महासुभाषितसंग्रह · श्लोक 6789-6808
उद्ग्रीवं खलु वीक्षितं वपुरिदं लज्जालसं यत्तदा गच्छन्त्याः सखिसंनिधौ किमपि यन्निर्वर्णकं भाषितम् ।
हे प्राणा विरहेण यात किमिदं नैर्घृण्यमालम्बितं तत् स्मृत्वा यदि युक्तमासितुमहो यूयं प्रमाणं मम ॥
उद्ग्रीवस्तिमितेक्षनस्तत इतः पश्यन् निलीय स्थितं पादोद्घृष्टिपरस्परप्रतिभयभ्रान्तं चलत्पक्षतिः ।
द्राक्त्रोटीपुरकोटिकुण्ठितरयं प्राक्तिर्यगूर्ध्वीकृतं गर्भान्तःप्रणयीचकार शफरं कासारचारी बकः ॥
उद्ग्रीवा विवृतारुणास्यकुहरास्तृष्णाचलत्तालवः पक्षासंभववेपमानतनवः प्रोड्डीय किंचिद् भुवः ।
अन्योन्याक्रमिणः शरारिशिशवः प्रातर्नदीरोधसि प्रालेयाम्बु पिबन्ति वीरणदलद्रोणीप्रणालस्रुतम् ॥
उद्घातयेद् दक्षिणमक्षि यक्षो हस्तेन मृद्नात्यथ दक्षिणेन ।
यस्याभिषेके स भवेत् स्वशक्त्या क्षितीशलक्षेक्षितपादपद्मः ॥
उद्घाटितनवद्वारे पञ्जरे विहगोऽनिलः ।
यत् तिष्ठति तदाश्चार्यं प्रयाणे विस्मयः कुतः ॥
उद्घाट्य चेद् दक्षिणमक्षि लीढे नाभिं स्वकीयामथवाधिरूढः ।
शेते गृहस्योपरि जागरूकस् तदाम्बुदोऽम्बु क्षिपति प्रभूतम् ॥
उद्घाट्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादपि यथारुचि गृह्यमाणः ।
यः प्रस्फुरत्यविरतं परिपूर्णरूपः श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥
उद्दण्डकोकनदकोमलकोशकान्तिः कान्ताकचग्रहणकण्टकितप्रकोष्ठः ।
मित्रद्विजातिरिपुवर्गविलासिनीनां संमानदानभयभोगकरः करस्ते ॥
उद्दण्डे भुजदण्डे तव कोदण्डे परिस्फुरति ।
अरिमण्डलरविमण्डल- रम्भाकुचमण्डलानि वेपन्ते ॥
उद्दामज्वलदंशुमालिकिरणव्यर्थातिरेकादिव च्छायाः संप्रति यान्ति पिण्डपदवीं मूलेषु भूमीरुहाम् ।
किं चैतद् दनुजाधिराजयुवतीवर्गावगाहोत्सरत्- क्षोभोड्डीनविहंगमण्डलकृतालीकातप् अत्रं सरः ॥
उद्दामदक्षिणमरुद्भरचालिताभिः शाखाभिराकुलतरं रुतवारणाय ।
मा मेति कोकिलकुलं वदतीव वृक्षः स्त्रैणं वियोगविधुरं कृपया विलोक्य ॥
उद्दामदन्तरुचिपल्लवितार्धचन्द्र- ज्योत्स्नानिपीततिमिरप्रसरोपरोधः ।
श्रेयांसि वो दिशतु ताण्डवितस्य शम्भोर् अम्भोधरावलिघनध्वनिरट्टहासः ॥
उद्दामदानद्विपवृन्दबृंहितैर् नितान्तमुत्तु गतुरंगहेषितैः ।
चलद्घनस्यन्दननेमिनिःस्वनैर् अभून् निरुच्छ्वासमिवाकुलं जगत् ॥
उद्दामदिग्द्विरदचञ्चलकर्णपूर- गण्डस्थलोच्चलदलिस्तबकाकृतीनि ।
मीलन्नभांसि मृगनाभिसमानभांसि दिक्कन्दरेषु विलसन्तितमां तमांसि ॥
उद्दामद्युमणिद्युतिव्यतिकरप्रक्रीडदर्कोपल- ज्वालाजालजटालजा गलतटीनिष्कूजकोयष्टयः ।
भौमोष्मप्लवमानसूरकिरणक्रूरप्रकाशा दृशोर् आयुःकर्म समापयन्ति धिगमूर्मध्येऽह्नि शून्या दिशः ॥
उद्दामद्रुमभ गभीमदशनो येनाभ्यघानि द्विपः सोऽयं वञ्चकचेष्टितैस् त्यजति किं पञ्चाननः काननम् ।
तत् प्रीतिर्न्न कृतिः समं न समरं क्षान्तिर्मनोग्लानये श्रेयानित्ययमस्य माननिधिनो यत् काननोपक्रमः ॥
उद्दामद्विरदावलूनबिसिनीसौरभ्यसंभावित- व्योमानः कलहंसकम्पितगरुत्पालीमरुन्मांसलाः ।
दूरोत्तानतर गल घनकलाज घालगर्वस्पृशः कर्पूरद्रवशीकरैरिव दिशो लिम्पन्ति पम्पानिलाः ॥
उद्दामभ्रमिवेगविस्तृतजटावल्लीप्रणालीपतत्- स्वर्ग गाजलदण्डिकावलयितं निर्माय तत् पञ्जरम् ।
संभ्राम्यद्भुजदण्डपक्षपटलद्वन्द्वेन हंसायितस् त्रैलोक्यव्ययनाटिकानयनटः स्वामी जगत् त्रायताम् ॥
उद्दामाम्बुदगर्हितान्धतमसप्रध्वस्तदि मण्डले काले यामिकजाग्रदुग्रसुभटव्याकीर्णकोलाहले ।
कर्णस्यासुहृदर्णवाम्बुवडवावह्नेर्यदन्तःपुराद् आयातासि तदम्बुजाक्षि कृतकं मन्ये भयं योषिताम् ॥
उद्दामाम्बुदवर्ध मानशिखिनीकेकातिरेकाकुले संप्राप्यं सलिलं स्थलेष्वपि सदा निस्तर्षवर्षागमे ।
भीष्मग्रीष्मभटे परस्परभयादालोच्यमानं मुहुर् दीनं मीनकुलं न पालयसि चेत् कासार का सारता ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0