महासुभाषितसंग्रह · श्लोक 7432-7451
एकः संग्रामरिङ्गत्तुरगखुररजोराजिभिर्नष्टदृष्टिर् दिग्यात्राजैत्रमत्तद्विरदभरनमद्भूमिभग्नस् तथान्यः ।
वीराः के नाम तस्मात् त्रिजगति न ययुः क्षीणतां काणकुब्ज- न्यायादेतेन मुक्तावभयमभजतां वासवो वासुकिश्च ॥
एकः संपन्नमश्नाति वस्ते वासश्च शोभनम् ।
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस् ततः ॥
एकः संप्रति पाकशासनपुरीपीयूषसत्त्री पुरः पारक्यं तमसामसौ कुमुदिनीचैतन्यचिन्तामणिः ।
मानोच्चाटनकार्मणं मृगदृशां देवो नभोऽम्भोनिधौ पश्योदञ्चति पञ्चबाणवणिजो यात्रावहित्रं शशी ॥
एकः स एव जीवति स्वहृदयशून्योऽपि सहृदयो राहुः ।
यः सकललघिमकारणम् उदरं न बिभर्ति दुष्पूरम् ॥
एकः स एव तेजस्वी सैहिकेयः सुरद्विषाम् ।
शिरोमात्रावशेषेण जीयन्ते येन शत्रवः ॥
एकः स एव परिपालयताज्जगन्ति गौरीगिरीशचरितानुकृतिं दधानः ।
आभाति यो दशनशून्यमुखैकदेश- देहार्धहारितवधूक इवैकदन्तः ॥
एकः सकलजनानां हृदयेषु कृतास्पदो मदः शत्रुः ।
येनाविष्टशरीरो न शृणोति न पश्यति स्तब्धः ॥
एकः सखा प्रियो भूय उपकारी गुणान्वितः ।
हन्तव्यः स्त्रीनिमित्तेन कष्टमापतितं मम ॥
एकः स व्यसनी पुमानचरमैर्निःश्वासवातैः समं हा मे सा दयितेति यस्य वदतः प्राणाः समं निर्गताः ।
अन्ये तु व्यसनं क्षिपन्ति पशवः कान्तावियोगोद्भवैश् चिन्ताग्लानिविषाददैन्यजनितैर्बाष्पैरनाहारिणः ॥
एकः सुधांशुर्न कथंचन स्यात् तृप्तिक्षमस्त्वन्नयनद्वयस्य ।
त्वल्लोचनासेचनकस्तदस्तु नलास्यशीतद्युतिसद्वितीयः ॥
एकः स्तनस्तुङ्गतरः परस्य वार्तामिव प्रष्टुमगान् मुखाग्रम् ।
यस्याः प्रियार्धस्थितिमुद्वहन्त्याः सा पातु वः पर्वतराजपुत्री ॥
एकः स्थितोऽन्तः प्राप्तोऽन्यः परस्याद्यैव दुर्ग्रहः ।
किं करोमीति जननीं पृच्छन्तीष्वपरासु च ॥
एकः स्वादु न भुञ्जीत एकश्चार्थान् न चिन्तयेत् ।
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥
एक एव खगो मानी वने वसति चातकः ।
पिपासितो वा म्रियते याचते वा पुरंदरम् ॥
एक एव खगो मानी सुखं जीवति चातकः ।
अर्थित्वं याति शक्रस्य न नीचमुपसर्पति ॥
एक एव चरेद् धर्मं नास्ति धर्मे सहायता ।
केवलं विधिमासाद्य सहायः किं करिष्यति ॥
एक एव दमे दोषो द्वितीयो नोपपद्यते ।
यदेनं क्षमया युक्तम् अशक्तं मन्यते जनः ॥
एतस्य तु महाप्राज्ञ दोषस्य सुमहान् गुणः ।
क्षमायां विपुला लोकाः सुलभा हि सहिष्णुना ॥
एक एव न भुञ्जीयाद् यदिच्छेच् शुभमात्मनः ।
द्वित्रिभिर्बन्धुभिः सार्धं भोजनं कारयेन् नरः ॥
एक एव पदार्थस्तु त्रिधा भवति वीक्षितः ।
कुणपं कमिनी मांसं योगिभिः कामिभिः श्वभिः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0