महासुभाषितसंग्रह · श्लोक 7232-7251
उरोजाताश्च कीराश्च तुरुष्कारट्टजाश्च ये ।
टक्कजाः सैन्धवा मध्याः स्थलजातास् तथा हयाः ॥
उरोभावोत्सेदं भवदपि विलासैरभिनवैर् मृगाक्ष्यास् तारुण्यं त्रिभुवनमिदं व्याकुलयति ।
स्तनाभोगस्फीतं यदि किल भवेत् का खलु कथा भवित्री किं चान्यद् विजितमखिलं पुष्पधनुषा ॥
उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयस्कृतेन किम् ।
त्रपासरिद्दुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ॥
उरोभुवि न तुङ्गिमा न च गतागते चङ्गिमा न वा वचसि वक्रिमा तरलिमा न तादृग् भ्रुवोः ।
तथापि हरिणीदृशो वपुषि कापि कान्तिच्छटा पटावृतमहामणिद्युतिरिवान्तरा लक्ष्यते ॥
उरो मासद्वये जाते त्रिभिर्मासैस् तथोदरम् ।
चतुर्मासैर्नितम्बं च हस्तपादाविव स्थितः ॥
उरोरुहादुद्गमितैः पयोभिर् आपूर्य केल्या निजमास्यगर्भम् ।
फूत्कृत्य मातुर्वदने हसन्तं तनूभवं पश्यति कोऽपि धन्यः ॥
उरोरुहाम्भोरुहदर्शनाय विमुञ्चतः कञ्चुकबन्धनानि ।
आनन्दनीराकुललोचनस्य प्रियस्य जातो विफलः प्रयासः ॥
उरो विशालं शस्तं च कक्षे दीर्घोन्नते शुभे ।
ऊरू वृत्तौ समौ बाहू गूढं जानु प्रशस्यते ॥
उर्वशी यदि रूपेण रम्भा यदि तिलोत्तमा ।
गोपाली मेनका चैव वर्जनीयाः परस्त्रियः ॥
उर्वीं गुर्वीं वहति सततं नृत्यतो भूतभर्तुर् भूत्वा हारो भवति शयनं किं च विश्वंभरस्य ।
एतत् कर्म त्रिजगति परं शेषनागैकशक्यं भेकानन्ये विपुलवपुषो भोगिनो भक्षयन्तु ॥
उर्वीं मौर्वीकिणभृति भवद्दोष्णि बिभ्रत्यशेषां शान्तक्लान्तिः किमपि कुरुते नर्मणा कर्म कूर्मः ।
कृत्वा वेलापुलिनलवलीपल्लवग्रासगोष्ठीं दिङ्मातङ्गाः सममथ सरिन्नाथपाथः पिबन्ति ॥
उर्वीङ्गुर्वीतिमुर्वीधर लघय शरैर्वैरिघैर्वीर्यगुर्वी स्वर्वीथीर्वीतदर्वीकरनिकरमदैर्वीरकुर्वीति गुर्वीः ।
खर्वी कुर्वीत कोऽन्यस्त्वमिव रिपुचमूर्वीजितैर्वैजयन्त्याः कुर्वन् दुर्वीक्ष्यमोजो निजमितरधनुर्वारणैर्वीतिहोत्रम् ॥
उर्वीपतेश्च स्फटिकाश्मनश्च शीलोज्झितस्त्रीहृदस्य चान्तः ।
असंनिधानात् सततस्थितीनाम् अन्योपरागः कुरुते प्रवेशम् ॥
उर्वीमुद्दामसस्यां जनयतु विसृजन् वासवो वृष्टिमिष्टाम् इष्टैस् त्रैविष्टपानां विदधतु विधिवत् प्रीणनं विप्रमुख्याः ।
आकल्पान्तं च भूयात् स्थिरसमुपचिता संगतिः सज्जनानां निःशेषं यान्तु शान्तिं पिशुनजनगिरो दुःसहा वज्रलेपाः ॥
उर्व्यसावत्र तर्वाली मर्वन्ते चार्ववस्थितिः ।
नात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक् ॥
उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया तेन त्वं दिवि भूतले च सततं गोवर्धनो गीयसे ।
त्वां त्रैलोक्यधरं वहामि कुचयोरग्रे न तद् गण्यते किं वा केशव भाषणेन बहुना पुण्यैर्यशो लभ्यते ॥
उलूखलं यथा मध्ये तैलयन्त्रे दृढं स्थितम् ।
सर्वाधारस् तथा मेरुर् मध्ये भूमण्डले स्थितम् ॥
उल्बेन संवृतस्तस्मिन्न् आर्द्रैश्च बहिरावृतः ।
आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ॥
उल्लङ्घ्य जङ्घामवलम्बमाना वेणी स्फुरत्यायतलोचनायाः ।
जित्वा जगच्चन्दनशाखिकायां न्यस्तासिवल्लीव मनोभवेन ॥
उल्लङ्घ्य सरिदरण्य- ग्रामगिरीन् कामकातरा यान्तु ।
अभिसारिण्य इवान्तस्- तृष्णां निगदन्ति न स्वयं सुधियः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0