भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6547-6567

6547

उत्तु गस्तनपर्वतैस्तनुरुहै रोमावलीभूरुहैः काञ्चीक कणनूपुरध्वनिपरैर्हारावलीवागुरैः ।
भ्रूचापेन कटाक्षविस्तरशरैः कन्दर्पदावानलैर् बाला खेलति पारधं निजगुणैः कामीमृगो बध्यते ॥

6548

उत्तु गस्तनभरतान्ततान्तमध्यं विश्लिष्यद्घनकचवान्तवान्तसूनम् ।
वक्राब्जभ्रमदलिभीतभीतनेत्रं मुग्धाक्षी मम धुरि मन्दमन्दमेति ॥

6549

उत्तु गस्तनभार एश तरले नेत्रे चले भ्रूलते रागान्धेषु तदोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् ।
सौभाग्याक्षरप क्तिरेव लिखिता पुष्पायुधेन स्वयं मध्यस्थापि करोति तापमधिकं रोमावली केन सा ॥

6550

उत्तु गस्तनमण्डलादवतरद्ग गेव हारावली रोमाली नवनालनीरदरुचिः सेयं कलिन्दात्मजा ।
जातं तीर्थमिदं सुपुण्यजनकं यत्रावयोः संगमश् चन्द्रो मज्जति लाञ्छनापहृदये नूनं नखांकच्छलात् ॥

6551

उत्तु गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणेर् अन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युति ।
लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुः पश्यन्ती मुदिता मुदेऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे ॥

6552

उत्तु गस्तनशैलदुस्तरमुरो निम्नातिनाभिस्थली भीमं देहवनं स्फुरद्भुजलतं रोमालिजालाकुलम् ।
व्याधः पञ्चशरः किरत्यतितरांस्तीक्ष्णान् कटाक्षाशुगांस् तन्मे ब्रूहि मनःकुर ग शरणं कं सांप्रतं यास्यसि ॥

6553

उत्तु गादनिलचलांशुकास्तटान्ताच् चेतोभिः सह भयदर्शिनां प्रियाणाम् ।
श्रोणीभिर्गुरुभिरतूर्णमुत्पतन्त्यस् तोयेषु द्रुततरम गना निपेतुः ॥

6554

उत्तु गे कृतसंश्रयस्य शिखरिण्युच्चावचग्रावणि न्यग्रोधस्य किम ग तस्य वचसा श्लाघासु पर्याप्यते ।
बन्दुर्वा स पुराकृतः किमथवा सत्कर्मणां संचयो मार्गे रूक्षविपत्रशाखिनि जनो यं प्राप्य विश्राम्यति ॥

6555

उत्तु गे विभवद्रुमस्य शिखरे भुक्त्वा फलं स्वेच्छया तस्मात् प्रस्खलितः पदाद्विधिवशाद् भ्रष्टो निरालम्बनः ।
पातालोदरभीषणे बहुविधक्लेशोरगाध्यासिते दौर्गत्यावटगर्भके निपतितश्चित्रं यदि प्राणिति ॥

6556

उत्तु गैस्तरुभिः किमेभिरफलैराकाशसंस्पर्शिभिर् धन्योऽसौ नितरामुलूपविटपो नद्यास्तटे तिष्ठति ।
एवं यः कृतबुद्धिरुत्थितजलव्यालोलवीचीवशान् मज्जन्तं जनमुद्धरामि यदि वा तेनैव मज्जाम्यहम् ॥

6558

उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु ।
भविष्यतीत्येव मनः कृत्वा सततमव्यथैः ॥

6559

उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम् ।
अफलं दृश्यते लोके सम्यगप्युपपादितम् ॥

6560

उत्थानं संयमो दाक्ष्यम् अप्रमादो धृतिः स्मृतिः ।
समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तत् ॥

6561

उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत ।
राजधर्मस्य यन् मूलं ... ... ... ॥

6562

उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति ।
उत्थानधीरं वाग्धीरा रमयन्त उपासते ॥

6563

उत्थानमभिजानन्ति सर्वभूतानि भारत ।
प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् ॥

6564

उत्थानयुक्तः सततं परेषामन्तरैषणे ।
आनृण्यमाप्नोति नरः परस्यात्मन एव च ॥

6565

उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः ।
धर्षणीयो रिपूणां स्याद् भुजंग इव निर्विषः ॥

6566

उत्थानेनामृतं लब्धम् उत्थानेनासुरा हताः ।
उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च ॥

6567

उत्थानेनैधयेत् सत्त्वम् इन्धनेनेव पावकम् ।
श्रियो हि सततोत्थायी दुर्बलोऽपि समश्नुते ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc