महासुभाषितसंग्रह · श्लोक 6829-6849
उद्धूयेत नतभ्रूः पक्ष्मनिपातोद्भवैः पवनैः ।
इति निर्निमेषमस्या विरहवयस्या विलोकते वदनम् ॥
उद्धृतेष्वपि शस्त्रेषु दूतो वदति नान्यथा ।
ते वै यथोक्तवक्तारो न वध्याः पृथिवीभुजा ॥
उद्धृतेष्वपि शस्त्रेषु बन्धुवर्गवधेष्वपि ।
परुषाण्यपि जल्पन्तो वध्या दूता न भूभुजा ॥
उद्ध्रियमानेन्दुकरैर् उन्मज्जत्यन्धकारवारिनिधेः ।
क्वापि क्वापि विलग्न- च्छायाजम्बालधोरणी धरणी ॥
उद्बद्धेभ्यः सुदूरं घनरजनितमःपूरितेषु द्रुमेषु प्रोद्ग्रीवं पश्य पादद्वितयधृतभुवः श्रेणयः फेरवाणाम् ।
उल्कालोकैः स्फुरद्भिर्निजवदनगुहोत्सर्पिभिर्वीक्षितेभ्यश् च्योतत्सान्द्रं वसाम्भः क्वथितशववपुर्मण्डलेभ्यः पिबन्ति ॥
उद्बन्धनं दृढं गाढं सिंहोऽपि सहते यदि ।
कथं करटिनस्तर्हि नृपचिह्नानि बिभ्रति ॥
उद्भर्तृगामिनी पुरुष- भाषिणी कामचिह्नकृतवेशा ।
या नातिमांसयुक्ता सुराप्रिया सर्वतश्चपला ॥
उद्भाव्यमानो नलिनीपलाशैः समीरणस्तद्धृदयास्पदस्य ।
करोति दाहस्य निवारणं नु संधुक्षणं वा स्मरपावकस्य ॥
उद्भासिताखिलखलस्य विशृ खलस्य प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः ।
दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्य गोचरगतैः सुखमास्यते कैः ॥
उद्भासितेऽन्धतमसव्रज एति नाशं सूने प्रयान्त्युभयतोऽतिमरन्दमुग्धाः ।
सिंहा निहत्य रुधिरं बहु भक्षितं यद् दीपा कुरे मधुकराः करिणं वमन्ति ॥
उद्भिदुरं स्तनवदनं लोचनमलिगर्वमोचनं सुदृशः ।
दृष्ट्वा विगतविचारं धातारं निन्दति स्थविरः ॥
उद्भिन्नं किमिदं मनोभवनृपक्रीडारविन्दद्वयं सूते तत् कथमेकतः किल लसद्रोमावलीनालतः ।
चक्रद्वन्द्वमिदं क्षमं तदपि न स्थातुं मुखेन्दोः पुरो लावण्याम्बुनिमग्नयौवनगजस्यावैमि कुम्भद्वयम् ॥
उद्भिन्नयौवनमनोहररूपशोभा- संभाविताभिनवभोगमनोभवानाम् ।
एणीदृशां त्वदुपदेशविवर्जितानां मातर्भवन्ति नहि नाम समीहितार्थाः ॥
उद्भिन्नसात्त्विकविकारपरिप्लवानि सद्यस्तिरस्कृतमनोभववेदनानि ।
तन्वि त्वद गपरिरम्भसुखामृतानि प्रादुर्भवन्तु पुनरागतजीवितानि ॥
उद्भिन्नस्तनकुड्मलद्वयमुरः किंचित् कपोलस्थलीं लिम्पत्येव मधूककान्तिरधरः संमुग्धलक्ष्मीमयः ।
प्रत्यासीदति यौवने मृगदृशः किं चान्यदाविर्भवल् लावण्यामृतप कलेपलडहच्छायं वपुर्वर्तते ॥
उद्भिन्नस्तबकावतंससुभगाः प्रे खन्मरुन्नर्तिताः पुष्पोद्गीर्णपरागपांशुललसत्पत्रप्रकाण्ड त्विषः ।
गम्भीरक्रमपञ्चमोन्मदपिकध्वानोच्छलद्गीतयः प्रत्युज्जीवितमन्मथोत्सव इव क्रीडन्त्यमू भूरुहः ॥
उद्भिन्ना कलकण्ठकण्ठकुहरात् कर्णामृतस्यन्दिनी हृद्या यद्यपि मार्दवैकवसतिः सा काकलीहुंकृतिः ।
अन्यस्तन्वि तथापि ते त्रिणयनप्लुष्टस्य जीवार्पणः पञ्चेषोरुचितप्रपञ्चितरसः पाकाञ्चितः पञ्चमः ॥
उद्भेदं प्रतिपद्य पक्वबदरीभावं समेत्य क्रमात् पुंनागाकृतिमाप्य पूगपदवीमारुह्य बिल्वश्रियम् ।
लब्ध्वा तालफलोपमां च ललितामासाद्य भूयोऽधुना चञ्चत्काञ्चनकुम्भजृम्भणमिभावस्याः स्तनौ बिभ्रतः ॥
उद्भ्रान्तभेककुलकीर्णजले तडागे कोऽप्यस्ति नाम यदि नान्यगतिर्बकोटः ।
उत्फुल्लपद्मसुरभीणि सरांसि हित्वा न स्थातुमर्हति भवानिह राजहंस ॥
उद्यच्छता धुरमकापुरुषानुरूपां गन्तव्यमाजिनिधनेन पितुः पथा वा ।
आच्छिद्य वा स्वजननीजनलोचनेभ्यो नेयो मया रिपुवधूनयनानि बाष्पः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0