भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7212-7231

7212

उमाकोमलहस्ताब्जसम्भावितललाटिकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥

7213

उमातनूजेन गदाधरेण प्रत्युत्सवं सेवितशंकरेण ।
गौरीशपुत्रेण रसज्ञहेतोर् विरच्यते कश्चन काव्यबन्धः ॥

7214

उमा तिलकताले तु द्रुतौ लघुगुरू स्मृतौ ।
चाराख्यस्त्वडतालः स्याद् विद्वद्भिस् तेन गीयते ॥

7215

उमामिमां समुद्वीक्ष्य शीतदीधितिशेखराम् ।
एषा तु भारती भानुं मत्तं स्वीकृत्य नृत्यति ॥

7216

उमारूपेण यूयं ते संयमस्तिमितं मनः ।
शंभोर्यतध्वमाक्रष्टुम् अयस्कान्तेन लोहवत् ॥

7217

उभे एव क्षमे वोढुम् उभयोर्बीजमाहितम् ।
सा वा शंभोस् तदीया वा मूर्तिर्जलमयी मम ॥

7218

उमा वधूर्भवान् दाता याचितार इमे वयम् ।
वरः शंभुरलं ह्येष त्वत्कुलोद्भूतये विधिः ॥

7219

उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ ।
तथा नृपः सा च सुतेन मागधी ननन्दतुस् तत्सदृशेन तत्समौ ॥

7220

उरः कृत्वावेध्यं मणिफलकगाढस्थितकुचं भुजावालम्ब्यैहीत्यमरवनिता व्योमगृहगाः ।
अपद्वारेणैव त्वरितपदमाभाष्य सहसा हतं हस्तालम्बैर्हरति सुरलोकं रणमुखात् ॥

7221

उरः पृष्ठं कटिश्चैव मुखतुल्यं समादिशेत् ।
कर्णौ सप्ताङ्गुलौ प्रोक्तौ तालुकं च षडङ्गुलम् ॥

7222

उरःस्थलं कोऽत्र विना पयोधरं बिभर्ति संबोधय मारुताशनम् ।
वदन्ति कं पत्तनसंभवं जनाः फलं च किं गोपबधूकुचोपमभ् ॥

7223

उरगी शिशवे बुभुक्षवे स्वाम् अदिशत् फूत्कृतिमाननानिलेन ।
मरुदागमवार्तयापि शून्ये समये जाग्रति संप्रवृद्ध एव ॥

7224

उरसि निपतितानां स्रस्तधम्मिल्लकानां मुकुलितनयनानां किंचिदुन्मीलितानाम् ।
उपरिसुरतखेदस्विन्नगण्डस्थलीनाम् अधरमधु वधूनां भाग्यवन्तः पिबन्ति ॥

7225

उरसि निहितस् तारो हारः कृता जघने घने कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ ।
प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमधिकत्रासोत्कम्पा दिशः समुदीक्षसे ॥

7226

उरसि फणिपतिः शिखी ललाटे शिरसि विधुः सुरवाहिनी जटायाम् ।
प्रियसखि कथयामि किं रहस्यं पुरमथनस्य रहोऽपि संसदेव ॥

7227

उरसि मुरभिदः का गाढमालिङ्गितास्ते सरसिजमकरन्दामोदिता नन्दने का ।
गिरिसमलघुवर्णैरर्णवाख्यातिसंख्यैर् गुरुभिरपि कृता का छन्दसां वृत्तिरस्ति ॥

7228

उरस्तव पयोधराङ्कितमिदं कुतो मे क्षमा ततो मयि विधीयतां वसु पुरा यदङ्गीकृतम् ।
इति प्रचलचेतसः प्रियतमस्य वारस्त्रिया क्वणत्कनककङ्कणं करतलात् समाकृष्यते ॥

7229

उरस्यस्य भ्रश्यत् कबरभरनिर्यत् सुमनसः पतन्ति स्वर्बालाः स्मरपरवशा दीनमनसः ।
सुरास्तं गायन्ति स्फुरिततनुगङ्गाधरमुखास् तवायं दृक्पातो यदुपरि कृपातो विलसति ॥

7230

उरुगुं द्युगुरुं युत्सु चुकुशुस्तुष्टुवुः पुरु ।
लुलुभुः पुपुषुर्मुत्सु मुमुहुर्नु मुहुर्मुहुः ॥

7231

उरोजवच् चक्रमनोज्ञरूपा केशावलीव भ्रमराजिता वा ।
संगीतवत् सत्पुटभेदहृद्या विद्येत नाभीसरसी मृगाक्ष्याः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc