महासुभाषितसंग्रह · श्लोक 7412-7431
एकं सुते मृगारिणी बहून् सूते वृकी सुतान् ।
उत्तारः प्रलयं यान्ति नाद्यमानाः कथंचन ॥
एकं हन्यान् न वा हन्याद् इषुः क्षिप्तो धनुष्मता ।
प्राज्ञेन तु मतिः क्षिप्ता हन्याद् गर्भगतानपि ॥
एकं हन्यान् न वा हन्याद् इषुर्मुक्तो धनुष्मता ।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद् राष्ट्रं सराजकम् ॥
एकं हन्यान् न वा हन्याद् इषुर्मुक्तो धनुष्मता ।
सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रिनिश्चयः ॥
एकं हि चक्षुरमलं सहजो विवेको विद्वद्भिरेव सह संवसतिर्द्वितीयम् ।
एतद् द्वयं भुवि न यस्य स तत्त्वतोऽन्धस् तस्यापमार्गचलने वद कोऽपराधः ॥
एकः कर्णमहीपतिः प्रतिदिनं लक्षाधिका याचकाः कस्मै किं वितरिष्यतीति मनसा चिन्तां वृथा मा कृथाः ।
आस्ते किं प्रतियाचकं सुरतरुः प्रत्यम्बुजं किं रविश् चन्द्रः किं प्रतिकैरवं प्रतिलतागुल्मं किमम्भोधरः ॥
एकः कापुरुषो दीर्णो दारयेन् महतीं चमूम् ।
तं दीर्णमनु दीर्यन्ते योधाः शूरतमा अपि ॥
एकः कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया तेन त्वं दिवि भूतले च विदितो गोवर्द्धनोद्धारकः ।
त्वां त्रैलोक्यवहं वहामि कुचयोरग्रे सदा पुष्पवत् तत् किं केशव जल्पितेन बहुना पुण्यैर्यशो लभ्यते ॥
एकः क्षमावतं दोषो द्वितीयो नोपलभ्यते ।
यदेनं क्षमया युक्तम् अशक्तं मन्यते जनः ॥
सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम् ।
क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं क्षमा ॥
एकः खलोऽपि यदि नाम भवेत् सभायां व्यर्थीकरोति विदुषामखिलं प्रयासम् ।
एकापि पूर्णमुदरं मधुरैः पदार्थैर् आलोड्य रेचयति हन्त न मक्षिका किम् ॥
एकः पञ्चत्वमासाद्य जायते पुनरष्टधा ।
अहो वाणिज्यसंपत्तिः काशीपुरनिवासिनाम् ॥
एकः पथा न गन्तव्यं न सुप्तिं बाह्यमन्दिरे ।
जनवाक्यं न कर्तव्यं स्त्रीणामालोचनं विना ॥
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः ।
भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥
एकः पालयते लोकम् एकः पालयते कुलम् ।
मज्जत्येको हि निरय एकः स्वर्गे महीयते ॥
एकः पुत्रो वरं विद्वान् बहुभिर्निर्गुणैस्तु किम् ।
एकस्तारयते वंशम् अन्ये संतापकारकाः ॥
एकः प्रजायते जन्तुर् एक एव प्रलीयते ।
एकोऽनुभुङ्क्ते सुकृतम् एक एव च दुष्कृतम् ॥
एकः प्रयात्युपरमं द्रविणं तदीयं हृत्वापरः प्रसभमुद्वहति प्रमोदम् ।
नो वेत्ति तत् स्वनिधने परकोशगामि धिग् वासनामसममोहकृतान्धकाराम् ॥
एकः शतं योधयति प्राकारस्थो धनुर्धरः ।
शतं दशसहस्राणि तस्माद् दुर्गं विधीयते ॥
एकः शत्रुर्न द्वितीयोऽस्ति शत्रुर् अज्ञानतुल्यः पुरुषस्य राजन् ।
येनावृतः कुरुते संप्रयुक्तो घोराणि कर्माणि सुदारुणानि ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0