भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6749-6768

6749

उदारांस् त्वदृते नान्यान् प्रपश्याम्ययि पार्वति ।
श्रीरामभक्तिमाणिक्यम् अदेयमपि देहि मे ॥

6750

उदारैर्मन्दारै रचितशिखरं चन्द्रशिखरं समभ्यर्च्य प्रेम्णा विपुलपुलकालंकृततनुः ।
कदा गन्धाबन्धप्रमदमुदितोद्दाममधुप- स्फुरद्गुञ्जागर्भैर्विभुमभिभजेयं नुतिपदैः ॥

6751

उदासीनालीनामपि वचसि लीनातनुलसत् त्रपाधीना दीनालपनपदवीनायकधृता ।
कवीनामासीना हृदि कुमुदिनीनाथवदना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥

6752

उदासीनो देवो मदनमथनः सज्जनकुले कलिक्रीडासक्तः कृतपरिजनः प्राकृतजनः ।
इयं म्लेच्छाक्रान्ता त्रिदशतटिनी चोभयतटे कथं भ्रातः स्थाता कथय सुकृतिन् कुत्र विभयः ॥

6753

उदाहरणमाशीःषु प्रथमे ते मनस्विनाम् ।
शुष्केऽशनिरिवामर्षो यैररातिषु पात्यते ॥

6754

उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः ।
विदिते गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः ॥

6755

उदितं मण्डलमिन्दो रुदितं सद्यो वियोगिवर्गेण ।
मुदितं च सकलललना- चूडामणिशासनेन मदनेन ॥

6756

उदितः समयः श्रयतेऽस्तमयं कृतकं सकलं लभते विलयम् ।
सकलानि फलानि पतन्ति तरोः सकला जलधिं समुपैति नदी ॥

6757

उदितमुदितो हन्ति ध्वान्तं सहस्रकरः करैर् निहतनिहितं भूयो भूयस्तमः परिजृम्भते ।
विरमति तमो नेदं नायं निषीदति भानुमान् न खलु विकसद्वैरा धीराः कथंचिदुदासते ॥

6758

उदितवति द्विजराजे कस्य न हृदये मुदः पदं दधति ।
संकुचसि कमल यदयं हर हर वामो विधिर्भवतः ॥

6759

उदितवति परस्मिन् प्रत्यये शास्त्रयोनौ गतवति विलयं च प्राकृतेऽतिप्रपञ्चे ।
सपदि पदमुदीतं केवलः प्रत्ययो यस् तदियदिति च वक्तुं कः क्षमः पण्डितोऽपि ॥

6760

उदिते दृष्टिसुखे त्वयि शशिनीव भवन्ति चन्द्रकान्तानि ।
वदनान्यरिनारीणाम् अविरलजलबिन्दुवर्षीणि ॥

6761

उदितेऽपि तवावनीन्द्र तेजस् तपने स्फारगभस्तिभारभाजि ।
तव वैरिनृपायशस्तमांसि स्फुरदुज्जृम्भितमाचरन्ति चित्रम् ॥

6762

उदिते भास्करे लक्ष्यं पश्चिमायां निवेशयेत् ।
अपराह्णे च कर्तव्यं लक्ष्यं पूर्वदिगाश्रितम् ॥

6763

उदितैरन्यपुष्टानाम् आरुतैर्मे हतं मनः ।
उदितैरपि ते दूति मारुतैरपि दक्षिणैः ॥

6764

उदितोऽपि तुहिनगहने गगनप्रान्ते न दीप्यते तपनः ।
कठिनघृतपूरपूर्णे शरावशिरसि प्रदीप इव ॥

6765

उदितोरुसादमतिवेपथुमत् सुदृशोऽभिभर्तृ विधुरं त्रपया ।
वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि बाढमभूत् ॥

6766

उदीच्यां सस्यनिष्पत्तिर् याम्यां निष्पत्तिनाशनम् ।
गृहान्निर्गच्छतां वमे शुभं क्षेत्रे च दक्षिणम् ॥

6767

उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः ।
अनुक्तमप्यूहति पण्डितो जनः परे गितज्ञान फला हि बुद्धयः ॥

6768

उदीर्णमनसो योध वाहनानि च भारत ।
यस्यां भवन्ति सेनायां ध्रुवं तस्यां जयो भवेत् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc