महासुभाषितसंग्रह · श्लोक 6407-6426
उत्कण्ठित मनो बाला सुदूरस्था नवं वयः ।
विधिर्वामो रिपुः कामो हा हा दुःखपरम्परा ॥
उत्कण्ठितस्य हृदयानुगुणा वयस्या संकेतके चिरयति प्रवरो विनोदः ।
संस्थापना प्रियतमा विरहातुराणां रक्तस्य रागपरिवृद्धिकरः प्रमोदः ॥
उत्कण्ठितस्य हृदयानुगता सखीव संकीर्णदोषरहिता विषयेषु गोष्ठी ।
क्रीडारसेषु मदनव्यसनेषु कान्ता स्त्रीणां तु कान्तरतिविघ्नकरी सपत्नी ॥
उत्कम्पघर्मपिच्छिल- दोःसाधिकहस्तविच्युतश् चौरः ।
शिवमाशास्ते सुतनु स्तनयोस्तव पञ्चलाञ्चलयोः ॥
उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती ।
क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि ॥
उत्कम्पोऽपि सकम्प एव हृदये चिन्तापि चिन्तान्विता निःश्वासा अपि निःश्वसन्त्यनिभृतं बाष्पोऽपि बाष्पायते ।
कान्तां संस्मरतो विदेशवसतेर्नक्तं दिवं कामिनः प्रारोहा इव निष्पतन्ति मनसो दुःखानि दुःखान्वितात् ॥
उत्कम्पो हृदये स्खलन्ति वचनान्यावेगलोलं मनो गात्रं सीदति चक्षुरश्रुकलुषं चिन्ता मुखं शुष्यति ।
यस्यैषा सखि पूर्वर गरचना मानः स मुक्तो मया वन्स्यास्ता अपि योषितः क्षितितले यासामयं संमतः ॥
उत्कर्णं करिणां गणेन विकसन्मोदं चिराद् बर्हिभिः क्रीडाकेशरिभिश्च पञ्जरगतैः कोपस्फुरल्लोचनम् ।
कुञ्जोत्स गभुवि प्रकम्पतरलं सीमन्तिनीभिः क्षणात् पीतः श्रोत्रपुटेन देव परितः प्रातर्मृद गध्वनिः ॥
उत्कर्णोऽयमकाण्डचण्डिमपटुः स्फारस्फुरत्केसरः क्रूराकारकरालवक्रविकटस्तब्धोर्ध्वला गूलभृत् ।
चित्रेणापि न शक्यतेऽभिलिखितुं सर्वा गसंकोचनाच् चीत्कुर्वद्गिरिकुञ्जकुञ्जरशिरः कुम्भस्थलस्थो हरिः ॥
उत्कर्तितुं समर्थोऽपि गन्तुं चैव सपक्षकः ।
द्विरेफो गन्धलोभेन कमले याति बन्धनम् ॥
उत्कर्षवान् निजगुणो यथा यथा याति कर्णमन्यस्य ।
धनुरिव सुवंशजन्मा तथा तथा सज्जनो नमति ॥
उत्कर्षो नैव नित्यः स्यान्नापकर्षस् तथैव च ।
प्राक् कर्मवशतो नित्यं सधनो निर्धनो भवेत् ॥
उत्कलिकाबाहुल्यं तत् तत् स्वाभाविकं द्रवत्वं च ।
स च निरुपाधिस्नेहस् तेनेशस्य प्रिया ग गा ॥
उत्कल्लोलस्य लक्ष्मीं लवणजलनिधिर्लम्भितः क्षीरसिन्धोः को विन्ध्यः कश्च गौरीगुरुरिति मरुतामभ्युदस्तो विवेकः ।
नीताः कर्कत्वमर्कप्रवहणहरयो हारितोत्स गलक्ष्मा राजन्नुद्दामगौरैरजनि च रजनीवल्लभस्त्वद्यशोभिः ॥
उत्कामुन्मनयन्त्येते बालां तदलकत्विषः ।
अम्भोधरास् तडित्वन्तो गम्भीराः स्तनयित्नवः ॥
उत्कीर्णा इव वासयष्टिषु निशानिद्रालसा बर्हिणो धूपैर्जालविनिःसृतैर् वलभयः संदिग्धपारावताः ।
आचारप्रयतः सपुष्पबलिषु स्थानेषु चार्चिष्मतीः संध्याम गलदीपिका विभजते शुद्धान्तवृद्धो जनः ॥
उत्कूजति भ्रमति रोदिति रारटीति पद्मानि चोत्क्षिपति चञ्चुपुटेन दूरम् ।
तोये निमज्जति शशा कमुदीक्षते च कष्टं प्रियाविरहितो निशि चक्रवाकः ॥
उत्कूजति श्वसिति मुह्यति याति तीरं तीरात् तरुं तरुतलात् पुनरेति वापीम् ।
वाप्यां न तिष्ठति न चाति मृणालखण्डं चक्रः क्षपासु विरहे खलु चक्रवाक्याः ॥
उत्कूजन्तु वटे वटे बत बकाः काका वराका अपि क्रांकुर्वन्तु सदा निनादपटवस्ते पिप्पले पिप्पले ।
सोऽन्यः कोऽपि रसालपल्लवलवग्रासोल्लसत्पाटव- क्रीडत्कोकिलकण्ठकूजनकलालीलाविलासक्रमः ॥
उत्कृत्य ज्वलितात् शवात् कथमपि प्रेताशनः पैशितीं पेशीमग्निमयीं निगीर्य सहसा दन्दह्यमानोदरः ।
धावत्युत्प्लवते मुहुर्निपतति प्रोत्तिष्ठति प्रेक्षते विष्वक्क्रोशति संपिनष्टि जठरं मुष्ट्या हते मस्तकम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0