भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6649-6668

6649

उत्सन्नच्छदिरुच्छ्वसद्वृति गलद्भित्ति स्खलन्मण्डलि भ्राम्यत्कुण्डलि हिण्डदाखु खुरलिप्रक्रीडिभेकावलि ।
पञ्चच्चर्मचटौघपक्षतिपुटप्रारब्धभांभांकृति श्रीमत्सेनकुलावतंस भवतः शत्रोरिवास्मद्गृहम् ॥

6650

उत्सन्नमापणममुं द्रक्ष्यामो निर्मलैः कदा नयनैः ।
चिन्तामणिकाचकणौ विपरीतगुणागुणौ यत्र ॥

6651

उत्सन्नो मधुरस्ति कोकिलरवैरुत्सन्नमस्त्येतदप्य् उत्सन्नं मलयानिलैरिदमपि प्रागेव जानीमहे ।
पान्थास्तुष्यथ तावतैव किमिति भ्रान्ता यदि प्राणिति स्तोकेनापि मनोभवो विगलतु प्राणेषु शुष्को ग्रहः ॥

6652

उत्सर गकलितोरुकटारी- भाजिरा उत भयंकरभालाः ।
सन्तु पायकगणा जय तैस्त्वं गामगोहरमिलाप इलावी ॥

6653

उत्सर्पद्धूमलेखात्विषि तमसि मनाग्विस्फुलि गायमानैर् उद्भेदैस्तारकाणां वियति परिगते पश्चिमाशामुपेता ।
खेदेनेवानतासु स्खलदलिरसनास्वब्जिनीप्रेयसीषु प्रायः संध्यातपाग्निं विशति दिनपतौ दह्यते वासरश्रीः ॥

6654

उत्सवादपि नीचानां कलहोऽपि सुखायते ।
कपर्दकार्धलाभेन कुशलो बहु मन्यते ॥

6655

उत्सवादुत्सवं यान्ति स्वर्गात् स्वर्गं सुखात् सुखम् ।
श्रद्धधानाश्च दान्ताश्च धनाढ्याः शुभकारिणः ॥

6656

उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥

6657

उत्सारणप्रियतया परिरुद्धसर्व- द्वारे गृहे निरनुरोधतया वसन्तः ।
संपल्लघूकृतधियोऽप्रतिघप्रवृत्तेर् धिग्जानते न रभसान्नियतेर् निपातम् ॥

6658

उत्सारितो हसितदीधितिभिः कपोलाद् एकावलीभिरवधूत इव स्तनेभ्यः ।
अ गेष्वलब्धपरिभोगसुखोऽन्धकारो गृह्णाति केशरचनासु रुषेव नारीः ॥

6659

उत्सार्य कुन्तलमपास्य दुकूलकूलम् उन्नाम्य बाहुलतिकामलसास्तरुण्यः ।
स्वेदाम्बुसिक्ततनवः स्पृहयन्ति यस्मै तस्मै नमः सुकृतिने मलयानिलाय ॥

6660

उत्साहः स्याद्रसे हास्ये ताले कन्दुकसंज्ञके ।
वंशाभिवृद्धिकृत्पादस् त्रयोदशमिताक्षरः ।
लघुद्वयं विरामान्तं ताले कन्दुकसंज्ञके ॥

6661

उत्साहकारकसखीवचनैर्विधाय भूषाविधिं कनकगौरतरा गकेषु ।
प्राणेश्वरस्य सदनाय कृतप्रयाणा मुग्धा तथापि हृदि कम्पभरं बिभर्ति ॥

6662

उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत ।
उपपन्नो नृपो यायाद् विपरीतमतोऽन्यथा ॥

6663

उत्साहवन्तः पुरुषा दुर्बला बलिनं रिपुम् ।
हनिष्यन्ति हि संयाता तथैते पञ्च कुञ्जरम् ॥

6664

उत्साहवन्तो हि नरा न लोके
सीदन्ति कर्मस्वतिदुष्करेषु ॥
... ...

6665

उत्साहशक्तियुतविक्रमधैर्यराशिर् यो वेत्ति गोष्पदमिवाल्पतरं समुद्रम् ।
वल्मीकशृ गसदृशं च सदा नगेन्द्रं लक्ष्मीः स्वयं तमुपयाति न दीनसत्त्वम् ॥

6666

उत्साहशक्तिहीनत्वाद् वृद्धो दीर्घामयस् तथा ।
स्वैरेव परिभूयेते द्वावप्येतावसंशयम् ॥

6667

उत्साहसंपन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम् ।
शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं वाञ्छति वासहेतोः ॥

6668

उत्साहस्य प्रभोर्मन्त्रस्यैवं शक्तित्रयं जगुः ।
आत्मनः सुहृदश्चैव तन्मित्रस्योदयास् त्रयः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc