भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6952-6971

6952

उन्निद्रप्रियकमनोरमं रमण्याः संरेजे सरसि वपुः प्रकाशमेव ।
युक्तानां विमलतया तिरस्क्रियायै नाक्रामन्नपि हि भवत्यलं जलौघः ॥

6953

उन्निद्रेण मयाद्य चिन्तितमभूद्यत्रावतारा हरेर् आख्याता दश कीर्तितोऽसि न कथं तत्र त्वमेकादशः ।
त्विच्चारित्रमगोचरं कविगिरां जानन्नपि क्ष्मापते न प्रस्तौमि भयेन भारतकवेः कस्तादृशं वक्ष्यति ॥

6954

उन्नीतो भवभूतिना प्रतिदिनं बाणे गते यः पुरा यश्चीर्णः कमलायुधेन सुचिरं येनागमत् केशटः ।
यः श्रीवाक्पतिराजपादरजसां संपर्कपूतश्चिरं दिष्ट्या श्लाघ्यगुणस्य कस्यचिदसौ मार्गः समुन्मीलति ॥

6955

उन्मग्नचञ्चलवनानि वनापगानाम् आश्यानसैकततर गपरंपराणि ।
निम्नावशिष्टसलिलानि मनो हरन्ति रोधांसि हंसपदमुद्रितकर्दमानि ॥

6956

उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः ।
गाण्डीवी कनकशिलानिभं भुजाभ्याम् आजघ्ने विषमविलोचनस्य वक्षः ॥

6957

उन्मत्त कण्टकिफलप्रतियोगिबुद्ध्या वैरं वृथैव कुरुषे पनसेन सार्धम् ।
सन्तो हसन्ति न भजन्ति भजन्ति चेत् त्वां भ्रान्ता भवन्ति सहसा न पुनर्भजन्ति ॥

6958

उन्मत्त धूर्त तरुणेन्दुनिवासयोग्ये स्थाने पिशाचपतिना विनिवेशितोऽसि ।
किं कैरवाणि विकसन्ति तमः प्रयाति चन्द्रोपलो द्रवति वार्धिरुपैति वृद्धिम् ॥

6959

उन्मत्तप्रेमसंरम्भाद् आरभन्ते यद गनाः ।
तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ॥

6960

उन्मत्तमासाद्य हरः स्मरश्च द्वावप्यसीमां मुदमुद्वहेते ।
पूर्वं परस्पर्धितया प्रसूनं नूनं द्वितीयो विरहाधिदूनम् ॥

6961

उन्मत्तानां च या गाथाः शिशूनां यच्च भाषितम् ।
स्त्रियो यच्च प्रभाषन्ते तस्य नास्ति व्यतिक्रमः ॥

6962

उन्मत्तानां भुज गानां मद्यपानां च दन्तिनाम् ।
स्त्रीणां राजकुलानां च विश्वसन्ति गतायुषः ॥

6963

उन्मत्तानां भुज गानां शृ गिणां शस्त्रपाणिनाम् ।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥

6964

उन्मदतया कयाचित् कदाचिदपथप्रवृत्तमपि पुरुषम् ।
सद्यः सुहृदुपदेशः सृणिरिव करिणं निवर्त्तयति ॥

6965

उन्मादगद्गदगिरो मदविह्वलाक्षा भ्रश्यन्निजप्रकृतयः कृतमस्मरन्तः ।
ऐश्वर्यसीधुरसपानविघूर्णमानाः के नाम न प्रतिपदं पुरुषाः स्खलन्ति ॥

6966

उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम् ।
दास्यमेके च गच्छन्ति परेषामर्थहेतुना ॥

6967

उन्मीलत्त्रिवलीतर गवलया प्रोत्तु गपीनस्तन- द्वन्द्वेनोद्यतचक्रवाकमिथुना वक्त्राम्बुजोद्भासिनी ।
कान्ताकारधरा नदीयमभितः क्रूराशया नेष्यते संसारार्णवमज्जनं यदि ततो दूरेण संत्यज्यताम् ॥

6968

उन्मीलत्पुलकं विलोलदलकं स्विद्यत्कपोलस्थलं भ्राम्यत्कुण्डलमाकुलाकुललसत्सीत्कारमुद्यत्करम् ।
किंचित्कुञ्चदुदञ्चितभ्रु विलसच्चोलं गलन्नीविकं स्याद् भूयोऽपि कदा मदाकुलदृशोर्बिम्बाधरास्वादनम् ॥

6969

उन्मीलत्पुलका कुरेण निविडाश्लेषे निमेषेण च क्रीडाकूतविलोकितेऽधरसुधापाने मुधा नर्मभिः ।
आनन्दाभिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभूत् प्रत्यूहो न तयोर्बभूव सुरतारम्भः प्रियंभावुकः ॥

6970

उन्मीलत्युरसा गुणालिनिचिता निर्दूषणा भूषणा सोल्लासोषसि लोलया सुमनसा सूक्त्या मनोहारिणी ।
शय्यामेत्य मृदुं मदीयकवितेवाम्भोजिनीनायिका कस्याप्युन्नतपूर्वपुण्यतपसः कण्ठं समालि गति ॥

6971

उन्मीलत्गुडपाकतन्तुलतया रज्ज्वा भ्रमीरर्जयन् दानान्तःश्रुतशर्कराचलमथः स्वेनामृतान्धाः स्मरः ।
नव्यामिक्षुरसोदधेर्यदि सुधामुत्थापयेत् सा भवज् जिह्वायाः कृतिमाह्वयेत परमां मत्कर्णयोः पारणाम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc