भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6809-6828

6809

उद्दामार्कमरीचिमूर्छितदृशां येनाध्वगानामयं वेलालम्बनजागरूकमनसामारम्भि कर्णज्वरः ।
क्लेशोच्छृ खलचेतसः प्रविशतो गण्डूषगर्भं मुनेर् लीनः कुत्र महार्णवस्य स पुनः कल्लोलकोलाहलः ॥

6810

उद्दामार्कांशुदीप्यद्दिनमणिमणिभिर्भस्मितान्त् ए समन्ताद् वायुव्याधूयमानज्वलनकणगणाकीर्णधूल् इप्रकीर्णे ।
कान्तारेऽस्मिन् नृपार्ते पथि पथिक भवे क्वापि पाथोदसेना- सूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र ग गाप्रवाहः ॥

6811

उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणाद् आयासं श्वसनोद्गमैरविरतैरातन्वतीमात्मनः ।
अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥

6812

उद्दिश्य निःसरन्तीं सखीमियं कपटकोपकुटिलभ्रूः ।
एवमवतंसमाक्षिपद् आहतदीपो यथा पतति ॥

6813

उद्दिष्टं वस्तु रागादौ किंचिदाधिक्यचिन्तितम् ।
तद्धातुमातुनिष्पन्नं प्रत्यन्तरमितीरितम् ॥

6814

उद्दीपितोऽपि कनकद्युतिमञ्जुलोऽपि स्नेहान्वितोऽपि सुदृशोऽपि सुवर्तितोऽपि ।
कान्ताकरान्तरकुचच्छविमण्डितोऽपि स्वाभाविकीं मलिनतां न जहाति दीपः ॥

6815

उद्दीप्ताग्निरसौ मुनिर्विजयते यस्योदरे जीर्यतः पाथोधेरवशिष्टमम्बु कथमप्युद्गीर्णमन्यार्णवम् ।
किं चास्माज्जठरानलादिव नवस्तत्कालवान्तिक्रमान् निर्यातः स पुनर्यमाय पयसामन्तर्गतो वाडवः ॥

6816

उद्देशोऽयं कनकसिकताकोमलैकान्तकान्ता- लीलावासीकृततरुतलः कामिभिर्नर्मदायाः ।
किंचैतस्मिन् सुरतसचिवास्तन्वि ते वान्ति वाता येषामग्रे सरति कलिताकण्ठकोपो मनोभूः ॥

6817

उद्देशोऽयं सरसकदलीश्रेणिशोभातिशायी कुञ्जोत्कर्षा कुरितरमणीविभ्रमो नर्मदायाः ।
किं चैतस्मिन् सुरतसुहृदस्तन्वि ते वान्ति वाता येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ॥

6818

उद्धता अलमुद्धर्तुम् औद्धत्यं दुरितात्मनाम् ।
क्षाराणामेव सामर्थ्यं मलनाशाय वाससाम् ॥

6819

उद्धतैरिव परस्परस गाद् ईरितान्युभयतः कुचकुम्भैः ।
योषितामतिमदेन जुघूर्णुर् विभ्रमातिशयपुंषि वपूंषि ॥

6820

उद्धतैर्निभृतमेकमनेकैश् छेदवन् मृगदृशामविरामैः ।
श्रूयते स्म मणितं कलकाञ्ची- नूपुरध्वनिभिरक्षतमेव ॥

6821

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुर् आत्मैव रिपुरात्मनः ॥

6822

उद्धर्तुं किल शैलकेलिरभसस्रस्तानि पाथोनिधेर् अन्तर्भूषणमौक्तिकानि दिविजस्त्रीभिः समुत्कण्ठया ।
गाढं तत्र निमज्जितेन रविणा बद्ध्वा दृढं रश्मिभिः प्रोत्क्षिप्तानि निपत्य तानि गगने तारापदेशं दधुः ॥

6823

उद्धर्तुं धरणीं निशाकररवी क्षेप्तुं मरुन्मार्गतो वातं स्तम्भयितुं पयोनिधिजलं पातुं गिरिं चूर्णितुम् ।
शक्ता यत्र विशन्ति मृत्युवदने कान्यस्य तत्र स्थितिर् यस्मिन् याति गिरिर्बिले सह वनैः कात्र व्यवस्था ह्यणोः ॥

6824

उद्धव माधवसविधे विनिवेद्यं सर्वथा भवता ।
अपि बहुमूल्यं भवनं यमुनाकुञ्जोपमं न स्यात् ॥

6825

उद्धूतकामानलतापतप्ता विहाय दोषाधिकजां तु चिन्ताम् ।
वनादिरागावयवप्रभेदं नरेति मत्वा वनिता रमन्ते ॥
उद्धूतपांसुपटलानुमितप्रबन्ध- धावत्खुराग्रचयचुम्बितभूमिभागाः ।
निर्मथ्यमानजलधिध्वनिघोरघोषम् एते रथं गगनसीम्नि वहन्ति वाहाः ॥

6826

उद्धूता धूमधारा विरहिजनमनोमाथिनो मन्मथाग्नेः कस्तूरीपत्रमाला तिमिरततिरहो दिक्पुरन्ध्रीमुखानाम् ।
निर्वाणा गारलेखा दिवसहुतभुजः संचरच्चञ्चरीक- श्रेणीयं भाति भास्वत्करलुलितनभःकन्दरेन्दीवरस्य ॥

6827

उद्धूय धूलीर्धवला रसातलाद् वात्या लगन्ती गगने व्यवर्तत ।
फूत्कारयन्त्येव भुवोद्धृता भुजा निदाघतापाकुलया तपात्यये ॥

6828

उद्धूयेत तनूलतेति नलिनीपत्रेण नो वीज्यते स्फोटः स्यादिति ना गकं मलयजक्षोदाम्भसा सिच्यते ।
स्यादस्यातिभरात् पराभव इति प्रायो न वा पल्लवा- रोपो वक्षसि तत् कथं कृशतनोराधिः समाधीयताम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc