भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6850-6869

6850

उद्यज्ज्वालावलीभिर्वरमिह भुवनप्लोषके हव्यवाहे र गद्वीचौ प्रविष्टं जलनिधिपयसि ग्राहनक्राकुले वा ।
संग्रामे वारिरौद्रे विविधशरहतानेकयोधप्रधाने नो नारीसौख्यमध्ये भवशतजनितानन्तदुःखप्रवीणे ॥

6851

उद्यञ्छशी तरुणभास्करकान्तिचौरः स्पर्शेन शीतकरलालितया प्रदोषे ।
ज्ञातोऽर्धसुप्तनलिनीप्रियया सलज्जः पाण्डुत्वमाप रभसादिव मन्मथार्तः ॥

6852

उद्यतं शस्त्रमालोक्य विषादं याति विह्वलः ।
जीवनं प्रति संत्रास्तो नास्ति मृत्युसमं भयम् ॥

6853

उद्यतमेकहस्तचरणं द्वितीयकररेचितं सुविनतं वंशमृद गवाद्यमधुरं विचित्रकरणान्वितं बहु विधम् ।
मद्रकमेतदद्य सुभगैर् विदग्धगतिचेष्टितैः सुललितैर् नृत्यसि विभ्रमाकुलपदं विविक्तरसभावितं शशिमुखि ॥

6854

उद्यतस्य परं हन्तुं स्तब्धस्य विवरैषिणः ।
पतनं जायतेऽवश्यम् कृच्छ्रेण पुनरुन्नतिः ॥

6855

उद्यतस्य हि कामस्य प्रतिवादो न शस्यते ।
अपि निर्मुक्तस गस्य कामरक्तस्य किं पुनः ॥

6856

उद्यतासिर्नृपो यत्र तत्रैव धनरक्षणम् ।
कण्टकाकुलशाख्यायां लग्नं गृह्णाति नो फलम् ॥

6857

उद्यतेत यथाशक्ति न प्रसज्येत जातुचित् ।
साध्यानां सिद्ध्यसिद्धी यन् नियत्या नियते कृते ॥

6858

उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा ।
सदैवावध्यभावेन यथार्थस्य हि वाचकः ॥

6859

उद्यतेष्वपि शस्त्रेषु यथोक्तं शासनं वदेत् ।
रागापरागौ जानीयाद् दृष्टिवक्त्रविचेष्टितैः ॥

6860

उद्यत्करकरवालः शकतिमिरध्वंसने महानिपुणः ।
कल्किहरिर्वः पायाद् अपायतः कलिनिशान्तोत्थः ॥

6861

उद्यत्ताराधिनाथद्युतिहृतिपटवः सान्द्रसिन्दूरशोणाः श्रीमद्वेतण्डतुण्डप्रतिभटबटवः पद्मरागातिरागाः ।
दूरादानम्रकम्रच्छविरविकिरणश्रेणिकिर्मीरितान्ता गुञ्जापुञ्जानुरागद्विगुणितमहसः पान्तु कृष्णा घ्रिभासः ॥

6862

उद्यत्तारुण्यवारुण्यतिशयितमदोच्छ्वासचारुण्यती व प्रोदञ्चत्पञ्चबाणप्रचुररुचिरदृक्चञ्चरीकप्रपञ्चे ।
मन्दश्रीश्चन्द्रमास्ते सति सुतनु मुखे प्रोच्छ्वसत्तन्द्रमास्ते हीनं शोभाभिरम्भोरुहमपि रजनौ नैति रम्भोरु हासम् ॥

6863

उद्यत्सौरभगर्भनिर्भरमिलद्वाला कुरश्रीमृतो माकन्दानवलोक्य यः प्रतिदिशं सानन्दमुत्कूजितः ।
तानेवाद्य फलाशया परिरटल्लुण्ठाककाकावली- वाचालानुपलभ्य कोकिलयुवा जातः स वाचंयमः ॥

6864

उद्यद्गन्धप्रबन्धां परमसुखरसां कोकिलालापजल्पां पुष्पस्रक्सौकुमार्यां कुसुमशरवधूं रूपतो निर्जयन्तीम् ।
सौख्यं सर्वेन्द्रियाणामभिमतमभितः कुर्वतीं मानसेष्टां सत्सौभाग्याल्लभन्ते कृतसुकृतवशाः कामिनीं मर्त्यमुख्याः ॥

6865

उद्यद्दुःसहवित्ततानवतया बद्धावधाने मनस्य् उन्मार्गभ्रमणेऽवशस्य रभसाच्छ्वभ्रे परिभ्राम्यतः ।
अन्योऽपाहितकोशपृष्ठलुठनात् संदर्शिता गक्षतेर् जन्तोर्हन्त तनोति दुर्गतिशमं रम्यानुलोम्यो विधिः ॥

6866

उद्यद्बर्हिषि दर्दुरारवपुषि प्र्क्षीणपान्थायुषि श्च्योतद्विप्रुषि चन्द्ररु मुषि सखे हंसद्विषि प्रावृषि ।
मा मुञ्चोच्चकुचाग्रसन्ततपतद्बाष्पाकुलां बालिकां काले कालकरालनीलजलदव्यालुप्तभास्वत्त्विषि ॥

6867

उद्यद्बाला कुरश्रीर्दिशि दिशि दशनैरेभिराशागजानां रोहन्मूला सुगौरैरुरगपतिफणैरत्र पातालकुक्षौ ।
अस्मिन्नाकाशदेशे विकसितकुसुमा राशिभिस्तारकाणां नाथ त्वत्कीर्तिवल्ली फलति फलमिदं बिम्बमिन्दोः सुधार्द्रम् ॥

6868

उद्यद्विद्रुमकान्तिभिः किसलयैस्ताम्रां त्विषं बिभ्रतो भृ गालीविरुतैः कलैरविशदव्याहारलीलाभृतः ।
घूर्णन्तो मलयानिलाहतिचलैः शाखासमूहैर्मुहुर् भ्रान्तिं प्राप्य मधुप्रस गमधुना मत्ता इवामी द्रुमाः ॥

6869

उद्यद्विलोचनहुताशतडिद्विकाश- व्यासंगिनी सुरधुनीपयसा सगर्भा ।
भ्राजत्कलानिधिबलाकविशोभमाना पायाज्जटाघनघटा वृषभध्वजस्य ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc