भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6932-6951

6932

उन्नतं पदमवाप्य यो लघुर् हेलयैव स पतेदिति ब्रुवन् ।
शैलशेखरगतो दृषत्कणश् चारुमारुतधुतः पतत्यधः ॥

6933

उन्नतं मानसं यस्य भाग्यं तस्य समुन्नतम् ।
नोन्नतं मानसं यस्य भाग्यं तस्यासमुन्नतम् ॥

6934

उन्नतं सदनमुच्चकैर्हयो माक्षिकं दधि सशर्करं पयः ।
यामिनी शशिकला सुकोमला लभ्यते कथमनर्चिते शिवे ॥

6935

उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः ।
पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणम् ॥

6936

उन्नतघनमध्यगतं निर्गुणमपि सुरधनुः शोभाम् ।
तेन महद्भिः साकं संवासः प्रार्थ्यते विज्ञैः ॥

6937

उन्नतदक्षिणपक्षा भक्ष्यमुखी विहितपार्थिवनिनादा ।
तारा तरुमधिगच्छति तद्यच्छति वाञ्छितादधिकम् ॥

6938

उन्नतानां सुवंशानां द्वैधं तावन्न जायते ।
यावत् कुठारधारेव योषिद् विशति नान्तरम् ॥

6939

उन्नतावनतभाववत्तया चन्द्रिका सतिमिरा गिरेरियम् ।
भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तदन्तिनः ॥

6940

उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः ।
नूनमात्मसदृशी प्रकल्पिता वेधसैव गुणदोषयोर् गतिः ॥

6941

उन्नतोऽपि विशदोऽपि कोमलोऽप्य् अद्य जाड्यहरणक्षमोऽपि च ।
अन्तरुज्ज्वलगुणोऽपि निर्धनस् तूलराशिरिव याति लाघवम् ॥

6942

उन्नत्यै नमति प्रभुं प्रभुगृहान् द्रष्टुं बहिस्तिष्ठति स्वद्रव्यव्ययमातनोति जडधीरागामिवित्ताशया ।
प्राणान् प्राणितुमेव मुञ्चति रणे क्लिश्नाति भोगेच्छया सर्वं तद् विपरीतमेव कुरुते तृष्णान्धदृक् सेवकः ॥

6943

उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या ।
हुं हु मुञ्च मम मेति च मन्दं जल्पितं जयति मानधनायाः ॥

6944

उन्नमितैकभ्रूलतम् आननमस्याः पदानि रचयन्त्याः ।
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥

6945

उन्नम्य दूरं मुहुरानमन्त्यः कान्ताः श्लथीभूतनितम्बजाड्याः ।
दोलाविलासेन जितश्रमत्वात् प्रकर्षमापुः पुरुषायितेषु ॥

6946

उन्नम्योन्नम्य तत्रैव दरिद्राणां मनोरथाः ।
पतन्ति हृदये व्यर्था विधवास्त्रीस्तना इव ॥

6947

उन्नम्रस्वपयोधरान्तरपयोधाराभिरानन्दि सः चञ्चद्बालकलापकान् कलगिरो मुग्धान् नवा घ्रिक्रमान् ।
त्वय्याधाय शिखण्डिनः शिव शिव प्रावृट् समाप्तिं गता तेषु त्वं तु शरच्छरारुचलिता जातासि धौतासिवत् ॥

6948

उन्नयति नाभिनिम्नान् मुक्तावलिपाशि रोमराजिनलम् ।
स्मरशबरः स्तनभूधर- निपतत्तरुनाक्षिपक्षिबन्धाय ॥

6949

उन्निद्रकन्दलदलान्तरलीयमान- गुञ्जन्मदान्धमधुपे नवमेघकाले ।
स्वप्नेऽपि यः प्रवसति प्रविहाय कान्तां तस्मै विषाणरहिताय नमो वृषाय ॥

6950

उन्निद्रकोकनदरेणुपिश गिता गा गायन्ति मञ्जु मधुपा गृहदीर्घिकासु ।
एतच्चकास्ति च रवेर्नवबन्धुजीव- पुष्पच्छदाभमुदयाचलचुम्बि बिम्बम् ॥

6951

उन्निद्रता मत्स्यसगन्धिता च प्रवालहानिः सपिपीलिकात्वम् ।
त्वग्भ्रंशनाद् वारिकृतादजीर्णात् तरोर्भवेत् तत्र चिकित्सनीयम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc