महासुभाषितसंग्रह · श्लोक 6427-6446
उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयांसि मांसान्य अंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूत् ईनि जग्ध्वा ।
आत्तस्नाय्वन्त्रनेत्रः प्रकटितदशनः प्रेतर कः कर काद् अ कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥
उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषाद् उद्दामस्यैकविंशत्यवधि विधसतः सर्वतो राजवंश्यान् ।
पित्र्यं तद्रक्तपूर्णह्रदसवनमहानन्दमन्दायमान- क्रोधाग्नेः कुर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः ॥
उत्कृष्टबलवीर्यस्य विजिगीषोर्जयैषिणः ।
गुणानुरक्तप्रकृतेर् यात्रा यानमिति स्मृतम् ॥
उत्कृष्टमध्यमनिकृष्टजनेषु मैत्री यद्वच्छिलासु सिकतासु जलेषु रेखा ।
वैरं क्रमादधममध्यमसज्जनेषु यद्वच्छिलासु सिकतासु जलेषु रेखा ॥
उत्कोचं प्रीतिदानं च द्यूतद्रव्यं सुभाषितम् ।
कामिनीं प्रथमावस्थां सद्यो गृह्णाति बुद्धिमान् ॥
उत्कोचकाश्चौपधिका वञ्चकाः कितवास् तथा ।
म गलादेशवृत्ताश्च भद्रप्रेक्षणिकैः सह ॥
असम्यक्कारिणश्चैव महामात्राश्चिकित्सकाः ।
शिल्पोपचारयुक्ताश्च निपुणाः पुण्ययोषितः ॥
एवमाद्यान् विजानीयात् प्रकाशांल्लोककण्टकान् ।
विगूढचारिणश्चान्यान् अनार्यानार्यलि गिनः ॥
उत्कोचपारितोषक- भाटसुभाषिततरार्थचौर्यांशाः ।
तत्क्षणमेव ग्राह्याः षडन्यकाले न लभ्यन्ते ॥
उत्क्रान्तं गिरिकूटल घनसहं ते वज्रसारा नखास् तत्तेजश्च तदूर्जितं स च नगोन्माथी निनादो महान् ।
आलस्यादविमुञ्चता गिरिगुहां सिंहेन निद्रालुना सर्वं विश्वजयैकसाधनमिदं लब्धं न किंचित् कृतम् ॥
उत्क्रान्तानामामिषायोपरिष्टाद् अध्याकाशं बभ्रुमुः पत्रवाहाः ।
मूर्ताः प्राणा नूनमद्याप्यवेक्षा- मासुः कायं त्याजिता दारुणास्त्रैः ॥
उत्क्रामद्भिश्च यः प्राणैः प्रयतः शिष्टसंमतः ।
चिन्तयेन् मनसा ग गां स गतिं परमां लभेत् ॥
उत्क्षिप्तं करक कणद्वयमिदं बद्धा दृढं मेखला यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयोर्मूकता ।
आरब्धे रभसान् मया प्रियसखि क्रीडाभिसारोत्सवे चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः ॥
उत्क्षिप्तं सखि वर्तिपूरितमुखं मूकीकृतं नूपुरं काञ्चीदाम निवृत्तघर्घररवं क्षिप्तं दुकूलान्तरे ।
सुप्ताः पञ्जरसारिकाः परिजनोऽप्याघूर्णितो निद्रया शून्यो राजपथस्तमांसि निविडान्येह्येहि निर्गम्यताम् ॥
उत्क्षिप्तं सह कौशिकस्य पुलकैः साकं मुखैर्नामितं भूपानां जनकस्य संशयधिया सार्धं समास्फालितम् ।
वैदेहीमनसा समं च सहसा कृष्टं ततो भार्गव- प्रौढाहंकृतिकन्दलेन च समं भग्नं तदैशं धनुः ॥
उत्क्षिप्तबाहुदर्शित- भुजमूलं चूतमुकुल मम सख्या ।
आकृष्यमाण राजति भवतः परमुच्चपदलाभः ॥
उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बैर् उत्तम्भितोडुभिरतीवतरां शिरोभिः ।
श्रद्धेयनिर्झरजलव्यपदेशमस्य विष्वक्तटेषु पतति स्फुटमन्तरीक्षम् ॥
उत्क्षिप्ता अपि दन्तीद्रैः कोपनैः पत्तयः परम् ।
तदसूनहरन् खड्गघातैः स्वस्य पुरः प्रभोः ॥
उत्क्षिप्य करिभिर्दूरान् मुक्तानां योधिनां दिवि ।
प्रापि जीवात्मभिर्दिव्या गतिर्वा विग्रहैर्मही ॥
उत्क्षिप्य टिट्टिभः पादाव् आस्ते भ गभयाद् दिवः ।
स्वचित्तकल्पितो गर्वः कस्य नात्रापि विद्यते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0