भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7392-7411

7392

एकं चित्रमतीव दृष्टमिह यन्नालोकितं न श्रुतं किं कस्मै कथयामि कस्य मनसि स्याद् वा मम प्रत्ययः ।
एकस्मिन् कनकस्य दाम्नि सरसीमैलिन्दमत्तद्विप- ज्योत्स्नाचन्द्रचकोरचक्रचमरीवालाश् चमत्कुर्वते ॥

7393

एकं जीवनमूलं चञ्चलमपि तापयन्तमपि सततम् ।
अन्तर्वहति वराकी सा त्वां नासेव निःश्वासम् ॥

7394

एकं दन्तच्छदस्य स्फुरति जपवशादर्धमन्यत् प्रकोपाद् एकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस् तमेव ।
एकं ध्यानान्निमीलत्यपरमविषहं वीक्षितुं चक्षुरित्थं तुल्यानिच्छापि वामा तनुरवतु स वो यस्य संध्यावसाने ॥

7395

एकं दृष्ट्वा शतं दृष्ट्वा दृष्ट्वा पञ्चशतान्यपि ।
अतिलोभो न कर्तव्यश् चक्रं भ्रमति मस्तके ॥
एकं द्विजं च स्पृहणीयवाचं मत्तद्विरेफं च मधुः पुपोष ।
सतो गुणानप्यसतोऽपि दोषान् जात्या विहीनो न विवेक्तुमीष्टे ॥

7396

एकं धाम शमीषु लीनमपरं सूर्योपलज्योतिषां व्याजादद्रिषु गूढमन्यदुदधौ संगुप्तमौर्वायते ।
त्वत्तेजस्तपनांशुमांसलसमुत्तापेन दुर्गं भयाद् वार्क्षं पार्वतमौदकं यदि ययुस्तेजांसि किं पार्थिवाः ॥

7397

एकं ध्याननिमीलनान्मुकुलितप्रायं द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनभरे शृङ्गारभावालसम् ।
अन्यद् दूरविकृष्टचापमदनक्रोधानलोद्दीपितं शंभोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥

7398

एकं नाम जडात्मकस्य मुषितं लावण्यमिन्दोस् तया नेत्राभ्यामसितोत्पलस्य च रुचिः प्रायेण तन्नो मृषा ।
नो जानाति हृतामसौ पदगतिं मत्तो वराकः करी तन्वङ्ग्या विदतोऽपि यन्मम हृतं चेतस् तदत्यद्भुतम् ॥

7399

एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच् श्रयते मदः स च मदालस्येन निर्विद्यते ।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणानभिद्रुह्यति ॥

7400

एकं महिषशिरःस्थितम् अपरं सानन्दसुरगणप्रणतम् ।
गिरिदुहितुः पदयुगलं शोणितमणिरागरञ्जितं जयति ॥

7401

एकं मित्रं भजते मासेनेन्दुः स्वयं क्षयं गच्छन् ।
मित्रशतानि भजंस्त्वं प्रतिक्षणं वृद्धिमुपयासि ॥

7402

एकं मित्रं भूपतिर्वा यतिर्वा एका भार्या सुन्दरी वा दरी वा ।
एकं शास्त्रं वेदमध्यात्मकं वा एको देवः केशवो वा जिनो वा ॥

7403

एकं लिङ्गं प्रमदा- हृदयं विदधाति जर्जरं सहसा ।
तेषां षट्कं येषां अन्तर्गूढं न ते कथं पशवः ॥

7404

एकं वदति मनो मम यामि न यामीति हृदयमपरं मे ।
हृदयद्वयमुचितं तव सुन्दरि हृतकान्तचित्तायाः ॥

7405

एकं वस्तु द्विधा कर्तुं बहवः सन्ति धन्विनः ।
धन्वी स मार एवैको द्वयोरैक्यं करोति यः ॥

7406

एकं वस्तु यदस्ति विश्वजनतानन्दप्रमोदात्मकं सत्यं तत्त्वमसीति वाक्यमखिलं त्वय्येव विश्राम्यति ।
त्वामाकर्ण्य न किंचिदन्यदवनीशृङ्गार भो मन्यते त्वय्याप्ते जनकादिकीर्तिजनके किं ज्ञानमीमांसया ॥

7407

एकं वा कुपितप्रियाप्रणयिनीं कृत्वा मनोनिर्वृतिं तिष्ठामो निजचारुपीवरकुचक्रीडारसास्वादने ।
अन्यद् वा सुरसिन्धुसैकततटीदर्भाष्टकस्रस्तर- स्थाने ब्रह्मपदं समाहितधियो ध्यायन्त एवास्महे ॥

7408

एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते ।
सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविस्रवः ॥

7409

एकं वै सेवते नित्यम् अन्यं चेतसि रोचते ।
पुरुषाणामलाभेन नारी चैव पतिव्रता ॥

7410

एकं संदिग्धयोस्तावद् भावि तत्रेष्टजन्मनि ।
हेतुमाहुः स्वमन्त्रादीन् असङ्गानन्यथा विटाः ॥

7411

एकं सागरतीरनीरनिकरस्फाराञ्जलिक्षालितैः पुष्पैरच्युतपूजनं निजकरव्यापारसंपादितैः ।
नो चेन् मञ्जुलमालतीदललसत्खट्वार्चिते मन्दिरे कान्तातुङ्गनितम्बबिम्बसुरतक्रीडारसैः स्थीयते ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc