महासुभाषितसंग्रह · श्लोक 6689-6708
उदके सर्वबीजानि सर्वे देवा हुताशने ।
कलत्रे सर्वसौख्यानि सर्वदानानि ब्राह्मणे ॥
उदक्यापतितम्लेच्छचाण्डालाद्यभिभाषणे ।
मार्जारमूषकस्पर्शे विण्मूत्रोत्सर्गदर्शने ॥
उदग्रगोतावतगोत्रगौरवो महारजः पूतभटोत्कटच्छटः ।
स्वरूपसम्पत्तिपरास्तमन्मथः स लक्ष्मणो लक्षितलक्षणोज्ज्वलः ॥
उद मुखो वक्ति भषन्निशीथे द्विजोपपीडां मरणं गवां च ।
कुमारिकादूषणगर्भपात- वह्नीन् निशान्ते शिवदि मुखः स्यात् ॥
उदञ्चत्कावेरीलहरिषु परिष्व गर गे लुठन्तः कुहूकण्ठीकण्ठीरवरवलवत्रासितप्रोषितेभाः ।
अमी चैत्रे मैत्रावरुणि तरुणीकेलिक केल्लिमल्ली- चलद्वल्लीहल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः ॥
उदञ्चत्क्वणद्धुंकृतिक्वाणचञ्चन्- मणीमेखलादामदृप्यन्नितम्बा ।
कृपापा गमा गल्यपट्टाभिषेकैर् जगन्म गलं ज्वालपा नः सहायः ॥
उदञ्चद्घर्मांशुद्युतिपरिचयोन्निद्रबिसिनी- घनामोदाहूतभ्रमरभरझ कारमधुराम् ।
अपश्यत्कासारश्रियममृतवर्तिप्रणयिनीं सुखं जीवत्यन्धूदरविवरवर्ति प्लवकुलम् ॥
उदञ्चद्वक्षोजद्वयतटभरक्षोभितकटि स्फुरद्दृग्भ्यां मन्दीकृतविलसदिन्दीवरयुगम् ।
समुद्यद्भ्रूभ गं प्रविहितधनुर्भ गमनिशं वयस्तत् पद्माक्ष्याः कथमिव मनो न व्यथयतु ॥
उदञ्चन्तां वाचो मधुरिमधुरीणाः खलु न मे न चाप्युज्जृम्भन्तां नवभणितयो भ गिसुभगाः ।
क्षणं स्तोत्रव्याजादपि यदि भवन्तं हृदि नये तदात्मा पावित्र्यं नियतमियतैवाञ्चति मम ॥
उदञ्चन्मञ्जीरध्वनिमिलितकाञ्चीकलरवं मिलिन्दालीगुञ्जारवसुभगशिञ्जानवलयम् ।
गलन्मुक्तादामस्तनविनिहितस्वेदकणिकं रतं धन्यं मन्ये चलदलकमिन्दीवरदृशः ॥
उदञ्चय दृगञ्चलं चलतु चञ्चरीकोच्चयः प्रपञ्चय वचःसुधा श्रवणपालिमालि गतु ।
भ्रुवं नटय नागरि त्यजतु मन्मथः कार्मुकं मुखं च कुरु संमुखं व्रजतु लाघवं चन्द्रमाः ॥
उदञ्चय दृगञ्चलं रचय म गलं सर्वतश् चिराय समुपागतः पुरत एष ते वल्लभः ।
इति प्रियगिरा श्रुतीपुलकदन्तुरे कुर्वती प्रकशयति नो दृशौ प्रियसखी मृषाश कया ॥
उदधिरवधिरुर्व्यास्तं हनूमांस्ततार निरवधि गगनं चेत्त्वाण्डकोशे विलीनम् ।
इति परिमितिमन्तो भान्ति सर्वेऽपि भावाः स तु निरवधिरेकः सज्जनानां विवेकः ॥
उदधेरिव रत्नानि तेजांसीव विवस्वतः ।
स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते ॥
उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति ।
इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥
उदन्वानिव योऽक्षोभ्यो ज्ञायते संश्रितैः प्रभुः ।
का ह्रीस्ततोऽन्या सोऽन्यैर्यत् तेषामग्रेऽभिभूयते ॥
उदमज्जि कैटभजितः शयनाद् अपनिद्रपाण्डुरसरोजरुचा ।
प्रथमप्रबुद्धनदराजसुता- वदनेन्दुनेव तुहिनद्युतिना ॥
उदयं प्राप्य तीक्ष्णत्वाद् दुष्प्रेक्ष्यत्वमुपेयुषः ।
पादान्तिके वसुमतो न हि मानी निषीदति ॥
उदयं संहता एव संहता एव च क्षयम् ।
प्रयान्तः स्पृहणीयत्वं तन्त्रिणः कस्य नागमन् ॥
उदयगिरिगतायां प्राक्प्रभापाण्डुतायाम् अनुसरति निशीथे शृ गमस्ताचलस्य ।
जयति किमपि तेजः सांप्रतं व्योममध्ये सलिलमिव विभिन्नं जाह्नवं यामुनं च ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0