महासुभाषितसंग्रह · श्लोक 7072-7091
... ... ... ।
उपधित्रयशुद्धितोऽस्य किं कनकस्येव परं परीक्षणम् ॥
उपधिवसतिपिण्डान् गृह्णते नो विरुद्धांस् तनुवचनमनोभिः सर्वथा ये मुनीन्द्राः ।
व्रतसमितिसमेता ध्वस्तमोहप्रपञ्चा ददतु मम विमुक्तिं ते हतक्रोधयोधाः ॥
उपनतभये यो यो मार्गो हितार्थकरो भवेत् स स निपुणया बुद्ध्या सेव्यो महान् कृपणोऽपि वा ।
करिकरनिभौ ज्याघाता कौ महास्त्रविशारदौ वलयरचितौ स्त्रीवद् बाहू कृतौ न किरीटिना ॥
उपनतमतिपुण्यचयैः संपूर्णं रक्षितं च यत्नेन ।
संपदि विपदि त्राणं भवति निधानं च मित्रं च ॥
उपनदिपुलिने महापलाशः पवनसमुच्छलदेकपत्त्रपाणिः ।
दवदहनविनष्टजीवितानां सलिलमिवैष ददाति पादपानाम् ॥
उपनयति कपोले लोलकर्णप्रवाल- क्षणमुकुलनिवेशान्दोलनव्यापृतानाम् ।
परिमलितहरिद्रान् संप्रति द्वाविडीनां नवनखपदतिक्तानातपः स्वेदबिन्दून् ॥
उपनयनविवाहावुत्सवैकप्रधानौ कलिविभवत एषां कालभेदानभिज्ञाः ।
विजहति न कदाचिद् वेदपाठैकयोग्ये वयसि च यवनानीवाचनाभ्यासमेते ॥
उपनयति मसिं पत्त्रं चेदं लिखामि किमत्र वा त्वमिति विनयभ्रंशो यूयं त्विति प्रणयक्षतिः ।
सुहृदिति मृषा नाथेत्यूनं नृपेति तटस्थता कथमिति ततः संदेष्टव्यो मया यदुनन्दनः ॥
उपनिषदः परिपीता गीतापि न हन्त मतिपथं नीता ।
तदपि न हा विधुवदना मानससदनाद् बहिर्याति ॥
उपनिहितहलीषासार्गलद्वारमारात् परिचकितपुरन्ध्रीसारिताभ्यर्णभाण्डम् ।
पवनरयतिरश्चीर्वारिधाराः प्रतीच्छन् विशति वलितशृ गः पामरागारमुक्षा ॥
उपनीतनीतिनौकः संसारविकारवारिवन्यासु ।
सत्पुरुषकर्णधारस् तारयति जनान् बहूनेकः ॥
उपनीय कलमकुडवं कथयति सभयश्चिकित्सके हलिकः ।
शोणं सोमार्धनिभं वधूस्तने व्याधिमुपजातम् ॥
उपनीय प्रियमसमय- विदं च मे दग्धमानमपनीय ।
नर्मोपक्रम एव क्षणदे दूतीव चलितासि ॥
उपनीय यन्नितम्बे भुजंगमुच्चैरलम्बि विबुधैः श्रीः ।
एकः स मन्दरगिरिः सखि गरिमाणं समुद्वहतु ॥
उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलिताम् ।
रभसोत्थितामुपगतः सहसा परिरभ्य कश्चन वधूमरुधत् ॥
उपपत्तिभिरम्लाना नोपदेशैः कदर्थिताः ।
स्वसंवेदनसंवेद्यसाराः सहृदयोक्तयः ॥
उपपन्नं ननु शिवं सप्तस्वङ्गेषुयस्य मे ।
दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥
उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस् तावद् भवद्भिरिहेक्ष्यताम् ।
इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ॥
उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् ।
योगं च रक्षसाम् श्रेष्ठ तावुभौ च नयानयौ ॥
उपप्राकाराग्रं प्रहिणु नयने तर्कय मनाग् अनाकाशे कोऽयं गलितहरिणः शीतकिरणः ।
सुधाबद्धग्रासैरुपवनचकोरैरनुसृतां किरञ् ज्योत्स्नामच्छां नवलवलपाकप्रणयिनीम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0