भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6709-6728

6709

उदयगिरितटस्थः पद्मिनीर्बोधयित्वा मृदुतरकिरणाग्रैस्ताः स्वयं चोपभुज्य ।
मलिनमधुपस गात् तासु संजातकोपः कृतरुधिरविरोचिर्भानुरस्तं प्रयातः ॥

6710

उदयगिरिशिरःस्थो निद्रया मूढमेतज् जगदगदमशेषं निर्मिमीतेऽनिशं यः ।
अमिततमितमिस्रोद्दामदारिद्र्यहारि- प्रसृमरकिरणौघः स्यान्मुदे वः स देवः ॥

6711

उदयगूढशशा कमरीचिभिस् तमसि दूरमितः प्रतिसारिते ।
अलकसंयमनादिव लोचने हरति मे हरिवाहनदि मुखम् ॥

6712

उदयतटान्तरितमियं प्राची सूचयति दि निशानाथम् ।
परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥

6713

उदयति कलमन्द्रैः कण्ठतालैरलीनां कुमुदमुकुलकेषु व्यञ्जयन्न गहारान् ।
मदमुखरचकोरीतोयकर्मान्तिकोऽयं तुहिनरुचिरधामा दक्षिणं लोकचक्षुः ॥

6714

उदयति तडिच्चित्रं मित्रं रतेः कमलद्वयी कुसुमितनवस्तम्भे रम्भे विधाय तनोरधः ।
तडिति वलति व्योम व्योमाश्रयं च गिरिद्वयं गिरिपरिसरे कम्बुः कम्बौ कलानिधिमण्डलम् ॥

6715

उदयति तपनेऽपि चेत् तमिस्रं वद कुत एव दिनक्षपाविवेकः ।
भगवति यदि कर्म दुर्निवार्यं तव चरणस्मरणेन साध्यते किम् ॥

6716

उदयति तरुणिमतरणी शैशवशशिनि प्रशान्तिमायाते ।
कुचचक्रवाकयुगलं तरुणितटिन्यां मिथो मिलति ॥

6717

उदयति नवनीतपिण्डपाण्डुः कुमुदवनान्यवघट्टयन् कराग्रैः ।
उदयगिरितटस्फुटाट्टहासो रजनिवधूमुखदर्पणः शशा कः ॥

6718

उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीतताम् याति वह्निः ।
विकसति यदि पद्मं पर्वताग्रे शिलायां न भवति पुनरुक्तं भाषितं सज्जनानाम् ॥

6719

उदयति विततोर्ध्वरश्मिरज्जा- वहिमरुचौ हिमधाम्नि याति चास्तम् ।
वहति गिरिरयं विलम्बिघण्टा- द्वयपरिवारितवारणेन्द्रलीलाम् ॥

6720

उदयति हि शशा कः कामिनीगण्डपाण्डुर् ग्रहगणपरिवारो राजमार्गप्रदीपः ।
तिमिरनिकरमध्ये रश्मयो यस्य गौराः स्रुतजल इव प के क्षीरधाराः पतन्ति ॥

6721

उदयति हृदि यस्य नैव लज्जा न च करुणा न च कोऽपि भीतिलेशः ।
बकुलमुकुलकोशकोमलां मां पुनरपि तस्य करे न पातयेथाः ॥

6722

उदयदुदयदीक्षणाय पत्युश् चपलदृशस्त्रपया निरुध्यमानम् ।
मन इव कृपणस्य दानकाले कति न ततान गतागतानि चक्षुः ॥

6723

उदयन्तु नाम मेघा भवतु निशा वर्षमविरतं पततु ।
गणयामि नैव सर्वं दयिताभिमुखेन हृदयेन ॥

6724

उदयन्नेष सविता पद्मेष्वर्पयति श्रियम् ।
विभावयितुमृद्धीनां फलं सुहृदनुग्रहम् ॥

6725

उदयप्रभसूरीन्द्रः प्रथितः प्रतिभोदयः ।
नानादिव्यप्रबन्धानां निर्मातायं विराजते ॥

6726

उदयप्रभसूरीन्द्रे प्रकाशयति भूतलम् ।
अपरे विबुधाः सर्वे निष्प्रभा इव सर्वतः ॥

6727

उदयमयते दि मालिन्यं निराकुरुतेतरां नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः ।
रचयतितरां स्वैराचारप्रवर्तनकर्तनं बत बत लसत्तेजःपुञ्जो विभाति विभाकरः ॥

6728

उदयमुदितदीप्तिर्याति यः संगतौ मे पतति न वरमिन्दुः सोऽपरामेष गत्वा ।
स्मितरुचिरिव सद्यः साभ्यसूयं प्रभेति स्फुरति विशदमेषा पूर्वकाष्ठा गनायाः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc