महासुभाषितसंग्रह · श्लोक 6669-6688
उत्साहातिशयं वत्स तव बाल्यं च पश्यतः ।
मम हर्षविषादाभ्याम् आक्रन्तं युगपन्मनः ॥
उत्साहिता सकलशीधुमदेन वक्तुम् अर्धोदिते नववधूरवलम्बितह्रीः ।
आलीजनेष्वनुपसंहृतवाक्यशेषा भर्तुश्चकार सविशेषकुतूहलत्वम् ॥
उत्साहोञ्झितमनसां राज्ञां परिमोषिणां जिगीषूणाम् ।
निरुपायोद्विग्नानां साधुश्चरके सदा शकुनः ॥
उत्साहोद्धतविभ्रमभ्रमरकव्यावृत्तहारान्तर- त्रुट्यत्सूत्रविमुक्तमौक्तिकभरः सक्तः स्तनोत्स गयोः ।
वक्त्रेन्दुच्युतसंततामृतकणाकारश्चकार क्षणं तस्या नृत्तरसश्रमोदितघनस्वेदाम्बुबिम्बश्रियम् ॥
उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् ।
उत्साहारम्भमात्रेण जायन्ते सर्वसंपदः ॥
उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् ।
सोत्साहस्य हि लोकेषु न किंचिदपि दुर्लभम् ॥
उत्साहो रिपुवन् मित्रम् आलस्यं मित्रवद् रिपुः ।
अमृतं विषवद् विद्याऽमृतवद् विषम गना ॥
उत्सिक्तः कुसुमासवैः कुमुदिनीं राजप्रियां पुष्पिणीम् आलि गन् निशि निर्भयं परिचयं कुर्वन् पुनः पल्लवैः ।
यावत् प कज्सौरभस्वमखिलं गृह्णंल्लघु प्रस्थितस् तावत् कल्य उपस्थिते मरुदयं विष्वग् भयाद् धावति ॥
उत्सिक्तस्य तपःपराक्रमनिधेरस्यागमादेकतः सत्स गप्रियता च वीररभसोन्मादश्च मां कर्षतः ।
वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमामीलयन्न् आनन्दी हरिचन्दनेन्दुशिशिरस्निग्धो रुणद्ध्यन्यतः ॥
उत्सीदेरन् प्रजाः सर्वा न कुर्युः कर्म चेद् यदि ।
तथा ह्येता न वर्धेरन् कर्म चेद् अफलं भवेद् ॥
उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् ।
कथमातपे गमिष्यसि परिबाधापेलवैर गैः ॥
उत्सृज्य गीतमसमाप्य विलासलास्यम् अ कादपास्य सहसा मणिवल्लकीं च ।
अत्युन्मनास् तदवलोकनकौतुकेन वातायनान्यधिरुरोह पुरन्ध्रिलोकः ॥
उत्सृज्य जलसर्वस्वं विमलाः सितमूर्तयः ।
तत्यजुश्चाम्बरं मेघा विग्रहं योगिनो यथा ॥
उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः ।
अपुष्पानफलान् वृक्षान् यथा तात पतत्रिणः ॥
उत्सृज्य साधुवृत्तं कुटिलधिया वञ्चितः परो येन ।
आत्मैव मूढमतिना कृतसुकृतो वञ्चितस्तेन ॥
उत्सृज्याम्बुधिजामुखाम्बुजसुखालोकव्रतं यश्चिराद् देवः सेवितवान् सरोजनयनो निद्रां समुद्राम्भसि ।
सोऽप्युत्तु गभुज गभोगशयनाज्जागर्ति यस्योत्सवे सोऽयं शारदशीतरोचिषि चमत्कारः कथं कथ्यताम् ॥
उत्सृष्टमम्बुजदृशामिव मानरत्नम् आदाय षट्पदतिलान् मधुवारिपूरान् ।
पुंस्कोकिलस्य कलकूजितकैतवेन संकल्पवाक्यमयमातनुते रसालः ॥
उदकं चाग्निसंसृष्टकुम्भस गाद्यथैव हि ।
उद्वेगोद्वर्तनादौष्ण्यं भजते तद्वदेव हि ॥
अ गस गात् तथा जीवो भजते प्राकृतान् गुणान् ।
अह काराभिभूतः सन् भिन्नस्तेभ्योऽपि सोऽव्ययः ॥
उदकानलचौरेभ्यो मूषकेभ्यो विशेषतः ।
कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् ॥
उदके सर्वबीजानि सर्वदेवा निजेश्वरे ।
कलत्रे सर्वसौख्यानि सर्वे धर्मा दयामयाः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0