महासुभाषितसंग्रह · श्लोक 7192-7211
उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद् गलितं न लक्षितम् ॥
उपोदकी समायाति तिन्तिडीमन्त्रिणा सह ।
पलायध्वं पलायध्वं रे रे शाकविडम्बकाः ॥
उपोष्यैकादशीः सर्वास् तथा कृष्णाश्चतुर्दशीः ।
ध्यात्वा हरिहरं देवं प्राप्नोति परमं पदम् ॥
उप्ता कीर्तिलता गुणैस्तव विभो सिक्ता च दानोदकैर् मेरुस्तम्भमवाप्य दिक्षु वितता प्राप्ता नभोमण्डलम् ।
धूपैस् त्वत्प्रतिपक्षलक्षवनितानिःश्वासजैर् धूपिता ऋक्षैः कोरकितेन्दुना कुसुमिता श्रीरामचन्द्र प्रभो ॥
उप्यन्ते विषवल्लिबीजविषमाः क्लेषाः प्रियाख्या नरैस् तेभ्यः स्नेहमया भवन्ति नचिराद् वज्राग्निगर्भाङ्कुराः ।
येभ्योऽमी शतशः कुकूलहुतभुग्दाहं दहन्तः शनैर् देहं दीप्रशिखासहस्रशिखरा रोहन्ति शोकद्रुमाः ॥
उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् ।
न कल्पते पुनः सूत्या उप्तं बीजं च नश्यति ॥
एवं कामाशयं चित्तं कामानामतिसेवया ।
विरज्यते यथा राजन् नाग्निवत् कामबिन्दुभिः ॥
उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम् ।
बलनिषूदनमर्थपतिं च तं श्रमनुदं मनुदण्डधरान्वयम् ॥
उभयी प्रकृतिः कामे सज्जेदिति मुनेर्मतम् ।
अपवर्गे तृतीयेति भणतः पाणिनेरपि ॥
उभयोरपि निस्तर्तुं शक्तः साधुस् तथापदम् ।
शत्रोः स्वस्य च निस्तीर्णौ गजग्राहौ यथापदम् ॥
उभयोर्न स्वभोगेच्छा परार्थं धनसंचयम् ।
कृपणोदारयोः पश्य तथापि महदन्तरम् ॥
उभयोर्मेलने प्रीतिर् यदि स्यान् मेलनं तदा ।
एकेन न हि हस्तेन जायते तालवादनम् ॥
उभाभ्यां गतिरेकैव गर्भस्थस्य ऋणस्य च ।
हसन्ती धारयेद् गर्भं रुदन्ती प्रतिमुञ्चति ॥
उभाभ्यांएव पक्षाभ्यां यथा खे पक्षिणां गतिः ।
तथा दैवेन युक्तं तु पौरुषं फलसाधकम् ॥
उभाभ्यांएव पक्षाभ्यां यथा खे पक्षिणं गतिः ।
तथैव ज्ञानकर्मभ्यां जायते परमं पदम् ॥
उभावेव चलौ यत्र लक्ष्यं चापि धनुर्धरः ।
तद् विज्ञेयं द्वयाचलं श्रमेणैव हि साध्यते ॥
उभौ यदि व्योम्नि पृथक्प्रवाहाव् आकाशगङ्गापयसः पतेताम् ।
तेनोपमीयेत तमालनीलम् आमुक्तमुक्तालतमस्य वक्षः ॥
उभौ रम्भास्तम्भावुपरि विपरीतौ कमलयोस् तदूर्ध्वं रत्नाश्मस्थलमथ दुरूहं किमपि तत् ।
ततः कुम्भौ पश्चाद् बिसकिसलये कन्दलमथो तदन्विन्दाविन्दीवरमधुकराः किं पुनरिदम् ॥
उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम् ।
असृजन् सुमहद् भूतम् अयं धर्मो भविष्यति ॥
उभौ श्वेतौ पक्षौ चरति गगनेऽवारितगतिः सदा मीनं भुङ्क्ते वसति सकलः स्थाणुशिरसि ।
बके चान्द्रः सर्वो गुणसमुदयः किंचिदधिको गुणाः स्थाने मान्या नरवर न तु स्थानरहिताः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0