महासुभाषितसंग्रह · श्लोक 6729-6748
उदयशिखरिशृ गप्रा गणेष्वेष रि गन् सकमलमुखहासं वीक्षितः पद्मिनीभिः ।
विततमृदुकराग्रः शब्दयन्त्या वयोभिः परिपतति दिवोऽ के हेलया बालसूर्यः ॥
उदयसिंह धराधिपतौ त्वयि स्फुरति किं रविणा विधुनापि वा ।
स्वमहसा हि विकाशयसे जगत् स्वयशसा च सुशीतलयस्यपि ॥
उदयस्थः सहस्रांशुर् दृष्टेरायाति गम्यताम् ।
अतिरिक्तं कदा कं वा ल घयन्ति न योषितः ॥
उदयाद्रेरुड्डीनो दिनं भ्रमित्वा पत गोऽयम् ।
अद्य प्रदोषसमये वडवाज्वलने जुहोति देहं स्वम् ॥
उदयास्तौ मूलाख्यौ उत्तरयाम्यौ ध्रुवनिवासनामानौ ।
नैरृतवायव्यौ च प्रयाणचरकाह्वयौ तेषाम् ॥
उदये सवितारक्तो रक्तश्चास्तमये तथा ।
संपत्तौ च विपत्तौ च महतामेकरूपता ॥
उदरं नतमध्यपृष्ठता- स्फुटद गुष्ठपदेन मुष्टिना ।
चतुर गुलमध्यनिर्गत- त्रिवलिभ्राजि कृतं दमस्वसुः ॥
उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किमु ।
धृततच्चतुर गुलीव यद् वलिभिर्भाति सहेमकाञ्चिभिः ॥
उदर एव धृतः किमुदन्वता न विषमो वडवानलवद् विधुः ।
विषवदुज्झितमप्यमुना न स स्मरहरः किममुं बुभुजे विभुः ॥
उदरदरीयं गहना यद्गतमखिलं विलीयते क्वचन ।
एका तत्र च भुजगी विलापयति कं न सा दुष्टा ॥
उदरद्वयभरणभयाद् अर्धा गाहितदारः ।
यदि नैवं तस्य सुतः कथमद्यापि कुमारः ॥
उदरम्भरिता लोके तवैव नान्यस्य दुःशका दृष्टा ।
उत्सृष्टपुरीषमपि स्वादूकुर्वन् वराह यद् भु क्षे ॥
उदरस्येदमणुत्वं सहजगुरुत्वं यदि नेदं हृदयस्य ।
स्वार्थे कथमलसत्वं कथमनुसत्वं हितकरणे मतिरस्य ॥
उदरार्थं न यत्किंचिन् निषेवेत कदाचन ।
न हंसो वर्णसाम्येऽपि बकवन् मत्स्यभुग् यतः ॥
उदर्कभूतिमिच्छद्भिः सद्भिः खलु न दृश्यते ।
चतुर्थीचन्द्रलेखेव परस्त्रीभालपट्टिका ॥
उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम् ।
मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवदनादिवाददे ॥
उदस्योच्चैः पुच्छं शिरसि निहितं जीर्णजटिले यदृच्छाव्यापन्नद्विपपिशितलेशाः कवलिताः ।
गुहागर्भे शून्ये सुचिरमुषितं जम्बुक सखे तदेतत् किम् कुर्मो यदसि न गतः सिंहसमताम् ॥
उदायुधो यावदहं तावदन्यैः किमायुधैः ।
यद्वा न सिद्धमस्त्रेण मम तत् केन सेत्स्यति ॥
उदारचरितात् त्यागी याचितः कृपणोऽधिकः ।
एको धनं ततः प्राणान् अन्यः प्राणांस् ततो धनम् ॥
उदारस्य तृणं वित्तं शूरस्य मरणं त्र्णम् ।
विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0