं द्विधाचित्तो विनश्यति ।
स्कन्धावारं हि गच्छन्तम् इषुकारो न पश्यति ॥

7467

एकच्छत्त्रं क्षितितलमिदं भुञ्जते यन् नरेन्द्राः स्वर्गास्थाने मुदितमनसो यद् रमन्ते मुनीन्द्राः ।
यन् निर्वाणे निरुपमसुखं मर्त्यमुख्या लभन्ते दानस्यायं स्फुरति महिमा केवलस्यामलस्य ॥

7468

एकच्छागं द्विरावेयं त्रिगवं पञ्चमाहिषम् ।
षडश्वं सप्तमातङ्गं शक्रस्यापि श्रियं हरेत् ॥

7469

एकतः क्रतवः सर्वे समग्रवरदक्षिणाः ।
एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥

7470

एकतः प्रणयपीडनं मुधा मानधारणरसादरोऽन्यतः ।
रक्षती द्वयमिदं मनस्विनी निर्वृणोतु कथमत्र जन्मनि ॥

7471

एकतः सकला विद्या चातुर्यं पुनरेकतः ।
चातुर्येण विनाकृत्य सकला विकला कला ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc