महासुभाषितसंग्रह · श्लोक 7112-7131
उपरिजतरुजानि याजमानां कुशलतया परिरम्भलोलुपोऽन्यः ।
प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्याम् ॥
उपरि तमालतरोः सखि परिणतशरदिन्दुमण्डलः कोऽपि ।
तत्र च मुरलीखुरली कुलमर्यादामधो नयति ॥
उपरितलनिपातितेष्टकोऽयं शिरसि तनुर्विपुलश्च मध्यदेशे ।
असदृशजनसंप्रयोगभीरोर् हृदयमिव स्फुटितं महागृहस्य ॥
उपरि परिप्लवते मम बालेयं गृहिणि हंसमालेव ।
सरस इव नलिननाला त्वमाशयं प्राप्य वससि पुनः ॥
उपरि पीनपयोधरपातिता पटकुटीव मनोभवभूपतेः ।
विजयिनस्त्रिपुरारिजिगीषया तव विराजति भामिनि कञ्चुकी ॥
उपरि मिहिरः क्रूरः क्रूरास् तलेऽचलभूमयो वहति पवनः पांशूत्कर्षी कृशः सरसो रसः ।
अहह न जहत्येते प्राणांस्तदैव किमध्वगा यदि न भवतः पत्रच्छत्रं विशन्ति महीरुहः ॥
उपरि विधृतशारिप्रौढधन्विप्रसाराद् इह पयसि नदीनां गाहितुं नैव शक्ताः ।
तटनिकटनिरूढाः प्रस्थितौ यस्य चण्डाः सरलितकरदण्डाः कुम्भिनोऽम्भः पिबन्ति ॥
उपरिष्ठा यदा नारी रमते कामुकं नरम् ।
विपरीतं रतं ज्ञेयं सर्वकामिजनप्रियम् ॥
उपरिस्था भक्तिरन्तर् निर्मूला तारयेत् कथम् ।
नहि भारक्षमा दृष्टा वारां सान्द्रापि नीलिका ॥
उपरुन्धन्ति श्वासान् मुनयो नाश्नन्ति न पिबन्ति ।
स्तूयन्ते सुजनैः किं कण्ठे कुर्वन्ति कनकपाशमिमे ॥
उपर्यंशुमतः सिद्धाश् चरन्तो यस्य सानुषु ।
छत्राण्यातपसंत्रासाद् अवाचीनानि बिभ्रति ॥
उपर्यष्टौ शतान्याहुस् तथा भूयश्च सप्ततिः ।
गजानां तु परीमाणम् एतदेव विनिर्दिशेत् ॥
उपर्युपरि लोकस्य सर्वो गन्तुं समीहते ।
यतते च यथाशक्ति न च तद् वर्तते तथा ॥
उपलक्ष्य वर्णसंकर- मपगतगुणयोगमुज्झितस्थैर्यम् ।
पथिकाः समुद्विजन्ते कुदेशमिव वीक्ष्य शक्रधनुः ॥
उपलनिकषं सुवर्णं पुरुषो व्यवहारनिकष उद्दिष्टः ।
धूर्निकषो गोवृषभः स्त्रीणां तु न विद्यते निकषः ॥
उपलशकलमेतद् भेदकं गोमयानां वटुभिरुपहृतानां बर्हिषां स्तूपमेतत् ।
शरणमपि समिद्भिः शुष्यमाणाभिराभिर् विनमितपटलान्तं दृश्यते जीर्णकुड्यम् ॥
उपवनतरुनृत्याध्यापने लब्धवर्णो विरचितजलकेलिः पद्मिनीकामिनीभिः ।
प्रियसुहृदसमेषोराययौ योगियोग- स्थितिविदलनदक्षो दक्षिणो गन्धवाहः ॥
उपवननवमालिकाप्रसूनैः स्रजमपि या परिखिद्यते सृजन्ती ।
परिजनवनितोचितानि कर्माण्य् अपरिचितानि कथं विधास्यसि त्वम् ॥
उपवनपवनानुपातदक्षैर् अलिभिरलाभि यदङ्गनाजनस्य ।
परिमलविषयस् तदुन्नतानाम् अनुगमने खलु संपदोऽग्रतःस्थाः ॥
उपवनमिव वारिमध्यमग्नं विमलतया प्रतिबिंबितं दधाना ।
शशिकरनिकरेण पूरितेव क्वचिदुपनेयपयाः सुखाय वापी ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0