महासुभाषितसंग्रह · श्लोक 6568-6588
उत्थाने सभ्यानाम् उत्तिष्ठति याति तेषु यातेषु ।
मतमन्तरापि राज्ञो विज्ञायाशीःप्रदो बहिरुपैति ॥
उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः ।
विस्तारितः कुञ्जरकर्णतालैर् नेत्रक्रमेणोपरुरोध सूर्यम् ॥
उत्थाप्य भुजगीं शक्तिं मूलवातैरधःस्थिताम् ।
सुषुम्नान्तर्गतां पञ्चचक्राणां भेदिनीं शिवाम् ॥
उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।
हुत्वाग्निं ब्राह्मणांश्चार्य प्रविशेच्च शुभां सभाम् ॥
उत्थायोत्थाय पापेष्वभिरमति मतिर्मन्दबुद्धेर्यदा ते नैवेद्वेगो न शान्तिर्न च भवति घृणा कुर्वतः कर्म निन्द्यम् ।
तत् किं नैव प्रभाते ज्वलदनलसमा रौरवी नाम रौद्री तीक्ष्णायःकीलचक्रक्रकचपटुरवा राजधानी यमस्य ॥
उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् ।
आयुषः खण्डमादाय रविरस्तं गमिष्यति ॥
उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् ।
दत्तं वा दापितं वापि वाक् सत्या वापि भाषिता ॥
उत्थायोत्थाय बोद्धव्यं महद्भयमुपस्थितम् ।
मरणव्याधिशोकानां किमद्य निपतिष्यति ॥
उत्थायोत्थाय लीयन्ते दरिद्राणां मनोरथाः ।
बालवैधव्यदग्धानां कुलस्त्रीणां कुचा इव ॥
उत्थायोन्नतवासयष्टिशिखरे विस्तारिताकुञ्चितं बिभ्रत्पादमुदस्तकेसरसटः किंचिद् विनिद्रेक्षणः ।
दूरादञ्चितकन्धरः शमवशाद् व्याधूय पक्षद्वयं मानम्लानिकरः कुर गकदृशां कोकूयते कुक्कुटः ॥
उत्थिता एव पूज्यन्ते जनाः कार्यार्थिभिर्नरैः ।
शत्रुवत् पतितं को नु वन्दते मानवं पुनः ॥
उत्थिताग्रचरणा पृथुस्तनी पुष्पजालमपचिन्वती तरौ ।
मध्यभञ्जनभयापदेशतो निस्त्रपा दयितकण्ठमग्रहीत् ॥
उत्थितो निशि कलानिधिर्भवेद् एतदीयमुखतुल्यताप्तये ।
प्रापितो मलिनभावमेतया लज्जया नभसि यात्यदृश्यताम् ॥
उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं बाष्पं कुरु स्थिरतया विरतानुबन्धम् ।
अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥
उत्पततोऽप्यन्तरिक्षं गच्छतोऽपि महीतलम् ।
धावतः पृथिवीं सर्वां नादत्तमुपतिष्ठति ॥
उत्पतन्ति यदाकाशे निपतन्ति महीतले ।
पक्षिणस् तदपि प्राप्त्या नादत्तमुपतिष्ठते ॥
उत्पतन्ती भ्रमन्ती सा नमन्ती नलिनेक्षना ।
शम्पाशतं वितन्वाना भ्रमरीव भ्रमं व्यधात् ॥
उत्पतन्त्वन्तरिक्षं वा पातालं प्रविशन्तु वा ।
चरन्तु वा दिशः सर्वा ह्यदत्तं नोपलभ्यते ॥
उत्पतेत् सरुजाद् देशाद् व्याधिदुर्भिक्षपीडितात् ।
अन्यत्र वस्तुं गच्छेद् वा वसेद् वा नित्यमानितः ॥
उत्पत्तिः पयसां निधेर्वपुरपि ख्यातं सुधामन्दिरं स्पर्धन्ते विशदा लताभसरला हारावलीमंशवः ।
कान्ता कैरविणी तव प्रियसखः शृ गारसारः स्मरो हं हो चन्द्र किमत्र तापजननं तापाय यन् मे भवान् ॥
उत्पत्तिपरिपूरितायाः किमस्याः पावनान्तरैः ।
तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः ॥
उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती ।
स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥
उत्पत्तिर्जमदग्नितः स भगवान् देवः पिनाकी गुरुः शौर्यं यत्तु न तद् गिरां पथि ननु व्यक्तं हि तत्कर्मभिः ।
त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः क्षत्त्रब्रह्मतपोनिधेर्भगवतः किं वा न लोकोत्तरम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0