महासुभाषितसंग्रह · श्लोक 6769-6788
उदीर्यमाणेऽपि च सान्त्ववादे मानापनोदो नहि राधिकायाः ।
मानोऽस्तु ते यद्यपराधिकः स्यां स्वप्नेऽपि नैवास्म्यपराधिकोऽहम् ॥
उदुम्बरद्रुमानष्टौ रोपयेत् स्वयमेव यः ।
प्रेरयेद् रोपणायापि चन्द्रलोके स मोदते ॥
उदुम्बरफलानीव ब्रह्माण्डान्यत्ति यः सदा ।
सर्वगर्वापहः कालस् तस्य के मशका वयम् ॥
उदेति घनमण्डली नटति नीलकण्ठावली तडिद् वलति सर्वतो वहति केतकीमारुतः ।
तथापि यदि नागतः स सखि तत्र मन्येऽधुना दधाति मकरध्वजस् त्रुटितशिञ्जिनीकं धनुः ॥
उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक् तदनन्तरं पयः ।
निमित्तनैमित्तिकयोरयं क्रमस् तव प्रसादस्य पुरस्तु संपदः ॥
उदेति यस्यां न निशाकरो रिपुस् तिथिर्नु का पुण्यवतीभिराप्यते ।
इतीव दुष्ट्या परिदेविते मुहुः कुहूकुहूरित्यलमाह कोकिलः ॥
उदेति सविता ताम्रस् ताम्र एवास्तमेति च ।
संपत्तौ च विपत्तौ च महतामेकरूपता ॥
उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि ।
जिगीषुरेको दिनकृद् आदित्येष्विव कल्पते ॥
उदेष्यत्पीयूषद्युतिरुचिकणार्द्राः शशिमणि- स्थलीनां पन्थानो घनचरणलाक्षालिपिभृतः ।
चकोरैरुड्डीनैर्झटिति कृतश काः प्रतिपदं पराञ्चः संचारानविनयवतीनां विवृणुते ॥
उद्गच्छत्यलिझ कृतिः स्मरधनुर्ज्यामञ्जुगुञ्जारवैर् निर्याता विषलिप्तभल्लिविषमाः कंकेल्लिफुल्लच्छटाः ।
रे संप्रत्यपवित्रमत्र पथिकाः सारम्भमुज्जृम्भते चूतो दूत इवान्तकस्य कलिकाजालस्फुरत्पल्लवः ॥
उद्गता मथनक्षोभात् फेनराजिः पयोदधेः ।
तारकावलिरित्यज्ञैर् इयं सखि निवेद्यते ॥
उद्गतेन्दुमविभिन्नतमिस्रां पश्यति स्म रजनीमवितृप्तः ।
व्यंशुकस्फुटमुखीमतिजिह्मां व्रीडया नववधूमिव लोकः ॥
उद्गमनोपनिवेशन- शयनपरावृत्तिवलनचलनेषु ।
अनिशं स मोहयति मां हृल्लग्नः श्वास इव दयितः ॥
उद्गर्जज्जलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धतः सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिनीः ।
उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथायं तथा प्रायः प्रे खदसंख्यश खवलया वेलेयमागच्छति ॥
उद्गर्जन् कुटिलस् तटाश्रयतरुप्रोन्मूलनोड्डामरो मा गर्वीः सरितः प्रवाह जलधिं प्रक्षोभयामीति भोः ।
स्वां सत्तां यदि वाञ्छसि भ्रम मरुष्वेवास्स्व तत्रैव वा दूरे वाडववह्निरत्र तु महासत्त्वैर्विशन् पीयते ॥
उद्गर्भहूणतरुणीरमणोपमर्द- भुग्नोन्नतिस्तननिवेशनिभं हिमांशोः ।
बिम्बं कठोरबिसकाण्डकडारगौरैर् विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ॥
उद्गृह्य वीटीग्रथनं नतभ्रूर् आच्छाद्य वक्षःस्थलमञ्चलेन ।
उत्तारयन्ती निविडं निचोलं मनोभवस्यापि मनो मिनोति ॥
उद्ग्राहश्चान्यधातुः स्याद् ध्रुवकश्चान्यधातुकः ।
मेलापकोऽन्यधातुः स्याद् आभोगश्चान्यधातुकः ।
चतुर्धातुकमेतद्धि रूपकं कीर्त्यते बुधैः ॥
उद्ग्राहस्याद्यखण्डे च न्यासः स ध्रुवको मतः ।
एवं हि षट्पदः प्रोक्त उत्तमो ध्रुवको बुधैः ॥
उद्ग्राहो ध्रुपदश्च स्याद् आभोगस्तदनन्तरम् ।
नियमस् त्रिविधो ज्ञेयो मण्ठकस्य विचक्षणैः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0