भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7092-7111

7092

उपप्लवोऽसौ किमु राजपुत्री ज्योत्स्नाद्रवोऽसावुत वज्रपातः ।
अलं तया सैव हि जीवितं मे धिङ् मामहं वा चरितार्थ एकः ॥

7093

उपप्लुतं पातुमदो मदोद्धतैस् त्वमेव विश्वंभर विश्वमीशिषे ।
ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः ॥

7094

उपबर्हमम्बुजदृशो निजं भुजं विरचय्य वक्त्रमपि गण्डमण्डले ।
निजसक्थि सक्थिनि निधाय सादरं स्वपिति स्तनार्पितकराम्बुजो युवा ॥

7095

उपभुक्तं यथा वासः स्रजो वा मृदिता यथा ।
एवं राज्यात् परिभ्रष्टः समर्थोऽपि निरर्थकः ॥

7096

उपभुक्तखदिरवीटक- जनिताधररागभङ्गभयात् ।
पितरि मृतेऽपि न वेश्या रोदिति हा तात तातेति ॥

7097

उपभुक्ताशेषवृषं धावन्तं मृगशिरेशभोगाय ।
कः खेचरकेसरिणं पश्यतु भास्वन्तमन्तकप्रतिमम् ॥

7098

उपभोक्तुं न जानाति कदापि कृपणो जनः ।
आकण्ठजलमग्नोऽपि कुक्कुरो लेढि जिह्वया ॥

7099

उपभोगकातराणां पुरुषाणामर्थसंचयपराणाम् ।
कन्यामणिरिव सदने तिष्ठत्यर्थः परस्यार्थे ॥

7100

उपभोगादृते तस्य नाश एव न विद्यते ।
प्राक्तनं बन्धनं कर्म कोऽन्यथा कर्तुमर्हति ॥

7101

उपभोगाय च धनं जीवितं येन रक्षितम् ।
न रक्षिता तु भूर्येन किं तस्य धनजीवितैः ॥

7102

उपभोगेन पुण्यानां प्राक्तनानां तथांहसाम् ।
कर्तव्यमिति नित्यानाम् अकामकरणात् तथा ॥

7103

उपभोगैरपि त्यक्तं नात्मानमवसादयेत् ।
चण्डालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम् ॥

7104

उपमा कालिदासस्य भारवेरर्थगौरवम् ।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥

7105

उपमानमभूद् विलासिनां करणं यत् तव कान्तिमत्तया ।
तदिदं गतमीदृशीम् दशां न विदीर्ये कठिनाः खलु स्त्रियः ॥

7106

उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः ।
सदृशमिष्टसमागमनिर्वृतिं वनितयानितया रजनीवधूः ॥

7107

उपरि कबरीबन्धग्रन्थेरथ ग्रथिताङ्गुली निजभुजलते तिर्यक्तन्व्या वितत्य विवृत्तया ।
विवृतविलसद्वामापाङ्गस्तनार्धकपोलया कुवलयदलस्रक्संदिग्धश्रियः प्रहिता दृशः ॥

7108

उपरि करवालधारा- काराः क्रूरा भुजङ्गमपुङ्गवात् ।
अन्तः साक्षाद्द्राक्षा- दीक्षागुरवो जयन्ति केऽपि जनाः ॥

7109

उपरिगतं हि सवर्णं हृत्वा करतो ददासि रन्तुं मे ।
धन्यः सरोजयुगलं त्वक्त्वा स्तनयुगमथास्पृशत् कृष्णः ॥

7110

उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः ।
क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व पातयतु ॥

7111

उपरि घनं घनरटितं दूरे दयिता किमेतदापतितम् ।
हिमवति दिव्यौषधयः शीर्षे सर्पः समाविष्टः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc