महासुभाषितसंग्रह · श्लोक 6527-6546
उत्तालालकभञ्जनानि कबरीपाशेषु शिक्षारसो दन्तानां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रहः ।
तिर्यग्लोचनचेष्टितानि वचसां छेकोक्तिसंक्रान्तयः स्त्रीणां म्लायति शैशवे प्रतिकलं कोऽप्येष केलिक्रमः ॥
उत्तिष्ठ क्षणमेकमुद्वह सखे दारिद्र्यभारं गुरुं श्रान्तस् तावदहं चिरान् मरणजं सेवे त्वदीयं सुखम् ।
इत्युक्तो धनवर्जितेन विदुषा गत्वा श्मशानं शवो दारिद्र्यान् मरणं वरं सुखमिति ज्ञात्वा स तूष्णीं स्थितः ॥
उत्तिष्ठति नमति वणिक् पृच्छति कुशलं ददाति च स्थानम् ।
निक्षेपपाणिमाप्तं दृष्ट्वा धर्म्यां कथां कुरुते ॥
उत्तिष्ठ दूति यामो यामो यातस् तथापि नायातः ।
यातः परमपि जीवेज् जीवितनाथो भवेत् तस्याः ॥
उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः ।
भूयस् तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालि ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥
उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता ।
समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥
उत्तिष्ठ यदि जीवन्तीं मामिच्छसि तमानय ।
अहं नेतुमशक्यापि सुदूरमिदमन्तरम् ॥
उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् ।
ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्रविणीं न सिंहम् ॥
उत्तिष्ठारात् तरौ मे तरुणिमम तरोः शक्तिरारोहण का साक्षादाख्यामि मुग्धे तरणिमिह रवेराख्यया का रतिर्मे ।
वार्तेयं नौप्रस गे कथमपि भविता नावयोः संगमार्था वार्तापीति स्मितास्यं जितगिरमजितं राधयाराधयामि ॥
उत्तिष्ठोत्तिष्ठ किं शेषे प्राप्ते परिभवे नवे ।
अद्य वै निर्भया ल कां प्रविष्टाः सूर्यरश्मयः ॥
उत्तीर्णभारलघुनाप्यलघूलपौघ- सौहित्यनिःसहतरेण तरोरधस्तात् ।
रोमन्थमन्थरचलद्गुरुसास्नमासां चक्रे निमीलदलसेक्षणमौक्षकेण ॥
उत्तीर्य दक्षिणे पूर्वं पश्चाद् वामेऽतिनिन्दिताः ।
कैश्चित् कृष्णो मृगश्चैकः कैश्चित् सर्वेऽपि नादृताः ॥
उत्तीर्य पृष्ठतो याति वेष्टनं वाकरोति चेत् ।
स्वस्थस्य वेष्टनप्राप्तिः सभयस्य भयं हरेत् ॥
उत्तु गपीवरकुचद्वयपीडिता गम् आलि गितः पुलकितेन भुजेन रत्या ।
श्रीमञ् जगन्ति मदयन् नयनाभिरामः कामोऽयमेति मदघूर्णितनेत्रपद्मः ॥
उत्तु गमत्तमात गमस्तकन्यस्तलोचनः ।
आसन्न्ऽएपि च सार गे न वाञ्च्छां कुरुते हरिः ॥
उत्तु गवातायनगोपुराणि गृहाणि वित्तानि दुरर्जितानि ।
क्षणादधःपातकराणि हन्त चितातिथेरस्य निरर्थकानि ॥
उत्तु गशैलशिखरस्थितपादपस्य काकः कृशोऽपि फलमालभते सपक्षः ।
सिंहः प्रचण्डगजकुम्भविदारकोऽपि उच्छिष्टमेव लभते खलु पक्षहीनः ॥
उत्तु गशैलशिखराश्रयणेन केचिद् उद्दामवीचिवलिताः सरितो भवन्ति ।
अन्ये पुणर्जलकनास् तृणलोष्टपाताद् अम्भोमुचां पयसि न क्षयमाप्नुवन्ति ॥
उत्तु गशैलशिखरे ननु पादपस्य काकोऽपि पक्वफलमालभते सपक्षः ।
सिंहो बली गजविदारणदारुणोऽपि सीदत्यहो तरुतले निजपक्षहीनः ॥
उत्तु गस्तनपर्वतादवतरद्ग गेव हारावली रोमाली नवनीलनीरजरुचिः सेयं कलिन्दात्मजा ।
जातं तीर्थमिदं सुपुण्यजनकं यत्रानयोः संगमश् चन्द्रो मज्जति लाञ्छनापहृतये नूनं नखांकच्छलात् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0